________________
समयप्रबद्धानां जघन्यादिनिर्लेपनस्थानेषु काल:] किट्टिवेदनाद्धाधिकारः
[ ३०७ कालतो द्विगुणो भवति । ततः पुनः पल्योपमाऽसंख्येयभागमात्रनिर्लेपनस्थानेषु गतेषु तत्रत्यनिर्लेपनस्थाने व्यतिक्रान्तः कालो गुिणो भवति । एवंक्रमेण द्विगुणवद्धिस्थानानि तावद्वक्तव्यानि, यावद् यवमध्यान । वतः पल्योपमाऽसंख्ययभागप्रमाणनिर्लेपनस्थानातिक्रमे प्राप्यमाणनिर्लेपनस्थाने व्यतिक्रान्तकालो द्विगुणहीनो भवति । ततः पुनरेतावत्स्थानातिक्रमे निर्लेपनस्थाने व्यतिक्रान्तकालो द्विगुणहीनो भवति । एवं गुणहानिस्थानानि तावद् वाच्यानि, यावत् सर्वोत्कृष्टं निर्लेपनस्थानम् ।
'ठाणअसंखंसे' इत्यादि, 'स्थानाऽसंख्यांशे' निर्लेपनस्थानानामसंख्येयतमे भागे यवमध्यं भवति । यदभ्यधायि कषायप्राभृतचूर्णी-"ठाणाणमसंखेज्जदिभागे जवमझं।" इति । इदमुक्तं भवति-निर्लेपनस्थानानामेकसंख्येयतमभागेऽसंख्यातदिगुणवृद्धिस्थानेषु व्रजितेषु सत्सु यवमध्यं प्राप्यते, तस्योपर्यसंख्येयतमेषु बहुषु भागेषु निर्लेपनकालो हीयमानो गच्छति । तेन वृद्धिस्थानतो हानिस्थानान्यसंख्येयगुणानि भवन्ति । - अथ नानाद्विगुणहानिस्थानानि कियन्ति भवन्ति? इत्यत आह--'पल्लस्स' इत्यादि, 'पल्यस्य' पल्योपमस्य'छेदनाऽसंख्यांशः' अर्धच्छेदनकानामसंख्येयभागमात्राणि 'नानागुणहानयो' नानातिगुणहानिस्थानानि भवन्ति । भावार्थः पुनरयम्-पल्योपमगतसमया द्विकेन पुनः पुनस्तावच्छिद्यन्ते, यावदेकसमयः, तत्र यतिकृत्वो विभज्यन्ते, तत्संख्याप्रमाणानि पल्योपमस्यार्धच्छेदनकानि भवन्ति, यथा षट्पश्चाशदुत्तरद्विशतयोरर्धच्छेदनकान्यष्टौ । पल्योपमस्यार्धच्छेदनकानां चाऽसंख्येयभागे यावन्त्यर्धच्छेदनकानि प्राप्यन्ते , तावन्ति नानाद्विगुणहानिस्थानानि भवन्ति । तथाहि-यवमध्यस्योपरि पल्योपमाऽसंख्येयभागे गत एकं द्विगुणहानिस्थानं प्राप्यते, पुनस्तावत्सु स्थानेषु गतेष्वेन्यदेकं द्विगुणहानिस्थानं प्राप्यते, एवंक्रमेण यवमध्यस्योपरितनानि द्विगुणहानिस्थानानि तावद् वक्तव्यानि, यावच्चरमस्थानम् । तथा यवमध्यस्याऽधः पल्योपमाऽसंख्येयभागे गत एकं द्विगुणहानिस्थानं प्राप्यते, पुनः पल्योपमाऽसंख्येयभागे गतेऽन्यदेकं द्विगुणहानिस्थानं लभ्यते, एवंक्रमेण तावद्वक्तव्यम् , यावत् प्रथमस्थानम् । पूर्व तूारोहणेन प्रतिपादितम् , तेन यवमध्यस्याऽधस्तनानि स्थानानि द्विगुणवद्धिस्थानानि प्रोक्तानि, सम्प्रति स्वधस्तनस्थानान्यधोऽवतरणेन प्रतिपाद्यन्ते, तेन द्विगुणहानिस्थानान्यभिधीयन्ते । एतानि सर्वाणि यवमध्यस्योपरितनान्यधस्तनानि च द्विगुणहानिस्थानानि नानाद्विगुणहानिस्थानानि व्यपदिश्यन्ते । तानि पुनः सर्वेषु निर्लेपनस्थानेषु द्विगुणहान्येकाऽन्तरस्थानैविभक्तेष्वैकखण्डप्रमाणानि भवन्ति, परिमाणतः पुनः पल्योपमार्धच्छेदनकाऽसंख्ययभागमात्राणि । विवक्षितस्थानतो यावत्सु स्थानेषु गतेषु निर्लेपितसमयप्रबद्धानां कालो? भवति, तावन्ति स्थानानि द्विगुणहान्यन्तरमुच्यन्ते । अथाऽल्पबहुत्वमभिधत्ते-'तो' इत्यादि, ततः' नानाद्विगुणहानिस्थानेभ्यो 'असंख्यगुणम्' असंख्येयगुणं द्विगुणहान्योरन्तरम्, द्वयोर्डिगुणहान्योरेकाऽपान्तराले यानि स्थानानि, तानि नानाद्विगुणहानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org