________________
३००] खवगसेढी
[गाथा-१४५ अक्षपकस्याऽप्येकसामान्यस्थितितः प्रभृत्येकोत्तरक्रमेण वृद्धाभिः सामान्यस्थितिभिरन्तरितानामसामान्यस्थितीनां निरूपणं क्षयकवत् कर्तव्यम् , नवरं पल्योपमाऽसंख्येयभागे गतेऽसामान्यस्थितीनां शलाका द्विगुणवद्धा द्विगुणहीना वा भवन्ति, पल्योपमाऽसंख्येयभागे च गते यवमध्यं प्राप्यत इति वक्तव्यम् ।
(३) यदिवेदं व्याख्यानान्तरं कर्तव्यम्- 'एककेणं' इत्यादि, एकैकैन स्तोकाः । काः ? ताः= सामान्यस्थितयः, "विचित्रा सूत्राणां शैलो" इति न्यायेन व्यवहितस्याऽपि चतुश्चत्वारिंशदधिकशततमगाथोक्तसामान्यस्थितिपदस्य तच्छब्देन परामर्शात् । इदमत्र हृदयम्-उभयोः पाचोरेका वाऽनेका वा-ऽसामान्यस्थितयो भवन्ति, मध्ये चैकसामान्यस्थितिर्विद्यते, तस्या एका शलाका ग्रहीतव्या । ततः पुनरुभयोः पार्श्वयोरेका वाऽनेका वा ऽसामान्यस्थितयो भवन्ति, मध्ये चाऽन्यैका सामान्यस्थितिर्भवति, तस्या द्वितीयैका शलाका ग्रहीतव्या । एवमसामान्यस्थितीनां मध्ये स्थिताया एकैकस्याः सामान्यस्थितेरेकैका शलाका ग्रहीतव्या । एवमेव द्वयोः पार्श्वयोरेका वाऽनेका वाऽसामान्यस्थितयो भवन्ति, मध्ये च निरन्तरे द्व सामान्यस्थिती भवतः, तयोरेका शलाका ग्रहीतव्या । पुनरन्यत्र द्वयोः पार्श्वयोरेका वाऽनेका वाऽसामान्यस्थितयो भवन्ति, मध्ये व निरन्तरेऽन्ये दु सामान्यस्थिती भवतः, तयोरेका द्वितीया शलाका ग्रहीतव्या । एवं निरन्तरसामान्यस्थितिद्विकानामेकैका शलाका ग्राह्या । ततो निरन्तरसामान्यस्थितित्रिकाणामेकैका शलाका ग्राह्या । ततो निरन्तरसामान्यस्थितिचतुष्काणामेकैका शलाका ग्रहीतव्या । एवमेकोत्तरक्रमेण वृद्धानां निरन्तरसामान्यस्थितीनामेकैका शलाका ग्रहीतव्या ।
तत्रैकैकरूपेण विद्यमानानां सामान्यस्थितीनां गृहीताः सर्वाः शलाकाः स्तोकाः । 'कमेणं' इत्यादि, विकरूपेण विद्यमानानां सामान्यस्थितीनां शलाका विशेषाधिका भवन्ति । आधिक्यं चाऽधस्तनशलाका आवलिकाऽसंख्येयभागेन विभज्यैकखण्डेन ज्ञातव्यम् , आवलिकाऽसंख्येयभागे गते डिगुणवृद्धः । ततोऽपि त्रिकरूपेण स्थितानां सामान्यस्थितीनां गृहीताः सर्वाः शलाका विशेषाधिका भवन्ति । एवमेकोत्तरवद्धिक्रमेण निरन्तरं स्थितानां सामान्यस्थितीनां शलाका विशेषाधिकक्रमेण गच्छन्ति । आवलिकाऽसंख्येयभागमात्रेषु च स्थानेषुगतेषु तत्रत्यस्थानस्य शलाकाः प्रथमस्थानतो द्विगुणवद्धा भवन्ति, इदं चायं द्विगुणवृद्धिस्थानम् । ततः पुनरेतावत्सु स्थानेषु गतेषु तत्रत्यस्थाने निरन्तरसामान्यस्थितीनां शलाका गुिणा भवति, इदं च द्वितीयं द्विगुणवृद्धिस्थानम् । एवंक्रमेणाऽऽवलिकाऽसंख्येयभागप्रमितेषु द्विगुणवद्धिस्थानेषु गतेषु यवमध्यं प्राप्यते । अथ यवमध्यस्योपर्येकोत्तरक्रमेण वृद्धानां निरन्तरसामान्यस्थितीनां शलाका विशेषहीनक्रमेण गच्छन्ति । यवमध्यस्य चोपर्यावलिकाऽसंख्येयभागप्रमाणेषु स्थानेषु गतेषु तत्रत्यस्थाने निरन्तरसामान्यस्थितीनांशलाका द्विगुणहीनाः, अर्धा भवन्तीत्यर्थः । इदं च प्रथमं द्विगुणहानिस्था
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org