________________
असत्कल्पनया निर्लेपनस्थाननिरूपणम् ]
किट्टवेदनाद्धाधिकारः
[ ३०५
यावत् कर्माऽवस्थानकालचर मसमयः । तेन कर्माऽवस्थान कालस्य बह्वसंख्येवभागप्रमाणानि समयप्रबद्धस्य निर्लेपनस्थानानि । उक्त च कषायप्राभृतचूर्णो – “तत्थ पुवं गमणिज्जा पिल्लेवणडाणाणमुवदेसपरूवणा । एत्थ दुविहो उवदेसो । एक्केण उवदेसेण कम्मद्विदोए असंखेज्जा भागा पिल्लेवणद्वाणाणि । एक्केण उवएसेण पलिदोवमस्स असंखेज्जदिभागो । जो पवाइज्जइ उवएसो, तेण उवदेसेण पलिदोवमस्स असंखेज्जदिभागो, असंखेज्जाणि वग्गमूलाणि णिल्लेवणडाणाणि । " इति ।
असत्कल्पनया कर्मावस्थान कालः सहस्र समयमात्र ः (१०००) कल्प्यते । पल्योपमाऽसंख्येयभागश्च पञ्चाशत्समयप्रमाणः (५०) परिकल्प्यते ।
प्रथममतेन कचिज्जीवः कर्मावस्थानका प्रथमसमये प्रदेशाग्र बद्ध्वैकपञ्चाशदधिकनवशततमसमये (९५१) सर्वथा निर्लेपयति, तेन स समयो जघन्यनिर्लेपनस्थानम् । यद्वा द्विपञ्चाशदaaaaaaa ( ९५२) सर्वात्मना निर्लेपयति, तेन स द्वितीय निर्लेपनस्थानम् । यद्वा त्रिपञ्चाशदधिकनवशततम समये (९५३) सर्वथा निर्लेपयति, तेन स तृतीय निर्लेपनस्थानम् । एवंक्रमेण पञ्चाशद् (५०) निर्लेपनस्थानानि लभ्यन्ते । परमार्थतस्तु तानि पल्योपमाऽसंख्येयभागमात्राणि भवन्त्यप्यसंख्येयपल्योपमप्रथमवर्गमूलप्रमाणानि भवन्ति ।
I
वक्ष्यमाणभवबद्धस्य जघन्यनिर्लेपनस्थानं तु पञ्चपञ्चाशदधिकनवशततमे (९५५) समये प्राप्यते, समयप्रबद्धस्य जघन्यनिर्लेपनस्थानादूर्ध्वमन्तर्मुहूर्तप्रमाणस्थानेषु गतेषु तस्य लभ्यमानत्वादन्तमुहूर्त कालस्य च चतुस्समयप्रमाणत्वकल्पनात् ।
द्वितीय मतेन तु कर्मावस्थान कालप्रथमसमयबद्धप्रदेशाग्रमेकपञ्चाशत्तमे ( ५१ ) समये सर्वथा निर्लेप्यते, तेन स समयो जघन्यनिर्लेपनस्थानम्, यद्वा द्विपञ्चाशे (५२) समये सर्वात्मना निर्लेप्यते, तेन स द्वितीयं निर्लेपनस्थानम् । एवंक्रमेण पञ्चाशदुत्तरनवशतानि (९५०) निर्लेपनस्थानानि लभ्यन्ते, परमार्थतस्तानि कर्मावस्थानकालवह्न संख्येयभागप्रमाणानि भवन्ति ॥ १४७॥
तदेवं भणितानि निर्लेपनस्थानानि, अथैकजीवमाश्रित्थाऽतीतकाले जघन्यनिर्लेपनस्थानप्रभृत्युत्कृष्टनिर्लेपनस्थानपर्यवसानेषु निर्लेपनस्थानेषु निर्लेपितानां समयबद्धानां निर्लेपनकालमनन्तरोपनिधया परम्परोपनिधया चाऽभिधातुकाम आह
जीवस्स जहण्णगणिल्लेवणठाणे अईअकालम्भि । पिल्लेवियाण समयपवद्धाणाऽप्पो गओ कालो ॥१४८॥ तत्तो बीये अहिओ तत्तो तइये विसेस हिओ । पलिओवमस्स य असंखेज्जंसे होअए दुगुणो ॥ १४९ ॥ (उपगीतिः )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org