________________
तृतीयेन चतुर्थेन च मतेन सामान्यासामान्यस्थितयः ] किट्टिवेदनाद्धाधिकारः
[ ३०१
नम् । ततः पुनरेतावत्सु स्थानेषु गतेषु निरन्तरसामान्यस्थितीनां शलाका द्विगुणहीनाः, इदं च द्वितीयं द्विगुणहानिस्थानम् । एवंक्रमेणाऽसंख्यातेषु द्विगुणहानिस्थानेषु गतेषु चरमस्थानं प्राप्यते ।
शलाका:
अक्षपकस्याऽप्यसामान्यस्थितिभिरन्तरिताना मे कादिनिरन्तर सामान्यस्थितीनां क्षपकवत् रूपयितव्याः, नवरं पल्योपमाऽसंख्येयभागे गते शलाकानां द्विगुणवृद्धत्वं द्विगुणहीनत्वं च वाच्यम्, पल्योपमाऽसंख्येयभागे च व्रजिते यवमत्र्यं वक्तव्यम्, न त्वावलिका संख्येयभागे ।
(४) अथवा 'एक्केकेण थोवा' इत्याद्यक्षरैरेकैकेनाऽसामान्यस्थितिस्थानेनाऽन्तरितानां क्षपकस्य सामान्यस्थितीनां शलाकाः स्तोका भवन्तीत्याद्यर्थो व्याख्येयः । तथाहि - द्वयोः पार्श्वयोरेकैकाऽसामान्यस्थितिर्विद्यते मध्ये चैकसामान्यस्थितितः प्रभृति यावत्यः सामान्यस्थितयो विद्यन्ते, तासामेका शलाका ग्रहीतव्या । ततः पुनद्वयोः पार्श्वयोरन्यैकैकाऽसामान्यस्थितिर्विद्यते, मध्ये च यावत्यः सामान्यस्थितयो वर्तन्ते, तासां द्वितीयैका शलाका ग्राह्या । एवमेकैकयाऽसामान्यस्थित्याऽन्तरितानां सामान्यस्थितीनामेकैका शलाका ग्राह्या । ततः पुनः योः पार्श्वयो दोसामान्यस्थिती भवतः मध्ये च यावत्यः सामान्यस्थितयस्तिष्ठन्ति, तासामेका शलाका ग्रहीतव्या । पुनद्व द्वयोः पार्श्वयोरन्ये सामान्यस्थिती भत्रतः, मध्ये च यावत्यः सामान्यस्थितयो वर्तन्ते, तासां द्वितीयैका शलाका ग्रहीतव्या । एवं द्वाभ्यां द्वाभ्यामसामान्यस्थितिभ्यामन्तरितानां सामान्यस्थितीनामेकैका शलाका ग्रहीतव्या । एवमेकोत्तरक्रमेण वृद्धाभिरसामान्यस्थितिभिरन्तरितानां सामान्य स्थितीनामेकैका शलाका ग्रहीतव्या ।
तत्रैकैकयाऽसामान्यस्थित्याऽन्तरितानां सामान्यस्थितीनां गृहीताः सर्वाः शलाकाः स्तोका भवन्ति । भ्यामसामान्य स्थितिभ्यामन्तरितानां सामान्यस्थितीनां संगृहीताः सर्वाः शलाका विशेषाधिका भवन्ति । अधिवयं चाधस्तनशलाका आवलिका संख्येयभागेन खण्डयित्वैकखण्डेन बोद्धव्यम् । ततस्तिसृभिस्तिसृभिः सामान्यस्थितिभिरन्तरितानां सामान्यस्थितीनां संगृहीताः सर्वाः शलाका विशेषाधिका भवन्ति । एवमावलिका संख्येय भागप्रमाणेषु स्थानेषु गतेषु तत्रत्यस्थानस्य गृहीताः सर्वाः शलाकाः प्रथमस्थानतो द्विगुणा भवन्ति, इदं चाद्यं द्विगुणवृद्धिस्थानम् । ततः पुनरावलिका संख्येयभागप्रमाणेषु स्थानेषु वजितेषु तत्रत्यस्थानस्य गृहीताः सर्वाः शलाका द्विगुणा भवन्ति इदं च द्वितीयं द्विगुणवृद्धिस्थानम् । एवंक्रमेणा ऽऽवलिकाऽसंख्येयभागप्रमाणेषु द्विगुणवृद्धिस्थानेषु गतेषु यवमध्यं प्राप्यते । ततो यवमध्यस्योपरि विशेषहीनक्रमेण शलाका गच्छन्ति । यवमध्यतश्चावलिकाऽसंख्येयभागे गते शलाका द्विगुणहीना भवन्ति । ततः पुनरावलिकाऽसंख्येयभागे गते शलाका द्विगुणहीना भवन्ति । एवंक्रमेण यवमध्यस्याऽधस्तनद्विगुणवृद्धि - स्थानतोऽसंख्येयगुणेषु द्विगुणहानिस्थानेषु गतेषु चरमस्थानं प्राप्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org