________________
द्वितीयमतेन सामान्याऽ- सामान्यस्थितिनिरूपणम् ] किट्टवेदनाद्धाधिकारः
[ २९९
अक्षपकस्याऽप्यसामान्यस्थितीनां प्ररूपणैवमेव कर्तव्या, नवरं पल्योपमाऽसंख्येयभागमात्रेषु स्थानेषु द्विगुणवृद्धिर्द्विगुणहानिर्वा भवति, न त्वावलिका संख्येयभागप्रमितेषु स्थानेषु गतेषु । एवं पल्योपमाऽसंख्येयभागमात्रेषु द्विगुणवृद्धिस्थानेषु गतेषु यवमध्यं प्राप्यते, तथा सर्वाणि स्थानानि पल्योपमाऽसंख्येयभागमितानि भवन्ति ।
(२) अथवा 'एक्केण थोवा' इत्यादीनामक्षरैरेकैकेन सामान्यस्थितिस्थानकेनाऽन्तरितानामसामान्यस्थितीनां शलाका: स्तोका भवन्तीत्याद्यर्थो व्याख्येयः । तथाहि - द्वयोः पार्श्वयोरेकैका सामान्यस्थितिर्विद्यते, मध्ये चैकाऽसामान्यस्थितितः प्रभृति यावत्योऽसामान्य स्थितयो भवन्ति, तासां सर्वासामेका शलाका ग्रहीतव्या । पुनरन्यत्र द्वयोः पार्श्वयोरेकैका सामान्यस्थितिर्भवति, मध्ये चैका वाऽनेका वा यावत्योऽसामान्यस्थितयो भवन्ति, तासां द्वितीयैका शलाका ग्रहीतव्या । एवमेकैकया सामान्यस्थित्याऽन्तरितानामसामान्यस्थितीनामेकैका शलाका ग्रहीतव्या । तत उभयोः पार्श्वयोद्वे द्वे सामान्यस्थिती भवतः मध्ये च यावत्योऽसामान्यस्थितयो भवन्ति, तासामेका शलाका ग्राह्या । पुनरन्यत्रोभयतोऽन्ये द्व े द्व े सामान्यस्थिती भवतः, मध्ये च यावत्योऽसामान्यस्थितयो विद्यन्ते, तासां द्वितीयैका शलाका ग्रहीतव्या । एवं द्वाभ्यां द्वाभ्यां सामान्यस्थितिभ्यामन्तरितानामसामान्यस्थितीनामेकैका शलाका ग्रहीतव्या । इत्थमेकोत्तरक्रमेण वृद्धाभिः सामान्यस्थितिभिरन्तरितानामसामान्यस्थितीनामेकैका शलाका ग्रहीतव्या ।
तत्रैकैकया सामान्यस्थित्याऽन्तरितानामसामान्यस्थितीनां संपिण्डिताः सर्वाः शलाकाः स्तोका भवन्ति, द्वाभ्यां द्वाभ्यां सामान्यस्थितिभ्यामन्तरितानामसामान्यस्थितीनां गृहीताः सर्वाः शलाका विशेषाधिका भवन्ति । आधिक्यं चाऽधस्तनशलाका आवलिका संख्येयभागेन खण्डयित्वैकखण्डेन ज्ञातव्यम्, आवलिकाऽसंख्येपभागे गते द्विगुणवृद्धेः । ततोऽपि तिसृभिस्तिसृभिः सामान्यस्थितिभिरन्तरितानामसामान्यस्थितीनां गृहीताः सर्वाः शलाका विशेषाऽधिका भवन्ति । एवमावलि - काऽसंख्येय भागप्रमाणेषु स्थानेषु गतेषु तत्रत्यस्थानेऽसामान्यस्थितीनां गृहीताः सर्वाः शलाका: प्रथमस्थानतो द्विगुणा भवन्ति इदं च प्रथमं द्विगुणवृद्धिस्थानम् । ततः पुनरावलिकाऽसंख्येयभागप्रमाणेषु स्थानेषु गतेषु तत्रत्यस्थानेऽसामान्य स्थितीनां शलाका द्विगुणा भवन्ति, इदं च द्वितीयं द्विगुणवृद्धिस्थानम् । एवंक्रमेणाऽऽवलिकाऽसंख्येयभागप्रमाणेषु द्विगुणवृद्धिस्थानेषु गतेषु यवमध्यं प्राप्यते । ततो यवमध्यस्योपरि विशेषहीनक्रमेण शलाका गच्छन्ति । यवमध्यतश्चावलिका संख्येयभागमात्रेषु स्थानेषु गतेषु शलाका द्विगुणहीना भवन्ति । इदं चाद्यं द्विगुणहानिस्थानम् । ततः पुनरावलिकाऽसंख्येयभागप्रमाणेषु स्थानेषु गतेषु तत्रत्यस्थानेऽसामान्यस्थितीनां शलाका द्विगुणहीना भवन्ति, इदं च द्वितीयं द्विगुणहानिस्थानम् । एवंक्रमेण यवमध्यस्याधस्तनद्विगुणवृद्धिस्थानतोऽसंख्येयगुणेषु द्विगुणहानिस्थानेषु गतेषु चरमस्थानं प्राप्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org