________________
स्थितिषु भवसमयप्रबद्धानामवस्थानम् ] किट्टिवेदनाद्धाधिकारः
[२९१ प्रक्षेपाऽयोगात् । एवमुदयावलिकागततृतीयादिस्थितिष्वपि न संभवति । नन्दयस्थितरुपरितना याऽनन्तरा द्वितीयस्थितिः, तस्यां कुतो न संभवन्ति ? इति चेत्, उच्यते-अपकर्षगेनाऽनन्तरसमययुदयस्थितौ निश्शेषतो निर्लेपयिष्यमाणाः कर्मप्रदेशाश्शेषकत्वेन व्युत्पादिताः, अनन्तरद्वितीयस्थितिगतप्रदेशास्तूदयस्थितावपकर्षणेन न प्रक्षिप्यन्ते, किन्तु स्वभावतोऽधस्तनस्थितिक्षयेनोदयस्थितौ प्रविशन्ति । यद्वा व्याख्यानतो विशेषप्रतिपत्तिरिति न्यायेनोदयस्थितेरनन्तरोपरितनस्थितावप्येकसमयप्रबद्धस्य शेषकाणि तिष्ठन्तीत्यभ्युपगन्तव्यम् । एवमेकभवप्रबद्ध शेषकाण्यपि निरूपणीयानि । उक्तश्च कषायप्राभतचूर्णी-“समयप्रबडसेसयमेकम्मि ठिदिविसेसे, दोसु वा, तीसु वा, एगादिएगुत्तरमुक्कस्सेण विदियहिदीए सव्वासु हिदोसु पढमहिदीए च समयाहियउदयावलियं मोत्तण सेसासु सव्वासु हिदीसुxxxxxxr" इति । एवमेकभवप्रबद्धशेषकेषु ग्रन्थान्तरसंवादो द्रष्टव्यः ।
क्षपकस्यैकसमयप्रबद्धस्य शेषकाण्युत्कर्षतो वर्षपृथक्त्वस्थितिषु दृश्यन्ते, अधिकस्थितेरभावात् । अक्षपकस्य त्वधिकास्वपि स्थितिषु दृश्यन्ते । तथाहि-एकसमयप्रबद्धशेषकाणि जघन्यत एकस्यां स्थितौ तिष्ठन्ति, यद्वा द्वयोः स्थित्योस्तिष्ठन्ति, यद्वा तिसृषु स्थितिष्ववतिष्ठन्ते । एवमेकोत्तरवृद्धयोत्कृष्टतोऽक्षपकस्य पल्योपमाऽसंख्येयभागप्रमाणासु स्थितिष्वेकसमय प्रबद्धशेषकाणि वर्तन्ते। उक्तश्च कषायप्राभूतचूण्योमक्षपकप्रस्तावे-“समयप्रबडसेसयमेकिस्से ठिदीए होज्ज, दोसु तीसु वा, उक्कस्सेण पलिदोवमस्स असंखेजदिभागेसु।" इति ॥१४२॥
___ तदेवमभिहितम्-विवक्षितैकसमयभवप्रबद्धशेषकाणि जघन्यत एकस्यां स्थितौ वर्तन्ते, उत्कृष्टतश्च समयाधिकोदयावलिकावर्जसस्थितिधिति । तत्र किमेकस्यां स्थित्यां येषां समयप्रबद्धानां शेषकाणि विद्यन्ते, ते प्रभृता भवन्ति ? उत द्वयादिस्थितिषु येषां समयप्रबद्धानां शेषकाण्यवतिष्ठन्ते, ते प्रभूताः ? इति परशङ्काव्यपनोदाय पाहजाणं समयपबद्धाणं सेसाणिगठिईअ ते थोवा । दोसुअहिआ आवलिअसंखंसे उ दुगुणा य जवमझं ॥१४३॥ (गीतिः)
येषां समयप्रबद्धानां शेषाण्येकस्थितौ ते स्तोकाः । द्वयोरधिका आधलिकाऽसंख्यांशे तु द्विगुणाश्च यवमध्यम् ॥१४३।। इति पदसंस्कारः ।
'जाणं' इत्यादि, येषां समयप्रबद्धानां 'शेषाणि शेषकाण्येकस्थिताववतिष्ठन्ते, ते समयप्रबद्धाः स्तोका भवन्ति । तद्यथा-यस्य समयप्रबद्धस्य शेषकाण्येकस्यामेव स्थिताववतिष्ठन्ते, तस्यैका शलाका ग्रहीतव्या । ततः पुनरप्यन्यस्यैकस्य समयप्रबद्धस्य शेषकाण्यन्यस्यामेकस्यां स्थितौ विद्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org