________________
उदयस्थितौ भवसमयप्रबद्धनिरुपणम् ]
किट्टिवेदनाद्धाधिकारः
[२८७
भवनात् । तदुपरितनसमये द्विसमयाधिकावलिकासमयप्रबद्धा उदयेऽक्षिप्ता भवन्ति, तदुपरितनसमये त्रिसमयाधिकावलिकासमयप्रबद्धा उदयेऽक्षिप्ता भवन्ति, एवमेकैकसमयवृद्धया तावद्वक्तव्यम्, यावदन्तरकरणसमाप्तितः समयोनावलिकाषट्कस्य चरमसमयः । तदानीं हि समयोनपडावलिकासमयप्रबद्धा उदयेऽक्षिप्ता भवन्ति । तदनन्तरसमये षण्णामावलिकानां समयप्रबद्धा उदयनिषेकेऽक्षिप्ता भवन्ति, तत उर्च सर्वत्र षण्णामावलिकानां समयप्रबद्धा उदयस्थितो अक्षिप्ता भवन्ति ।
'छुढा' इत्यादि, तत्र 'शेषाः' षडावलिकानां समयप्रबद्धान् वर्जयित्वा शेषाः सर्वे समयबद्धास्तथा सर्वभवबद्धा उदयस्थितो 'क्षिप्ता' उदीरणाकरणेन प्रक्षिप्ता भवन्ति । अयम्भावः–यदि कर्मावस्थानकालाभ्यन्तरेसंचितयत्समयप्रबद्धस्यैकोऽपि कर्मपरमाणुरुदये प्रक्षिप्यते,तर्हिस समयप्रबद्ध उदये क्षिप्त इति व्याख्यानात् षडावलिकानां समयप्रबद्धान् परित्यज्य शेषाः सर्वे समयप्रबद्धा उदये वर्तन्ते । एवं यदि कर्माऽवस्थानकालाभ्यन्तर विवक्षित एकस्मिन् भवे बद्धानां समयप्रबद्धानामेकसमयप्रबद्धस्यैकोऽपि कर्मपरमाणुरुदये प्रक्षिप्यते, तर्हि विवक्षितभवबद्ध उदये निक्षिप्त इति व्याख्यानात् सर्वे भवबद्धा उदये प्रक्षिप्ता भवन्ति । उक्तं च कषायप्राभृतचूर्णी-"भवबहा पुण णियमा सव्वे उदये संछुहा भवंति।” इति । इत्थं समयप्रबद्धा उदयस्थिती प्रक्षिप्ता अप्रक्षिप्ताश्च भवन्ति, भवप्रबद्धाः पुनः सर्व उदयस्थितौ प्रक्षिप्ता भवन्ति ॥१३९ ।।
उदयस्थितौ समयप्रबद्धा भवबद्धाश्च प्ररूपिताः, सम्प्रति क्षपकस्यैकस्यां स्थितौ समयप्रबद्धशेषकाणि भवबद्धशेषकाणि च प्रतिपादनीयानि । इह तावदेकस्मिन् समये बद्धः प्रदेशपिण्डः समयप्रबद्ध उच्यते, तत्र कर्माऽवस्थानकालाभ्यन्तरे यथासंभवं वेदितस्य यस्य समयप्रवद्धस्य वेदितशेषं यत्प्रदेशाग्र सत्कर्मणि भवति, अनन्तरसमये चोदयस्थितिं वर्जयित्वा शेषासु स्थितिषु. तस्य समयबद्धस्यैकोऽपि प्रदेशो न वर्तिष्यति, उदयस्थितिं त्वपकर्षण प्राप्स्यति, तत्प्रदेशाग्रं समयप्रबद्धस्य शेषकं व्यपदिश्यते । उक्तं च कषायप्राभृतचूर्णी-“जं समयपबद्धस्स वेदिदसेसगं पदेसग्गं दिस्सइ, तम्मि अपरिसेसिदम्मि एगसमएण उदयमागदम्मि तस्स समयपबहस्स अण्णो कम्मपदेसो वा णत्थि, तं समयपबहसेसगं णाम ।” इति । न च कर्माऽवस्थानकालाभ्यन्तरे समयप्रबद्धस्य वेदितशेषमुदये वर्तमानं प्रदेशाग्र समयप्रबद्धशेषकं कुतो नोच्यते ? इति वाच्यम् , यतस्तथाविधे व्याख्यान एकस्यामेवोदयस्थितौ शेषकस्याऽवस्थानस्वीकारप्रसङ्गः स्यात् । न चेदमिष्यते, अनेकासु स्थितिषु समयप्रबद्धशेषकस्य वक्ष्यमाणत्वात् । समयप्रबद्धस्य जघन्यतः शेषकमेकं दलं भवति, द्वेवा दले शेषके भवतः, त्रीणि वा दलानि शेषकाणि भवन्ति । एवंक्रमेणोत्कृष्टतोऽनन्तकर्मदलिकानि शेषकाणि भवन्ति । एवं भवबद्धशेषकाण्यपि व्याख्येयानि । न्यगादि च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org