________________
[ २९७
प्रथममतेन सामान्यासामान्यस्थितिनिरूपणम् ] किट्टिवेदनाद्धाधिकारः भवतः, तयोरेका शलाका ग्रहीतव्या। ततः पुन योः पार्थ योरेकाऽनेका वा सामान्यस्थितयो भवन्ति, मध्ये च निरन्तरमन्ये द्व- सामान्यस्थिती भवतः, तयोदितीयैका शलाका ग्रहीतव्या । उक्तरीत्याऽसामान्यस्थितिदिकानामेकैका शलाका ग्रहीतव्या । एवमेकोत्तरवद्धयाऽऽवलिकाऽसंख्येय भागमात्रीणामसामान्यस्थितीनामेकैका शलाका ग्रहीतव्या । तत्रैकैकरूपेण या असामान्यस्थितयो भवन्ति, तासां गहीताः सर्वाः शलाकाः स्तोका भवन्ति, ताश्च शलाका आवलिकाऽसंख्येयभागप्रमाणा भवन्ति । ततो द्विकरूपेण या असामान्यस्थितयः, तासां गृहीताः सर्वाः शलाका विशेषाधिका भवन्ति, आधिक्यं चावलिकाऽसंख्ययभागेन प्रथमपदगतशलाकाः खण्डयित्वैकखण्डेन बोध्यम्, आवलिकाऽसंख्येयभागे गते द्विगुणवद्धिकथनात् । ततस्त्रिकस्वरूपेण विद्यमानानामसामान्यस्थितीनां सर्वाः शलाका विशेषाधिका भवन्ति । ततश्चतुष्करूपेण विद्यमानानामसामान्यस्थितीनां सर्वाः शलाकाः विशेषाधिका भवन्ति । एवमेकोत्तरवद्धयापननिरन्तराऽसामान्यस्थितीनां शलाका विशेराधिकक्रमेण तावद् गच्छन्ति, यावद् यवमव्यम् । प्रथमस्थानत आवलिकाऽसंख्येयभागमात्रेषु विशेषाधिकस्थानेषु गतेषु निरन्तरा-ऽसामान्यस्थितीनां गृहीताः सर्वाः शलाकाः प्रथमस्थानापेक्षया द्विगुणा भवन्ति, इदं चाऽऽयं द्विगुणवृद्धिस्थानम् । ततः पुनरावलिकाऽसंख्येयभागमात्रेषु स्थानेषु वजितेषु प्रथमद्विगुणवृद्धिस्थानतोऽसामान्यस्थितीनां शलाका द्विगुणा भवन्ति, प्रथमस्थानतश्च चतुर्गुणाः, इदं च द्वैतीयीकं द्विगुणवृद्धिस्थानम् । ततः पुनरावलिकाऽसंख्येयभागप्रमाणेषु स्थानेषु गतेषु द्वितीयडिगुणवृद्धिस्थानतो निरन्तराऽसामान्यस्थितीनां शलाका द्विगुणा भवन्ति, इदं च तृतीयं द्विगुणवृद्धिस्थानम् । एवंक्रमणाऽऽवलिकाऽसंख्येयभागमात्रेषु द्विगुणवृद्धिस्थानेषु गतेषु यवमध्यं प्राप्यते । यवमध्येऽपि निरन्तरावलिकाऽसंख्येयभागप्रमाणाऽसामान्यस्थितीनां सर्वाः शलाका आवलिकाऽसंख्ययभागप्रमाणा एव भवन्ति । ततो यवमध्यस्योपर्येकोत्तरक्रमेण वृद्धांनां निरन्तरा- सामान्यस्थितीनां शलाका विशेषहीनक्रमेण गच्छन्ति, आवलिकाऽसंख्येयभागमात्रेवु च स्थानेषु गतेषु शलाका द्विगुणहीना भवन्ति, इदं च प्रथमं द्विगुणहानिस्थानम् । ततः पुनरेतावत्सु स्थानेषु गतेषु निरन्तराऽसामान्यस्थितीनां शलाका द्विगुणहीना भवन्ति, इदं च द्वितीयं द्विगुणहानिस्थानम् । एवंक्रमेणाऽसंख्यातेषु द्विगुणहानिस्थानेषु गतेषु प्रथमस्थानगतनिरन्तराऽसामान्यस्थितीनां शलाकाभिः समानाः शलाकाः प्राप्यन्ते, ततोऽप्युपर्येकोत्तरक्रमेण वृद्धानां निरन्तराऽसामान्यस्थितीनां शलाका हीयमाना गच्छन्ति, यावच्चरमस्थानस्य शलाकाः प्राप्यन्ते । ताश्चाऽऽवलिकाऽसंख्येयभागप्रमाणा भवन्त्यः सर्वस्तोका भवन्ति । तथा सर्वाण्यपि स्थानान्यावलिकाऽसंख्योयभागमात्राणि भवन्ति । असत्कल्पनया निरन्तरैकैकाऽसामान्यस्थितीनां शलाकाः सर्वसंख्ययाऽष्टौ, ततो विशेषाधिका निरन्तराऽसामान्यस्थितिद्विकानां शलाका द्वादश, ततो विशेषाधिका निरन्तराऽसामान्यस्थितित्रिकाणां शलाकाः पोडश, ततो विशेषाधिका निरन्तराऽमानान्यस्थितिचतुष्काणां शलाका चतुर्विशतिः, ततो विशेषाधिका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org