________________
एकादिप्रदेशैर्निर्लेपितसमयप्रबद्धाः] किट्टिवेदनाद्धाधिकारः
[ ३११ द्विगुणवृद्धा भवन्ति । एवं सर्वस्थानानामसंख्येयभागे गते यवमध्यमपि प्राप्यते, तद्वयाजिहीपुराह-'तहा जवमझ ति 'तथा' एवं यवमध्यम्, यथा स्थानानामसंख्योयभाने समयप्रबद्धा द्विगुणा भवन्ति, तथैव यवमध्यमपि स्थानानामसंख्योयतमे भागे प्राप्यत इत्यर्थः । इदमत्र हृदयम्एकपरमाणुत आरभ्य एकसमोनोत्कृष्टतो निर्लेप्यमानानकसमयाप्रवद्धाऽसंख्योयभागप्रमाणानन्तपरमाणून् यावदेकोत्तरक्रमेण यावन्ति स्थानानि लभ्यन्ते, तावतामभव्योम्योऽनन्तगुणानां सिद्धानां चाऽनन्तभागमात्राणां स्थानानासंख्योयतमभागे यवमध्यं भवति । यद्यपि द्विगुणवृद्धिस्थानमपि स्थानानामसंख्योयतमभागे प्राप्यते, एवं यवमध्यमपि, तथाप्यसंख्यातेषु द्विगुणवृद्धिस्थानेषु गतेषु यवमध्यं लभ्यते, भाजकस्याऽसंख्येयत्वेनासंख्येय भेदत्वात् । यवमध्यस्योपरि द्विगुणवृद्धिस्थानतोऽसंख्यगुणानि द्विगुणहानिस्थानानि भवन्ति । ननु स्थानानामसंख्येयभागे यवमध्यमुक्तम् , तदत्र कः प्रतिभागः? इति चेत्, उच्यते-पल्योपमासंख्येयभागमात्रः । उक्तं च कषायप्राभूतचूर्णी-"ठाणाणं पलिदोवमस्स असंखेजज्जदिभागपडिभागे जवमझ। इति । भावार्थः पुनरयम्सकलानि स्थानानि पल्योपमाऽसंख्येयभागेन विभक्तव्यानि । ततो लब्धैकभागप्रमाणानि स्थानान्युल्लवय यवमध्यं प्राप्यते, तस्योपरि विशेषहीनक्रमेण निर्लेपिताः समयप्रबद्धा भवन्ति, यवमध्यतश्च स्थानानामसंख्योयतमभागे गते द्विगुणहीना भवन्ति, पुनस्तावत्प्रमाणेषु स्थानेषु व्रजितेषु द्विगुणहीना भवन्ति, एवं द्विगुणहीना द्विगुणहीनास्तावदभिधातव्याः, यावच्चरमस्थानम् । ___ अथ नानाद्विगुणहानिस्थानानि वक्तुकामोऽभिधत्ते-'णाणंतराणि' इत्यादि, 'नानान्तराणि नानाप्रकराणि अन्तराणि-द्विगुणवृद्धिद्विगुणहानिरूपाणि मध्यगतानि स्थानानि, अयं भावः-एकैकेन प्रदेशेन शेषीभूतेन निर्लेपिताः समयप्रबद्धाः स्तोका भवन्ति,ततोद्वाभ्यांद्वाभ्यांप्रदेशाभ्यां शेषीभताभ्यां निर्लेपिता विशेषाधिका भवन्ति, एवं विशेषाधिकक्रमेणाऽनन्तेषु स्थानेषु गतेषु द्विगुणवृद्धा भवन्ति, इदं चाद्यं विगुणवृद्धिस्थानम्, तस्यौका शलाका स्थाप्या, ततः पुनस्तावत्सु स्थानेषु व्यतिक्रान्तेषु पुनर्द्विगुणवृद्धा भवन्ति, इदं च द्वितीयं द्विगुणवद्धिस्थानम्, तस्यैका शलाका स्थाप्या। एवंक्रमेण यावन्ति द्विगुणवृद्धिस्थानानि लभ्यन्ते, तावत्यः शलाकाः स्थाप्याः, ततो यवमध्यस्योपरि विशेषहीनक्रमेणाऽनन्तेषु स्थानेषु गतेषु समयप्रबद्धा द्विगुणहीना भवन्ति, इदं च प्रथम द्विगुणहानिस्थानम्, तस्यैका शलाका स्थापयितव्या । ततः पुनस्तावन्मात्रेषु स्थानेषुगतेषु द्वितीयं द्विगुणहानिस्थानम्,तस्य द्वितीयका शलाका स्थाप्या । एवंक्रमेण यावन्ति द्विगुणहानिस्थानानि भवन्ति,तावत्यश्शलाकाः स्थाप्याः। द्विगुणवृद्धिस्थानानां स्थापितसर्वशलाका द्विगुणहानिस्थानानां च स्थापितसर्वशलाका मिलित्वा यावत्यः शलाका भवन्ति, तावन्ति नानान्तराणि भवन्ति । तानि प्रमाणतः कति भवन्ति ? इत्यत आह-'पल्लस्य' इत्यादि, 'पल्यस्य' पल्योपमस्य 'छेदनकाऽसंख्यभागमात्राणि' अर्धच्छेदनकानामसंख्येयभागप्रमाणानि भवन्ति । उक्तच कषायप्राभृतचूर्णी"अंतराणि अंतरविदाए पलिदोवमच्छेदणाणं पि असंखेज्जदिभागो।” इति । 'तो'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org