________________
३०६ ] ... खवगसेढी
[गाथा--१४८-१५० ठाणअसंखंसे जवमझ पल्लस्स छेदणअसंखंसो। णाणागुणहाणी तो असंखगुणमंतरं दुगुणहाणीणं ॥१५०॥(अर्यागीतिः)
जीवस्य जघन्यनिर्लेपनस्थानेऽतीतकाले । निर्लेपितानां समयप्रबद्धानामल्पो गतः कालः ॥१४८।। ततो द्वितीयेऽधिकस्ततस्तृतीये विशेषाधिकः । पल्योपमस्य चाऽसंख्येयांशे भवति द्विगुणः ।।१४९।। स्थानाऽसंख्यांशे यवमध्यं पल्यस्य च्छेदनाऽसंख्यांश: ।
नानागुणहानयस्ततोऽसंख्यगुणमन्तरं द्विगुणहान्योः ॥१५१।। इति पदसंस्कारः । 'जीवस्स' इत्यादि, तत्र 'अईअकालम्मि' ति अतीतकाले 'जीवस्य एकवचननिर्देशाद् एकजीवस्य जघन्यनिर्लेपनस्थाने निर्लेपितानां समयप्रबद्धानाम् 'अल्पः' स्तोकः कालो 'गतो' व्यतिक्रान्तः । भावार्थः पुनस्यम्-असंख्येयपल्योपमप्रथमवर्गभूलप्रमाणानि निर्लेपनस्थानानि पूर्वमुक्तानि । तत्र यत् प्रथमं निर्लेपनस्थानम्, तत्र पुनः पुनः स्थित्वा समयप्रबद्धान् निर्लेपयत एकजन्तोरतीतकालाभ्यन्तरे योऽनन्तसमयप्रमाणः कालो व्यतिक्रान्तः, स सम्पिण्डितः स्तोको भवति ।
'तत्तो' इत्यादि, ततो द्वितीये निर्लेपनस्थाने 'अधिको विशेषाधिकः कालो व्यतिक्रान्तः, जघन्यनिर्लेपनस्थानतो द्वितीयस्मिन् निर्लेपनस्थाने पुनः पुनः स्थित्वा समयबद्धान निर्लेपयत एकजन्तोरतीतकालाभ्यन्तरे व्यतिक्रान्तः कालो विशेषाधिको भवतीत्यर्थः । आधिक्यं च पूर्वोक्तनिर्लेपनकालं पल्योपमाऽसंख्येयभागेन भक्त्वैकभागेन ज्ञातव्यम्, पल्योपमाऽसंख्योयभागे गते द्विगुणवृद्धिस्थानस्य वक्ष्यमाणत्वात् । 'ततः' अतीतकालयेकजीवस्य द्वितीयनिर्लेपनस्थाने निर्लेपितसमयप्रबद्धानां व्यतिक्रान्तकालतस्तृतीयस्मिन् निर्लेपनस्थाने निलंपितसमयप्रबद्धानां व्यातिक्रान्तकालो विशेषाधिको भवति । उक्त च कषायप्राभतचूर्णी-“अदीदे काले एगजीवस्स जहण्णए पिल्लेवणठाणे जिल्लविदपुव्वाणं समयपबद्धाणमेसो कालो थोवो, समयुत्तरे विसेसाहिओ।” इति ।
एवमनन्तरोपनिधया विशेगाधिकक्रमेण तावद् वक्तव्याम्, यावद् यवमध्यामप्राप्तं भवति, यवमध्यस्योपरि विशेषहीनक्रमेण तावद् वक्तव्यम्, यावदुत्कृष्टनिर्लेपनस्थानम् । ___अथ परम्परोपनिधया भणति-'पलिओव०' इत्यादि, 'पल्योपमस्य चाऽसंख्यांशे' असंख्येयपल्योपमप्रथमवर्गमूलमात्रेषु च स्थानेषु गतेषु प्रस्तुतकालो द्विगुणो भवति, । उक्तं च कषायप्राभूतचूर्णी-“पलिदोवमस्स असंखेज्जदिभागमेत्ते दुगुणो।” इति । इदमत्र हृदयाम्जघन्यनिर्लेपनस्थानात् पल्योपमासंख्येयभागमात्र निर्लेपनस्थानेषु गतेषु तत्रत्यनिर्लेपनस्थानेऽतीतकालयोकजीवस्य निर्लेपितसमयप्रबद्धानां व्यतिक्रान्तकालो जघन्यनिर्लेपनस्थानव्यतिक्रान्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org