________________
३१२ ]
aarसेढी
[ गाथा-- १५४
इत्यादि, 'ततो' नानाद्विगुणहानिस्थानेभ्य 'एकान्तरमनन्तगुणं' द्वयोर्द्विगुणवृद्ध यो गुणहान्योर्वैकस्मिन्नन्तराले यानि स्थानानि तान्यनन्तगुणानि 'श्रुते' कषायप्राभृतचूर्ण्यादिलक्षणे 'खल’ निश्चयेन 'भणितं ' प्ररूपितानि । तथाहि - नानागुणहानिस्थानानि पल्योपमाऽर्धच्छेदनकानामध्यसंख्येयभागप्रमाणानि भवन्ति । तानि स्तोकानि, ततो द्वयोर्द्वगुणवृद्ध योर्द्वगुणहान्योर्वै काऽपान्तरालवर्तीनि स्थानान्यनन्तगुणानि भवन्ति । यदभिहितं कषायप्राभृतचूण - णाणंतराणि थोवाणि । एक्कं तरमणंतगुणं ।” इति । ननु तेषामनन्तगुणत्वं कुतः सिध्यति ? इति चेद्, शृणुत - सकलानि स्थानान्यनन्तानि भवन्ति तानि च नानाद्विगुणहानिस्थानलक्षणपल्योपमार्धच्छेदन का संख्येयभागेन विभज्यन्ते, तदैकभागमात्राणि द्वयोर्द्विगुणवृद्धयोर्द्वगुणहान्योर्वैकाऽन्तरालवर्तीनि स्थानानि प्राप्यन्ते, तानि चाऽनन्तानि, अनन्तराशेः पल्योपमार्धच्छेदन काऽसंख्येयभागेन विभाजितत्वात् । इह नानागुणहानिस्थानानि स्तोकानि, असंख्येयत्वात् । तेभ्यो द्वयोर्द्वगुणवृद्धयोर्द्विगुणहान्योर्वै काऽपान्तरालवतीनि स्थानान्यनन्तगुणानि, प्रमाणतोऽनन्तत्वात् । एवं भवबद्धानामपि यवमध्यादिप्ररूपणा कर्तव्या, विशेषाभावात् ।। १५३ ।।
अथ समयबद्धानां भवबद्धानां च निरन्तरनिर्लेपनकालं प्ररूपयति
एगसमइयो ऽणुसमयणिल्लेवणकालगो पहूओ ईओ । आलिअसंखंसे दुगुणूणो आवलिअसंखभागो जेट्टो ॥ १५४ ॥ ( आर्यागीतिः )
एकसामयिकोऽनुसमयनिर्लेपनकालः प्रभूतोऽतीतः ।
आवलिका संख्यांशे द्विगुणोन आवलिकाऽसंख्यभागो ज्येष्ठः || १५४ || इति पदसंस्कारः ।
'एग०' इत्यादि, एकसामयिकोऽनुसमयनिर्लेपनकालः प्रभूतो 'अतीतो' व्यतिक्रान्तः । एतदुक्तं भवति - अनुसमयनिर्लेपनकालो नाम समयबद्धानां भगवद्धानां वा निरन्तरनिर्लेपनकालः । स च जघन्यत एकसमयप्रमाणो भवति । उभयोः पार्श्वयोस्ते स्थिती उदितः, ययोः समयबद्धा वा भवबद्धा वा न निर्लेप्यन्ते, मध्ये चैकस्यामुदयमानस्थित्यामेकसमयमात्र्यां निर्लेप्यन्ते स एकसामयिकोऽनुसमयनिर्लेपनकाल उच्यते, एवमुभयोः पार्श्वयोस्ते स्थिती अनुभूयेते, ययोः समयप्रबद्धा भववद्धा वा न निर्लेप्यन्ते, मध्ये च द्वयोर्निरन्तरस्थित्योर्निर्लेप्यन्ते, स द्विसामयिकोऽनुसमयनिर्लेपनकाल उच्यते, एवमेकोत्तरवृद्धया निरन्तरमनुसमयनिर्लेपन काल उत्कृष्टत आवलिका संख्येयभागप्रमाणो लभ्यते ।
तत्रैकस्याऽक्षपकस्याऽतीतकाल एकसामयिकः समयप्रवद्धानां भववद्धानां वाऽनुसमयनिर्लेपन कालः प्रभूतो 'अतीतो' व्यतिक्रान्तः, अक्षपकस्याऽतीतकाले द्वयोः पार्श्वयोरनिर्लेपनस्थित्योरुदयो जातः, मध्ये चैका निर्लेपनस्थितिरुदेति स्म, पुनः कदाचिद् द्वयोः पार्श्वयोरनिर्लेपनस्थित्योरुदयो जातः, मध्ये चैका निर्लेपनस्थितिरुदेति स्म । एवं पुनः पुनर्लब्धः समुदितोऽ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org