________________
[ ३१३
क्षपकाक्षपकयोरनुसमयनिर्लेपनकालः] किट्टिवेदनाद्धाधिकारः ऽनन्तसमयप्रमाण एकसामयिकोऽनुसमयनिर्लेपनकाल: प्रभृतः । ततो द्विसामयिकोऽनुसमयनिर्लेपनकालो विशेषहीनः, ततस्त्रिसामयिकोऽनुसमयनिर्लेपनकालो विशेषहीनः । एवंक्रमेण आलिअसंखंसे' त्ति'आलिकाऽसंख्यांशे' आवलिकाऽसंख्येयभागे 'द्विगुणोनो' द्विगुणहीनः। इदमुक्तं भवति-प्रथमस्थानत आवलिकाऽसंख्येयभागमात्रेषु स्थानेषु गतेष्वेकसामयिकनिर्लेपनकालतो द्विगुणहीनो ज्ञेयः, ततः पुनरावलिकाऽसंख्येयभागमात्रेषु स्थानेषु गतेषु द्विगुणहीनो बोध्याः । ततः पुनरेतावत्सु स्थानेषु गतेषु द्विगुणहीनो ज्ञेयः । एवंक्रमेण तावद्वाच्यम्, यावच्चरमस्थानम् । नानाद्विगुणहानिस्थानान्यावलिकाऽसंख्येयभागमात्राणि भवन्ति, सकलस्थानानामप्यावलिकाऽसंख्येयभागमात्रत्वात् ।
क्षपकस्याऽपीत्थमेवाऽनुसमयनिर्लेपनकालः प्ररूपयितव्ययः । तथाहि-एकसामयिकः समयप्रबद्धानां भवबद्धानां वाऽनुसमपनिलेपनकालः प्रभृतः, स चाऽतीतकाले नानाक्षपकापेक्षयाऽनन्तसमयप्रमाणः, एकक्षपकं त्वाश्रित्याऽऽचलिकाऽसंख्येयभागप्रमाणो ज्ञातव्यः, ततो विशेषहीनो द्विसामयिकः समयप्रबद्धानां भववद्धानां वाऽनुसमयनिर्लेपनकालः, सोऽपि नानाक्षपकापेक्षयाऽनन्तसमयप्रमाणः, एकक्षपकं तु प्रतीत्याऽऽचलिकाऽसंख्येयभागप्रमाणः । एवं विशेषहीनक्रमेण गच्छनावलिकाऽसंख्येयभागिकोऽनुसमयनिर्लेपनकालो द्विगुणहीनो भवति । स च नानाक्षपकापेक्षयाऽनन्तसमयप्रमाणः, एकक्षपकाऽपेक्षया त्वावलिकाऽसंख्येयभागप्रमाणः । प्रत्यपादि च कषायप्राभृतचूर्णी-"खवगस्स वाअक्खवगस्स वा समयप्रबद्धाण भवबहाणं अणुसमयणिल्लेवणकालो एगसमइओ बहुगो । दुसमइओ विसेसहोणो । एवं गंतूण आवलियाए असंखेजदिभागे दुगुणहोणो।" इति । ततः पुनरावलिकाऽसंख्येयभागे गते द्विगुणहीनो भवति । नानाद्विगुणहानिस्थानान्यावलिकाऽसंख्येयभागमात्राण्यावसेयानि, सर्वेषां स्थानानामावलिकाऽसंख्येयभागमात्रत्वात् ।
अथोत्कृष्टोनुसमयनिर्लेपनकालं भणति-"आव०' इत्यदि, तत्र ज्येष्ठः' उत्कृष्टःक्षपकस्याक्षपकस्य वाऽनुसमयनिर्लेपनकाल आवलिकाऽसंख्येयभागो ज्ञातव्यः, नाधिकः । उक्तं च कषायप्राभृतचूर्णी-“उकस्सओ वि अणुसमयणिल्लेवणकालो आवलियाए असंखेजदिभागो ।" इति ॥१५४॥
अथाऽनिर्लेपनस्थितिभिरन्तरितनिर्लेपनस्थितीनामुदयेन निर्लेपितानां समयप्रबद्धानां भवबद्धानां चाऽल्पबहुत्वमक्षपकस्याऽतीतकालमाश्रित्याऽभिधित्सुराह
एगसमयंतरेणं अप्पा णिल्लेवियक्खणपबद्धा। कमसो अहिआ दुगुणा पल्लासंखेजभागम्मि ॥१५५॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org