________________
३०४ ]
[ गाथा-- १४७
निर्लेपनस्थानम् । अथवा तस्मिन्ननिर्लेप्य तदुपरितनसमये निःशेषत उदयेन निर्लेप्यते, स द्वितीयं निर्लेपनस्थानम् । यद्वा तस्मिन्ननिर्लेप्य तदुपरितनसमये निःशेषत उदयेन निर्लेप्यते, स तृतीयं निर्लेपनस्थानम् । एवंक्रमेणैको तरवृद्धया तावद्वक्तव्यम् यावत् कर्माऽवस्थानकालस्य चरमसमयः । एवंक्रमेण सर्वसंख्यया निर्लेपनस्थानानि पल्योपमाऽसंख्येयभागप्रमाणानि भवन्त्यप्यसंख्येयपल्यापम प्रथम वर्गमूल प्रमाणानि भवन्ति ।
aaraढी
यद्वा विवक्षितकर्माऽवस्थान कालस्य प्रथम पमयेऽनेकै जीवैर्यो बद्धः कर्मप्रदेशसमूहः, स बन्धावलिकाऽतिक्रमे सान्तरं निरन्तरं चोदयेनानुभूयमानोऽपि बन्धसमयतः प्रभृति कर्मावस्थानकालस्य बहूनसंख्येयभागान् यावन्न निःशेषत उदयेनाऽनुभूयते, कर्माऽवस्थानकालस्य तु जघन्यतः पल्योपमाऽसंख्येयभागमात्रे काले शेषे सति यस्मिन् समये केनचिज्जीवेन निरुक्तसमयबद्ध उदयेन निःशेषं निर्लेप्यते स समयः प्रथमं निर्लेपनस्थानम् । द्वितीयस्मिन् समय इतरेण जीवेन निरुक्तसमयबद्धो निर्लेप्यते स द्वितीयं निलेपनस्थानम्, तृतीयसमयेऽपरेण जीवेन निरुक्तसमयप्रबद्धो निर्लेप्यते स तृतीयं निर्लेपनस्थानम् । एवं क्रमेण तावद् वाच्यम्, यावत् कर्मावस्थानकालस्य चरमसमयः । इत्थमपि निर्लेपनस्थानानि पल्योपमाऽसंख्येयभागमितानि भवन्ति, विशेषपरिमाणतः पुनरसंख्येयपल्योपम प्रथमवर्गमूलप्रमाणानि भवन्ति ।
'अण्णे' त्ति 'अन्ये' अपर आचार्यपादाः 'भणन्ति' प्रतिपादयन्ति । किम् ? इत्यत आह- 'कम्म० ' इत्यादि, कर्माऽवस्थानकालस्य तु 'असंख्पांशान्' वह्नसंख्यभागमात्राणि निर्लेपनस्थानानि । इदमुक्तं भवति-विवक्षितकर्माऽवस्थानकालस्य प्रथमसमये यो बद्धः कर्म प्रदेशसमुदायः, स बन्धावलिकायां व्यतिक्रान्तायां यथासंभवमनुभूयमानोऽपि बन्धसमयतः प्रभृति पल्योपमाऽसंख्येयभागं यावद् न निःशेषतो निर्लेप्यते, बन्धसमयतस्तु पल्योपमा-Sसंख्येयभागे गते यस्मिन् समये निःशेषत उदयेन निर्लेप्यते स समयः प्रथमं निर्लेपनस्थानम् । अथवा तदुपरितनसमययुदयेन सर्वथा निर्लेप्यते स द्वितीयं निर्लेपनस्थानम्, यहा तदुपरितनसमय उदयेन सर्वथा निर्लेप्यते स तृतीयं निर्लेपनस्थानम् । एवमेकसमयोत्तरवृद्धया तावद् वक्तव्यम्, यावत् कर्माऽवस्थानकालस्य चरमसमयः ।
यद्वा कर्माऽवस्थानकालस्य प्रथमसमयेऽनेकै जीर्वैर्यो बद्धः कर्मप्रदेशसमूहः, स बन्धावलिकायामपगतायां यथासंभवमनुभूयमानोऽपि बन्धसमयात् प्रभृति पल्योपमाऽसंख्येयभागं यावद् न निश्शेषतो निर्लेप्यते, तत एकेन जीवेन बन्धसमयतः पल्योपमाऽसंख्येयभागे व्यतीते यस्मिन् समये निरुक्तसमयप्रबद्धो निर्लेप्यते स समयः प्रथमं निर्लेपनस्थानम् । द्वितीयसमयेऽन्येन जीवेन निरुक्तसमयप्रबद्धो निर्लेप्यते स द्वितीयं निर्लेपनस्थानम् । तृतीयसमयेऽपरेण निर्लेप्यते स तृतीयं निर्लेपनस्थानम् । एवमेकसमयोत्तरवृद्धचा तावद् त्राच्यम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org