________________
अभव्यप्रायोग्ये निर्लेपनस्थाननिरूपणम् ] किट्टिवेदनाद्धाधिकारः
[ ३०३ संपइ अभव्वपाउग्गे आवलियाअसंखभागठाणे। पल्लासंखंसो ति विसेसो णेयो इआणि भणिमो अण्णं ॥१४६॥
(आर्यागोतिः) सम्प्रत्यभव्यप्रायोग्य आवलिकाऽसंख्यभानस्थाने।
पल्याऽसंख्यांश इति विशेषो ज्ञेय इदानी भणामोऽन्यत् ॥१४६॥ इति पदसंस्कारः । 'संपई' इत्यादि, सम्प्रति 'अभव्यप्रायोग्ये अभव्यप्रायोग्यविषये, यत्र भव्यसिद्धिकानामभव्यसिद्धिकानां च स्थितिबन्धानुभागवन्धादिपरिणामाः सदृशा भवन्ति, सोऽभव्यप्रायोग्यविषयः, तत्र, आवलिकाऽसंख्यभागस्थाने 'पल्याऽसंख्यांशः' पल्योपमा- संख्येयतमभाग इति 'विशेषः' अनन्तरोक्तगाथाषटके यथासम्भवं विशेषो ज्ञयो' बोध्यः, शेषं तु थपकवदभव्यप्रायोग्येऽपि बोध्यम् । एतत्सर्वं यथास्थानं तत्रैवाऽस्माभिर्भावितम्, अतो नेह पुनः प्रपञ्च्यते ।
न च क्षपकाधिकारेऽक्षपकाणां प्ररूपणाऽसङ्गतेति वाच्यम् , यतो भव्यजनानां शङ्काव्युदासाय ग्रन्थकृदन्यानपि पदार्थान् अधिकारान्तरेऽपि प्ररूपति, अन्यथा लक्षणेकचक्षुषो विद्वज्जना अपि संशय्याना भवेयु:-क्षपकस्य समयप्रबद्धादिकमवलम्ब्य यावती प्ररूपणा कृता, अक्षपकस्य किं तावत्येव सम्भवति ? उताऽस्ति कश्चित् तत्र विशेषः ? इति ।
सम्प्रत्यभव्यप्रायोग्येऽन्यत् प्रतिपिपादयिषुः प्रतिजानीते-'इआणि' इत्यादि, इदानीम् 'अन्यत्' समयप्रबद्धादीनां सम्बन्ध्यन्यद् निर्लेपनस्थानादिकं 'भणाम' : प्रतिपादयिष्यामः ॥१४६॥
सम्प्रति प्रतिज्ञातं निर्वाहयन्नादौ तावत् समयप्रबद्धानां निर्लेपनस्थानान्यभिधित्सुराहपिल्लेवणठाणाई पल्लस्स असंखभागमेत्ताणि । अण्णे भणंति कम्मअवट्ठाणस्स उ असंखंसा ॥१४७॥ निर्लेपनस्थानानि पल्यस्याऽसंख्यभागमात्राणि ।
अन्ये भणन्ति कर्माऽवस्थानस्य त्वसंख्याशान् ॥१४७॥ इति पदसंस्कारः। 'णिल्लेवणठाणाई' इत्यादि, निर्लेपनस्थानानि 'पल्यस्य' पल्योपमस्याऽसंख्यभागमात्राणि । इदमुक्तं भवति-तत्र विवक्षितैकसमयेन विवक्षितैकभवेन च बद्धकर्मप्रदेशा बन्धाऽऽवलिकायां व्यतिक्रान्तायां सान्तरं निरन्तरं चाऽनुभूयमाना यस्मिन् समये सर्वे निःशेषतोऽनुभूयन्ते, स यथाक्रमं निरुक्तसमयप्रबद्धस्य निरुक्तभवप्रबद्धस्य च निर्लेपनस्थानमुच्यते, तदानीमेव निःशेषतो निर्लेपनात् । तत्राऽपि विवक्षितकर्माऽवस्थानकालस्य प्रथमसमये यो बद्धः कर्मप्रदेशसमूहः, स बन्धावलिकायां व्यतिक्रान्तायां सान्तरं निरन्तरं चोदयेनाऽनुभूयमानोऽपि बन्धसमयतः प्रभृति कर्माऽवस्थानकालस्य बहूनसंख्येययभागान् यावद् न निश्शेषत उदयेनाऽनुभूयते । कर्माऽवस्थानकालस्य तु पल्योपमाऽसंख्येयभागमात्रे काले शेषे सति यस्मिन् समय उदयोन सर्वथा निर्लेप्यते, स समयः प्रथम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org