________________
एकसमयेन निर्लेपितभवसमयप्रबद्धाः ] किट्टिवेदनाद्धाधिकारः
[ ३१५ पल्योपमाऽसंख्येयभागप्रमाणानि भवन्ति, उत्कृष्टतो निर्लेपनान्तरस्य पल्योपमाऽसंख्येयभागप्रमाणत्वस्य वक्ष्यमाणत्वात् । तत्र सकलस्थानानामसंख्येयतमभागमात्रेषु स्थानेषु गतेषु यवमध्यं प्राप्यते । ततो यवमध्यस्योपरि समयोत्तरक्रमेण वृद्धसमयान्तरेण निलेपितसमयप्रबद्धा विशेषहीना विशेषहीना भवन्ति, पल्योपमाऽसंख्येयभागे च गते द्विगुणहीना भवन्ति । ततः पुनः पल्योपमासंख्ययभागे ब्रजिते द्विगुणहीना भवन्ति । एवंक्रमेणाऽसंख्येयद्विगुणहानिस्थानेषु गतेषु चरमस्थानं प्राप्यते ।
__तहेव' इत्यादि, 'तथैव' यथैकसमयाद्यन्तरेण निर्लेपितसमयप्रबद्धा विशेषाधिकक्रमेण निरूपिताः,पल्योपमाऽसंख्येयभागे च गते द्विगुणा दर्शिताः, तथैव भवबद्धा अपि बोध्याः, स्थानानां चाऽसंख्येयतमभागे यवमध्यं ज्ञातव्यम् । यदभ्यधायि कषायप्राभृतचूर्णी-"अखवगस्स एगसमएण अंतरेण णिल्लेविदा समयपबद्धा वा भवबडा वा थोवा, दुसमएण अंतरेण णिल्लेविदा विसेसाहिया, एवं गंतूण पलिदोवमस्स असंखेजदिभागे दुगुणा । ठाणाणमसंखेजदिभागे जवमझं ।" इति ।
अथ चरमस्थानस्य स्पष्टप्रतिपत्तये भणति-गुरु' इत्यादि, 'गुरु' उत्कृष्ट निर्लेपनाऽन्तरमसंख्यभागस्तु पल्यस्य भवति, उत्कृष्टतोऽप्यक्षपकस्याऽनिर्लेपनस्थितयः पल्योपमाऽसंख्येयभागप्रमाणा एव निरन्तरमुदयन्ति, एताभ्योऽधिका अनिर्लेपन स्थितयो न संभवन्तीत्यर्थः । तथा चोक्तं कषायप्राभूतचूर्णी-"उक्कस्सं पि पिल्लेवणंतरं पलिदोवमस्स असंखेजदिभागो।” इति।
क्षपकस्य तूत्कृष्टतोऽप्यनिर्लेपन स्थितय आवलिकाऽसंख्येयभागमिता निरन्तरमुदयन्ति, ताभ्योऽधिकाः, तेन क्षपकस्योत्कृष्ट निलेपनाऽन्तरमावलिकाऽसंख्येयभागप्रमितं भवति ॥१५५-१५६॥ ___ अथैकसमयेन निलेप्यमानभवसमयप्रबद्धान् निर्लेपितभवसमयप्रबद्धानां चाल्पबहुत्वं व्याजिहीर्ष राहसमयम्मि पहुडि इगओ पल्लासंखंसखणभवपबद्धा। णिल्लेविज्जन्ति इगेगेणं पिल्लेविया थोवा ॥१५॥ कमसो अहिआ पल्लअसंखंसम्मि दुगुणा तहा जवमझं । णाणंतरेहि एगंतरछेयणयाइ खलु असंखगुणाई॥१५८॥ (आर्यागीतिः)
समये प्रभृत्येकतः पल्यासंख्यांशक्षणभवप्रबद्धाः । निर्लेप्यन्त एकैकेन निर्लेपिताः स्तोकाः ।। १५७ ।। क्रमशो-ऽधिकाः पल्याऽसंख्यांसे द्विगुणास्तथा यवमध्यम् । नानान्तरेभ्य एकान्तरच्छेदनकानि खल्वसंख्यगुणानि ॥ १५८ ॥ इति पदसंस्कारः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org