SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ अभव्यप्रायोग्यप्ररूपणाश्रितयन्त्रकम् ] किट्टवेदनाद्धाधिकारः पमाऽसंख्येयभागमिताः समयप्रबद्धा भवप्रबद्धा वा निर्लेप्यन्ते । ( गाथा-- १५७ ) अनन्तरोपनिधयाऽल्पबहुत्वम् (१) एकसमय एकैकेन निर्लेपिताः समयप्रबद्धाः स्तोकाः । (२) तत एकसमये द्वाभ्यां द्वाभ्यां निर्लेपिताः समयप्रबद्धा विशेषाधिकाः । (३) तत एकसमये त्रिभिस्त्रिभिर्निर्लेपिताः समयप्रबद्धा विशेषाधिकाः । एवमेकोत्तरवृद्धया निर्लेपिताः समयप्रश्रद्धा विशेषाधिकक्रमेण तावद् वाच्याः, यावद् यवमध्यम् । यवमध्यस्योपरि विशेषहीनक्रमेण तावद्वाच्यम्, यावच्चरमस्थानम् । परम्परोपनिधयाऽल्पबहुत्वम् -- एकसमययेकैकेन निर्लेपितेभ्यः समयप्रबद्धेभ्यो भवबद्धेभ्यो वैकसमये निर्लेपिताः पल्योपमाऽसंख्येयभागमात्राः समयप्रबद्धा भवबद्धा वा द्विगुणा भवन्ति । ततः पुनः पल्योपमा - संख्येयभागे गते द्विगुणा भवन्ति । ततः पुनः पल्योपमाऽसंख्येयभागे गते द्विगुणा भवन्ति । एवं क्रमेणा संख्येयेषु द्विगुणवृद्धिस्थानेषु गतेषु यत्रमध्यं प्राप्यते । यवमध्यस्योपरि पल्यो माऽसंख्येयभागे गते द्विगुणहीना भवन्ति, ततः पुनः पल्योपमाऽसंख्येयभागे गते द्विगुगहीना भवन्ति, एवं तावद्वाव्यम्, यावच्चरमस्थानम् । (१०) अल्पबहुत्वम् (गाथा-- १५९-१६३) (१) अनुसमयनिर्लेपनकालः स्तोकः । (२) तत एकसमयेन निर्लेप्यमाना भवबद्धा असंख्यगुणाः । (३) तत एकसमयेन निर्लेप्यमानाः समयप्रबद्धा असंख्यगुणाः । (४) ततः समयप्रबद्धशेषक-विरहिता निरन्तरस्थितयोऽसख्येयगुणाः । (५) ततः पल्योपमस्य वर्गमूलमसंख्ये यगुणम् । (६) ततः प्रदेशगुणहानिस्थानान्तरमसंख्ये यगुणम् (७) ततो भवबद्धानां निर्लेपनस्थानान्यसंख्ये यगुणानि । (८) ततः समयप्रबद्धानां निर्लेपनस्थानानि विशेषाधिकानि । (९) ततः कर्माऽवस्थानकालाभ्यन्तरे समयप्रबद्धस्याऽनुसमयाऽवेदनकालोऽसंख्यगुणः । (१०) ततः कर्माऽस्थानकालाभ्यन्तरे समयप्रबद्धस्याऽनुसमयवेदन कालोऽसंख्यगुणः । (११) ततः कर्मावस्थानकालाभ्यन्तरे समयप्रबद्धस्य सर्वोऽवेदन कालोऽसंख्येयगुणः । (१२) ततः कर्माऽवस्थानकालाभ्यन्तरे समयप्रबद्धस्य सर्ववेदन कालोऽसंख्येयगुणः । (१३) ततः कर्माऽवस्थानकालो विशेषाधिकः । Jain Education International [ ३२३ For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy