________________
भवबद्धानां जघन्यादिनिर्लेपनस्थानेषु कालः ] किट्टिवेदनाद्धाधिकारः
[३०९ निर्जरिष्यन्ति, स समयो निरुक्तभवबद्धस्य जवन्यं निर्लेपनस्थानमिति कृत्योभयोजघन्यं निर्लेपनस्थानमेकत्र न प्राप्यते, किन्तु समयबद्धजघन्यनिर्लेपनस्थानस्योपर्यन्तमुहूर्तसमयप्रमाणेषु निर्लेपनस्थानेषु गतेषु भवबद्धस्य जघन्यं निर्लेपनस्थानं प्राप्यते । न च यस्मिन् समये भवप्रथमसमयप्रबद्धो निलेप्यते, तस्मिन्नेव समये शेषाः समयबद्धाः कुतो युगपन्न निर्लेप्यन्ने, भवबद्धसमयबद्धयोरेका जघन्यनिर्लेपनस्थानलाभसंभवाद् ? इति वाच्यम् , प्रथमसमयप्रबद्धस्य जघन्यनिर्लेपनस्थानतः प्रभृति समयोत्तरक्रमेण निर्लेप्यमानानां समयप्रबद्धानां स्वस्त्रजघन्यनिर्लेपनस्थानतो गनिर्लेपनत्रसङ्गादन्तर्मुहूर्तप्रमाणभवद्वितीयादिसमयसंगृहीतसमयप्रब द्धानां च जघन्यकर्माऽवस्थानकालतः कर्माऽवस्थानकालस्य न्यूनत्वप्रसङ्गात् ।
इह समयप्रबद्धवदतीतकाल एकजीवस्य जघन्यनिर्लेपनस्थानादिषु निर्लेपितभववद्धानां निलेपनकालोऽनन्तरोपनिधया परम्परोपनिधया च भावनीयः, तत्रोभयोर्भवबद्धसमयप्रबद्धयोर्यवमध्यमेकत्र भवति, न तु जघन्यनिर्लेपनस्थानस्य भेदाद् यवमध्यमन्यत्र भवतीत्यर्थः । उक्त च कषायप्राभतचूर्णी--"जम्हि चेव समयपबद्धणिल्लेवणहाणाणं जवमझ, तम्हि चेव भवबडणिल्लेवणहाणाणं जवमझं।” इति । तदेव प्राह-एगत्थ' इत्यादि, तत्र 'द्वयोः' भवबद्ध-समयप्रबद्धयोरकत्र यवमध्यं भवति ।
भावार्थः पुनरयम्-भवबद्धानां यज्जघन्यं निर्लेपनस्थानं भवति, तत्र पुनः पुनः स्थित्वा भवबद्धान् निर्लेपथत एकजन्तोरतीतकालाभ्यन्तरे योऽनन्तसमयप्रमाणः कालो व्यतिक्रान्तः, स समुदितः स्तोकः, ततो भवबद्धस्य द्वितीये निर्लेपनस्थाने भववद्धान् निर्लेपयतो जन्तोरतीतकाले व्यतिक्रान्तः कालो विशेषाधिकः । एवमनन्तरानन्तरेण विशेषाधिकस्तावद् वक्तव्यः, यावद् यवमध्यम् । यवमध्यस्योपरि विशेषहीनक्रमेण तावद् वक्तव्यम्, यावच्चरमनिर्लेपनस्थानम् । जघन्यनिर्लेपनस्थानतः पल्योपमाऽसंख्येषभागे गते व्यतिक्रान्तः कालो द्विगुणो भवति, ततः पुनः पल्योपमासंख्येयभागे गते व्यतिक्रान्तः कालो द्विगुणो भवति । एवंक्रमेण द्विगुणवृद्धिस्थानानि तावद्वक्तव्यानि, यावद् यवमध्यम् । यवमध्यस्योपरि निरुक्तक्रमण द्विगुणहानिस्थानानि तावद्वक्तव्यानि, यावच्चरमनिर्लेपनस्थानम् । यत्र च समयप्रबद्धानां यवमध्यं प्राप्यते स्म, तत्रैव भवबद्धानां यवमध्यं प्राप्यते । न च समयप्रबद्धानां जघन्यनिर्लेपनस्थानतोऽन्तमुहूर्तप्रमाणानि निर्लेपनस्थानान्युल्लङ्घय भवबद्धानां जघन्यनिर्लेपनस्थानस्य लाभादुभयोर्यवमध्यमेकत्र कथं प्राप्यते, युक्तिविरोधाद् ? इति वाच्यम् , पूर्वमहर्षिभिस्तथैवोक्तत्वादतीन्द्रियपदार्थेषु च केवलयुक्तरप्राधान्यात् ।
तदेवं समयप्रबद्धानां जघन्यनिर्लेपनस्थानं पूर्व प्राप्यते, ततोऽन्तमुहूर्तप्रमितानि निर्लेपनस्थानानि गत्वा भवबद्धस्य जघन्यनिर्लेपनस्थानं प्राप्यते, समयप्रबद्धप्ररूपणावसरे प्रोक्तयवमध्यं त्वकत्र प्राप्यते । तेन भवबद्धयवमध्यस्याधस्तननिर्लेपनस्थानतः समयप्रबद्ध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org