________________
सामान्याऽसामान्यस्थितिनिरूपणम् ] किट्टिवेदनाद्धाधिकारः
[ २९५ समयपबद्धसेसयमत्थि, सा हिदी सामण्णा त्ति णादव्वा । जम्मि णत्थि, सा हिदी असामण्णा त्ति णादव्वा ।" इति ।
__ अथ जघन्यत उत्कृष्टतश्च निरन्तरं कियत्योऽसामान्यस्थितयो भवन्ति ? इति परप्रश्नमुत्तरयितु भणति-'एगा' त्ति 'एका' जघन्यत एकाऽसामान्या स्थितिर्भवति, न च जघन्यतः सामान्या स्थितिरेका भवतीत्यर्थोऽत्र कुतो न गाते ? इति वाच्यम् , प्रत्यासत्याऽसामान्यस्थितेरेव ग्रहणसंभवात् । 'इगाहिअकमा' इत्यादि, तत एकाधिकक्रमाद् ‘निरन्तराः' सामान्यस्थितिभिरनन्तरिता उत्कृष्टतः क्षपकस्याऽऽवलिकाऽसंख्येयभागमिता असामान्यस्थितयो भवन्ति, न ततोऽधिकाः । अयम्भावः-द्वयोः पार्श्वयोरेकस्यामनेकासु वा सामान्यस्थितिषु सतीषु मध्ये जघन्यत एकाऽसामान्यस्थितिर्भवति, पुनयोः पार्श्वयोरेकस्यामनेकासु वा सामान्यस्थितिषु सतीषु मध्ये द्वेऽसामान्यस्थिती निरन्तरं भवतः । पुनयोः पाश्चयोरेकस्यामनेकासु वा सामान्यस्थितिषु सतीषु मध्ये तिस्रोऽसामान्यस्थितयो निरन्तरं भवन्ति, एवमेकोत्तरवृद्धयोत्कृष्टतो निरन्तरं क्षपकस्याऽऽवलिकाऽसंख्येयभागप्रमिता असामान्याः स्थितयो भवन्ति, न ततोऽधिकाः, आवलिकाऽसंख्येयभागे च गते नियमतः सामान्यस्थितीनां सद्भावात् । उक्तञ्च कषायप्राभूतचूणौँ-"एवमसामण्णाओ द्विदीओ एक्का वा दो वा उकस्सेण अणुबद्धाओ आवलियाए असंखेजदिभागमेत्तीओ।" इति ।
____ अत्र चोदक आह-ननु द्वाचत्वारिंशदुत्तरशततमगाथायां जघन्यत एकस्थितौ समय- . प्रबद्धशेषकाणि भवप्रबद्धशेषकाणि च विद्यन्त इत्युक्तम् । ततः पारिशेष्यात् क्षपकस्य भवसमयप्रबद्धशेषकै रहिता भवसमयप्रबद्धानामनाधारभूता असामान्याः स्थितयो निरन्तरमुत्कृष्टतो वर्षपृथक्त्वमाव्यः संभवन्ति, क्षपकस्य वर्षपृथक्त्वमात्रस्थितिकत्वात् , आलिकाऽसंख्येयभागप्रमाणा एव उत्कृष्टतः कुतो निरूप्यते ? इति, अत्रोच्यते-नैष दोषः, द्वाचत्वारिंशदधिकशततमगाथायां ह्येकसमयप्रबद्धस्यैकमवप्रबद्वस्य च शेषकमाश्रित्य तथा प्ररूपितम् , अत्र तु नानासमयप्रबद्धानां नानाभवबद्धानां चापि शेषकाण्याश्रित्य निरन्तरमावलिकाऽसंख्येयभागमिता एव उत्कृष्टतोऽसामान्यस्थितयो भवन्तीति प्ररूप्यते । अयं भावः-जघन्यत एकसमयप्रबद्धस्यैकभवप्रबद्धस्य च शेषकाण्येकस्यां स्थितौ वर्तन्ते, शेषासु स्थितिषु निरुक्तसमयप्रबद्धस्य निरुक्तभवप्रबद्धस्य च शेषकामि न विद्यन्त इत्युक्त द्वाचत्वारिंशदधिकशततमगाथायाम् , न तत्र यथासंभवं नानाभवसमयप्रबद्धशेषकाणामनेकस्थितिष्ववस्थानस्य निषेधःप्रतिपादितः । असामान्यस्थितयस्त्वेकभवसमयप्रवद्धनानाभवसमयप्रबद्धानां शेषकाणामभाव एव व्यपदिश्यन्ते । इत्थं विवक्षितैकसमयप्रवद्धस्य शेषकाणां जघन्यत एकस्थितौ सद्भावेन शेषासु स्थितिषु तदभावेऽपि यथासंभवं विवक्षितभवसमयप्रबद्धतो भिन्नैकभवसमयबद्धनानाभवसमयप्रबद्धानां शेषकाणामप्रतिषेधादुत्कृष्टतो वर्षपृथक्त्वमात्र्योऽसामान्यस्थितयो न लभ्यन्ते, किन्तूत्कृष्टतो निरन्तरमावलिकाऽसंख्येयभागप्रमाणा एवं प्राप्यन्ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org