________________
३०८ ]
खवगसेढी
[ गाथा--१५१ स्थानतोऽसंख्येयगुणानि भवन्तीत्यर्थः । न्यगादि च कषायमाभृतचूर्णी-"णाणागुणहाणिहाणंतराणि थोवाणि, एयगुणहाणिहाणंतरमसंखेजगुणं ।” इति ॥१४८-१४९-१५०॥
तदेवं निरूपित एकजीवमाश्रित्याऽतीतकाले जघन्यादिनिर्लेपनस्थानेषु निर्लेपितसमयप्रवद्धानां निर्लेपनकालः, सम्प्रति तमतिदिदिक्षुराह
एवं भवबद्धाण परं लहु पिल्लेवणट्ठाणं । गंतु असंखठाणाणुप्पिं एगत्थ दोण्ह जवमझं ॥१५॥ . एवं भवबद्धानां परं लघु निर्लेपनस्थानम् ।
गत्वाऽसंख्यस्थानानामुपर्येकत्र द्वयोर्यवमध्यम् ॥१५२।। इति पदसंस्कारः। 'एवं' इत्यादि, 'एवम्' एवंशब्दः सादृश्यार्थकः, यथाऽतीतकालयेकजीवस्य जघन्यादिनिर्लेपनस्थानेषु निर्लेपितानां समयप्रवद्धानां व्यतिक्रान्तः कालो निरूपितः, तथैव भवबद्धानां निरूपणीय इति गम्यते । सामान्येनातिदिश्य विशेषं दर्शयति-परं' इत्यादि, परं' नवरं 'लघु' प्रस्तुतत्वाद् भवबद्धानां जघन्यं निर्लेपनस्थानम् 'असंख्यस्थानानामुपरि गत्वा' समयबद्धानां जघन्यनिर्लेपनस्थानतः परमसंख्येयस्थानानि गत्वा लभ्यत इति शेषः । उक्तं च कषायप्राभूतचूर्णी"भवबडाणं पिल्लेवणहाणं जहण्णगं समयपबहस्स णिल्लेवणहाणाणं जहण्णादो असंखेजाओ हिदीओ अब्भुस्सरियूण ।” इति । ___ तथाहि-एकस्मिन् भवे सञ्चितानां समयप्रवद्धानां समूहो भवबद्ध उच्यते । स च बन्धावलिकायां व्यतिक्रान्तायां सान्तरं निरन्तरं चानुभूयमानः कर्माऽवस्थानकालस्य बहुष्पसंख्येवतमभागेषु गतेषु यस्मिन् समये सर्वथा निर्लेप्यते, स समयो भवबद्धस्य जघन्यं निर्लेपनस्थानम् , अन्येन जीवेन तदुपरितनसमये निःशेषतोऽनुभूयते, स द्वितीयं निर्लेपनस्थानम् । एवंक्रमेण तावद्वक्तव्यम् , यावत्कर्माऽवस्थानकालस्य चरमसमयः । एतानि सर्वाणि निर्लेपनस्थानान्यसंख्येयपल्योपमप्रथमवर्गमूलमात्राणि भवन्ति । तत्र भवबद्धानां जघन्यनिर्लेपनस्थानं समयप्रबद्धानां जघन्यनिर्लेपनस्थानतोऽसंख्येयानां निर्लेपनस्थानानामुपरि प्राप्यते । कथमेतदवसीयते ? इति चेत् , शृणुत-तिरश्चि मनुष्ये वोत्पद्य जघन्यतोऽन्तमुहूर्तप्रमाण आयुषि कर्मप्रदेशांस्तावत् बध्नाति, यावद् आयुर्न समाप्तिमेति । तस्मिन्नन्तर्मुहूर्तप्रमाणे मनुष्यस्य तिरथो वा भवे सञ्चिताः समयप्रवद्धा अन्तर्मुहूर्तसमयमात्रा भवन्ति । एतावत्समयबद्धानां समूह एकभवबद्ध उच्यते । तस्य भवस्य प्रथमसमयेन बद्धकर्मप्रदेशा बन्धावलिकायां व्यतिक्रान्तायां सान्तरं निरन्तरं चाऽनुभूयमानाः कर्माऽवस्थानकालस्याऽसंख्येयतमेषु बहुषु भागेषु गतेषु यस्मिन् समये निःशेषतो निर्लेप्यन्ते, स समयः समयप्रबद्धस्य जघन्यं निर्लेपनस्थानं भवति । तदानीं च प्रथमसमयोननिरुक्तभवबद्धान निःशेषतो निर्लेपिताः । ततः क्रमेण समयोनाऽन्तमुहूर्तप्रमाणाः समयप्रबद्धा यस्मिन् समये निःशेषतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org