________________
२९२ ]
aarसेढी
[ गाथा--१४३
न्ते, तस्य द्वितीयैका शलाका ग्रहीतव्या । एवं यस्य समयप्रबद्धस्य शेषकाण्येकैकस्थिताबवतिष्ठन्ते, तस्य तस्यैकैका शलाका ग्रहीतव्या, गृहीताच सर्वाः शलाकाः स्तोका भवन्ति । 'दोसु' इत्यादि, 'द्वयोः' ततो येषां समयप्रबद्धानां शेषकाणि द्वयोः स्थित्योरवतिष्ठन्ते, ते 'अधिकाः' विशेषाधिकाः, यस्य यस्य समयप्रबद्धस्य शेषकाणि स्थितिद्वये विद्यन्ते, तस्य तस्यैकैका शलाका ग्रहीतव्या, गृहीताच सर्वाः शलाका: पूर्वपदतो विशेषाधिका भवन्तीत्यर्थः । ततो येषां समयप्रबद्धानां शेषकाणि तिसृषु स्थितिष्ववतिष्ठन्ते, ते समयप्रवद्धा विशेषाधिका भवन्ति । एवमेकोत्तरवृद्धयापन्नस्थितिषु समयप्रवद्धा विशेषाधिकक्रमेण गच्छन्ति । 'आवलिकाऽसंख्यांशे तु ' आवलिका संख्येयभागे गते तु द्विगुणाः समयप्रबद्धा भवन्ति । चकारः समुच्चयार्थको भिन्नक्रमथ, ततश्चायमर्थः - यवमध्यं चाऽऽवलिकाऽसंख्यांशे=प्रथमस्थानतः प्रभृत्यावलिकाऽसंख्यातभागप्रमाणद्विगुणवृद्धिस्थानाऽतिक्रमे यवमयं प्राप्यत इति भावः ।
"
इदमत्र तात्पर्यम् — येषां समयबद्धानां शेषकान्येकस्यां स्थितौ वर्तन्ते, ते समयप्रबद्धाः स्तोकाः, ततो येषां समयबद्धानां द्वयोः स्थित्योर्वर्तन्ते, ते विशेाधिकाः, ततो येवां समयप्रबद्धानां शेषकाणि तिसृषु स्थितिषु वर्तन्ते, ते विशेवाधिका भवन्ति । एवं विशेाधिकक्रमेणाऽऽवलिकाऽसंख्येयभागमात्रेषु स्थानेषु गतेषु प्रथमस्थानतः समयप्रबद्धा द्विगुणा भवन्ति, इदञ्च प्रथमं द्विगुणवृद्धिस्थानम् । ततः पुनरेतावत्सु स्थानेषु गतेषु समयप्रबद्धा द्विगुणा भवन्ति, इदश्च द्वितीयं द्विगुणवृद्धिस्थानम्, ततः पुनरेतावत्सु स्थानेषु गतेषु समयप्रबद्धा द्विगुणा भवन्ति । इदञ्च तृतीयं द्विगुणवृद्धिस्थानम् । अनेन क्रमेणाssवलिका संख्येयभागमात्रेषु द्विगुणवृद्धिस्थानेषु गतेषु यवमध्यं प्राप्यते । अथ किं नाम यवमध्यम् ? इति चेत्, उच्यते - यथा यवाख्यधान्यविशेषः प्रारम्भभागतो विशेषाधिकक्रमेण तावद्वर्धते, यावत् तस्य मध्यस्थानम् । ततो विशेषहीन क्रमेण तावद्धीयते, यावत् तस्य पर्यन्तभागः, तथैवैकोत्तरवृद्धयापन्नस्थितिषु समयप्रवद्धा विशेषाधिकक्रमेण तावद् वर्धन्ते, यावदावलिकाऽसंख्येयभागमात्राणि स्थानानि । तत एकोत्तरवृद्धयापन्नस्थितिषु समयबद्धा गच्छन्ति, यावच्चरमस्थानम् । तत उपमयेह यवमध्यमुच्यते ।
ततो यवमध्यस्यावलिकाऽसंख्येयभागप्रमाणस्थितिलक्षणस्योपर्येकोत्तरवृद्धयापन्नस्थितिषु समयप्रबद्धा विशेषहीनक्रमेण गच्छन्ति । यवमध्यत आवलिका संख्येयभागप्रमाणस्थानेषु गतेषु द्विगुणहीनाः समयबद्धा भवन्ति, ततः पुनरेतावत्सु स्थानेष्यतीतेषु समयप्रबद्धा द्विगुणहीनाः सम्पद्यन्ते । एवंक्रमेण यवमध्यस्योपरि तावद् गच्छन्ति, यावद् वर्षपृथक्त्वमात्रस्थानेषु गतेषु चरमस्थानं प्राप्यते, मध्ये चाऽसंख्येयद्विगुणहानिस्थानानि व्यतिक्रामन्ति । उक्तं च कषायप्राभृतचूण"समयपबद्धस्स एक्क्क्स्स सेसगमेकिस्से द्विदीए, ते समयपबडा थोवा । जे दोसु ठिदीसु, ते समयपबडा विसेसाहिया । आवलियाए असंखेज्जदिभागे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.