________________
३१६ ]
[ गाथा - १५७-१५८
वा
'समये' इत्यादि, 'समये' एकवचननिर्देशाद् एकस्मिन् समये 'एकतः' प्रत्यासच्या एकसमयबद्धादेकभवप्रबद्धाच्च प्रभृति पल्यासंख्यांशक्षण भवप्रबद्धाः ' पल्योपमाऽसंख्येव भागप्रमाणाः समयबद्धा भववप्रद्धा निर्लेप्यन्ते । इदमुक्तं भवति - एकस्मिन् समय एकः समयबद्ध निर्लेप्यते, एवमेकस्मिन् समये द्वौ समयप्रबद्धौ भववद्धौ वा निर्लेप्यतः, एवमेकोत्तरवृद्धया तावद् वक्तव्यम्, यावदेकस्मिन् समये पल्योपमाऽसंख्यात भाग प्रमिताः समयप्रबद्धा भवबद्धा वा निर्लेप्यन्ते । उक्तं च कषायप्राभृतचूर्णी - "एक्करेण समएण पिल्लेविज्जंति समयपबडा वा भवबडा वा एक्को वा, दो वा तिष्णि वा उक्कस्सेण पलिदोवमस्स असंखेज्जदिभागो ।” इति ।
arrat
'इगेगेणं' इत्यादि, अतीतकालयेकस्मिन् समययेकैकेन निर्लेपिताः 'स्तोकाः' अल्पाः समयबद्धा भवबद्धा वा भवन्ति । क्रमशो 'अधिका: ' विशेषाधिका भवन्ति । इदमत्र हृदयम् - एकसमये एकसमयबद्ध एकभवप्रबद्धो वा निर्लेपितः, अन्यस्मिन्नेकसमये पुनरेकसमयप्रबद्ध एकभवबद्धो वा निर्लेपितः । अनेन क्रमेणाऽतीतकाल एकैकसमयप्रवद्धा एकैकभववद्धा वा यावन्तो निर्लेषिताः, ते सर्वेऽनन्तराशिप्रमाणा भवन्तोऽपि स्तोका भवन्ति । तत एकसमये द्विसमयबद्धा द्विविद्धा वातीतकाले निर्लेपिता विशेषाधिका भवन्ति, आधिक्यं च प्रागुक्तपदं पल्योपमासंख्येयभागेन खण्डयित्वैकखण्डप्रमाणेन ज्ञातव्यम् । ततोऽप्येकसमये निर्लेपिता स्त्रित्रि समयप्रबद्वास्त्रित्रिभवप्रश्रद्धा वा विशेषाधिका भवन्ति । यदवादि कषायप्राभृतचूणौं – “एक्केकेण पिल्लेविज्जति, ते थोवा, दोण्णि णिल्लेविज्जंति विसेसाहिया । तिष्णि णिल्लेविज्जति विसेसाहिया ।" इति । एवं विशेषाधिकक्रमेण गच्छन्तः पन्योपमाऽसंख्येयतमभागे गते द्विगुणा भवन्ति, इदञ्च प्रथमं द्विगुणवृद्धिस्थानम् । ततः पुनः पल्योपमा - ऽसंख्येय मागे गते द्वितीयं द्विगुणवृद्धिस्थानं लभ्यते । ततः पुनः पल्योपमा - 5-संख्येयभागे गते तृतीयं द्विगुणवृद्धिस्थानं प्राप्यते । एवंक्रमेण पल्योपमा ऽसंख्येयभागप्रमाणेषु द्विगुणवृद्धिस्थानेषु त्रजितेषु यवमध्यं प्राप्यते । तदेव दर्शयति- 'पल्ल० ' इत्यादि, 'पल्यासंख्यांशे' पल्योपमाऽसंख्येयभागे गते 'द्विगुणा: ' एकस्मिन् समये निर्लेपिता समयबद्धा भवप्रश्रद्धा वा द्विगुणा भवन्ति, 'तथा यवमध्ये ' पल्योपमाs - संख्येयभागे च गते यवमध्यं भवतीति शेषः । अयम्भावः - प्रथमस्थानतः पल्योपमाऽसंख्येयभागे गत एकसमये निर्लेपितेभ्य एकैकसमयप्रवद्वेभ्य एकैकमा प्रबद्धेभ्यश्च यथाक्रमं तत्प्रायोग्यपल्योपमाऽसंख्येयभागमिता एकसमये निर्लेपिताः समयबद्धा भवप्रवद्धाश्च द्विगुणा भवन्ति । उक्त ं च कषायप्राभृतचूण - " एवं गंतॄण पलिदोवमस्स असंखेज्जदिभागे दुगुणा । " इति । ततः पुनः पल्योपमाऽसंख्येयभागे गते द्वितीयं द्विगुणवृद्धिस्थानं लभ्यते । ततः पुनः पल्योपमाऽसंख्येयभागे व्यतिक्रान्ते तृतीयं द्विगुणवृद्धिस्थानं प्राप्यते । एवमसंख्यातेषु द्विगुणवृद्धिस्थानेषु गतेषु यवमध्यं जायते । यवमध्यस्योपरि विशेषहीनक्रमेण वक्तव्याः,
I
पल्यो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.