________________
३१० ]
[ गाथा-- १५२-१५३
यवमभ्यस्याऽधस्तननिर्लेपनस्थानान्यन्तर्मुहूर्त प्रमाणैर्निर्लेपनस्थानैरधिकानि भवन्ति । यवमध्यस्याधस्तननिर्लेपनस्थानतोऽसंख्येयगुणानि यवमध्यस्योपरि निर्लेपनस्थानानि गत्वा समयबद्धानां भवबद्धानां चैकत्र चरमनिर्लेपनस्थानं प्राप्यत इति फलितार्थ: ।। १५१ ।।
अथाऽतीतकालाभ्यन्तरयेकादिप्रदेशाग्रेण ये समयप्रबद्धा निर्लेपिताः तान् विस्तरत
aaraढी
आविविकीषु राह
पण अईएsपाणिल्लेविया तु समयपबद्धा । कमसो अहिया ठाणअसंखंसे च दुगुणा तहा जवमज्झं १५२ (आर्यागीतिः ) णाणतराणि पल्लस्स छेदणअसंखभागमेत्ताणि । तो एगअंतरमणंतगुणं भणियं सुअम्मि खलु ॥१५३॥
एकप्रदेशेनाऽतीतेऽल्पा निर्लेपितास्तु समयप्रबद्धाः ।
क्रमशोऽधिकाः स्थानाऽसंख्यांशे च द्विगुणास्तथा यवमध्यम् ।। १५२ ।। नानान्तराणि पल्यस्यच्छेदनाऽसंख्यभागमात्राणि ।
तत एकान्तरमनन्तगुणं भणितं श्रुते खलु ॥ १५३ ॥ इति पदसंस्कारः । 'एग०' इत्यादि, अतीतकाले पूर्वोक्ताऽसंख्यातपल्योपमप्रथमवर्गमूलमात्र निर्लेपन स्थानेषु यत्र वा तत्र वा कदाचिदेकैकेन प्रदेशेन शेषीभूतेन समयप्रबद्धा निर्लेपिताः, कदाचित् द्वाभ्यां द्वाभ्यां प्रदेशाभ्यां निर्लेपिताः, कदाचित्पुनस्त्रिभिस्त्रिभिः प्रदेशैर्निर्लेपिताः, एवं क्रमेणोत्कृष्ट तोऽनन्तप्रदेशैः शेषीभूतैः समयप्रबद्धा निर्लेपिताः । तत्र 'अतीते' अतीतकाले पूर्वोक्तनिर्लेपनस्थानेषु यत्र वा तत्र वा 'एकप्रदेशेन' एकैकेन कर्मप्रदेशेन शेषीभूतेन निर्लेपितास्तु समयबद्धाः सर्वे मिलित्वाऽनन्तराशिका भवन्तोऽपि 'अल्पाः ' स्तोकाः उपरितनानामधिकत्वप्रतिपादनात् । 'कमसो अहिया' त्ति क्रमशो ‘अधिका' विशेषाधिकाः । अयं भावः- ततो द्वाभ्यां द्वाभ्यां कर्मप्रदेशाभ्यां शेषीभूताभ्यां निर्लेपिताः समयबद्धा विशेषाधिका वाच्याः । ततस्त्रिभिस्त्रिभिः कर्मप्रदेशैः शेषीभूतैर्निर्लेपिताः समयप्रबद्धा विशेषाधिका अभिधातव्याः । एवं विशेषाधिकक्रमेणाऽनन्तानि स्थानानि वक्तव्यानि । यदुक्तं कषायप्राभृतचूर्णो – “अदीदे काले जे समयपबडा एक्कण पदेसग्गेण पिल्लेविदा, ते थोवा । वेहिं पदेसेहिं विसेसाहिया, एवमणंतरोवणिधाए अाणि द्वाणाणि विसेसाहियाणि ।” इति । एवमनन्तरान्तरेण विशेषाधिकक्रमेण 'स्थानाSसंख्यांशे' स्थानानाम् = अनन्तराशिकानां सर्वेषां स्थानानामसंख्येयतमे भागे च गते निर्लेपिताः समयप्रवद्धा 'द्विगुणा' द्विगुणवृद्धा भवन्ति । इदमुक्तं भवति - जघन्य स्थानतः सकलस्थानानामसंख्येयतमे भागे गते समयबद्धाद्विगुणवृद्धा भवन्ति । ततः पुनस्तावन्मात्रेषु स्थानेषु गतेषु निर्लेपिताः समयप्रबद्धा द्विगुणवृद्धा भवन्ति । ततः पुनस्तावन्मात्रेषु स्थानेषु त्रजितेषु समयप्रबद्धा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org