________________
३१४ ]
aarसेढी
जवमज्झं ठाणअसंखेजड़भागे तहेव भववद्धा । गुरु पिल्लेवण अंतरमसंखभागो उ पल्लस्स ॥ १५६ ॥
एकसमयान्तरेणाऽल्पा निर्लेपितक्षणप्रबद्धा: ।
क्रमशोऽधिका द्विगुणाः पल्या संख्येयभागे ॥ १५५ ।।
यवमध्यं स्थानाऽसंख्येयतमभागे तथैव भवबद्धाः खलु ।
गुरु निर्लेपनान्तरमसंख्यभागस्तु पल्यस्य || १५६ || इति पदसंस्कारः |
'एग०' इत्यादि, एकसमयान्तरेण 'निर्लेपितक्षणप्रबद्धाः ' निर्लेपितसमःप्रबद्धाः 'अल्पा : ' स्तोकाः । इदमुक्तं भवति - अक्षपकस्याऽतीतकाले द्वयोः पार्श्वयोरेकैकाऽनिर्लेपनस्थितिरुदेति, मध्ये चैकस्यां वाऽनेकासु वोदयमानासु निर्लेपनस्थितिषु यावन्तः समयप्रबद्धा निर्लेपिताः, ते गणयितव्याः, ततः पुनद्वयोः पार्श्वयोरेकैकाऽनिर्लेपन स्थितिरुदेति, मध्ये चोदयमानासु निर्लेपनस्थितिषु यावन्तः समयप्रबद्धा निर्लेपिताः, ते गणयितव्याः । एवं पुनः पुनरेकैकाऽनिर्लेपनस्थित्यन्तरेण निर्लेपिताः सर्वे समुदिताः समयबद्धाः स्तोका भवन्ति, ते च नानाकर्माऽवस्थानकालाऽपेक्षयाऽनन्ताः, एककर्माऽवस्थानकालं त्वाश्रित्याऽसंख्येया भवन्ति ।
Jain Education International
[ गाथा - १५५-१५६
'कमसो' इत्यादि क्रमशो 'अधिकाः' विशेषाधिका भवन्ति । इदमुक्तं भवति - एकसमयान्तरेण निर्लेपितसमयप्रवद्धतोऽतीतकाले द्विसमयान्तरेण निर्लेपिताः समयबद्ध विशेषाधिका भवन्ति । तथाहि - अतीतकाले द्वयोः पार्श्वयोद्वे द्वेोऽनिर्लेपनस्थिती उदितः मध्ये चैकस्यामने - कासु वोदयमानासु निर्लेपनस्थितिषु निर्लेपिताः समयवद्धा विशेपाविका भवन्ति, ते च नानाकर्माऽवस्थानकालापेक्षयाऽनन्ताः, एककर्माऽवस्थानकालं त्वाश्रित्याऽसंख्येयाः । एवमग्रे ऽपि वक्तव्यम् | आधिक्यं चैकसमयान्तरेण निर्लेपितसमयप्रवद्धान् पल्योपमाऽसंख्येयभागेन भक्त्वैकखण्डेन ज्ञातव्यम्, पल्योपमाऽसंख्येयभागे गते द्विगुणत्वात् । ततो द्विसमयान्तरेण निलेंपितसमय प्रबद्ध तस्त्रिसमयान्तरेण निर्लेपिताः समयप्रवद्धा विशेषाधिकाः, ततश्चतु समयान्तरेण निर्लेपितसमयप्रवद्धा विशेषाधिकाः । एवंक्रमेण पल्योपमाऽसंख्येयभागे गते द्विगुणा भवन्ति । तदेवाह - - ' दुगुणो' इत्यादि, तत्र 'पल्यासंख्येयभागे' पल्योपमस्याऽसंख्येयभागे गते 'द्विगुणा: ' द्विगुणवृद्धा भवन्ति । अयम्भावः - अतीतकाले द्वयोः पार्श्वयोः पल्योपमाऽसंख्येयभागमात्र्योऽनिर्लेपनस्थितय उदयन्ति मध्ये चोदयमानासु निर्लेपनस्थितिषु निर्लेपिताः समयप्रबद्धा एकसमयान्तरेण निर्लेपितसमयबद्धतो द्विगुणा भवन्ति । ते च नानाकर्माऽवस्थानका - लापेक्षयाऽनन्ताः, एककर्माऽवस्थानकालं त्वाश्रित्यासंख्येपा भवन्ति । ततः पुनः पल्योपमासंख्येयभागे गते निर्लेपिताः समयप्रबद्धा द्विगुणा भवन्ति । एवमसंख्यातेषु द्विगुणवद्धिस्थानेषु गतेषु यवमध्यं प्राप्यते, तदभिधित्सुराह - 'जवमज्झं' इत्यादि, यवमध्यं 'स्थानाऽसंख्येयतमभागे' सर्वस्थानानामसंख्येयतमे भागे गते भवतीति शेषः । भावार्थः पुनरयम् - सकलानि स्थानानि
For Private & Personal Use Only
www.jainelibrary.org