________________
२८६ ]
खवगसेढी
[गाथा-१३९ ___ अथाऽतिदिदिक्षुराह—'माणादीण' इत्यादि, 'मानादीनामपि' मान-मायालोभानामपि 'बद्धदलिक' प्रथमसंग्रहकिट्टिबद्धप्रदेशाग्रं सर्वसंग्रहकिट्टिषु यथासंभवं ज्ञेयं' ज्ञातव्यम् । तद्यथा-मानप्रथमसंग्रहकिट्टिबद्धप्रदेशाग्र चतुर्थावलिकायां नवस्वपि संग्रहकिट्टिषु भवति, मायायाः प्रथमसंग्रहकिट्टिबद्धप्रदेशाग्रं तृतीयावलिकायां षट्स्वपि संग्रहकिट्टिषु भवति, लोभप्रथमसंग्रहकिट्टिबद्धदलिकं द्वितीयावलिकायां तिसृषु संग्रहकिट्टिषु भवति । भावना तु सुगमा ॥१३८॥
प्राग एकविंशत्यधिकशततमगाथायां मध्यमाऽवान्तरकिट्टयो वेद्यन्त इत्युक्तम् । तत्रोदयस्थितौ कति समयप्रबद्धाः प्रक्षिप्ता भवन्ति ? कति चाक्षिप्ता भवन्ति ? एवं कति भवबद्धा उदयस्थितौ निक्षिप्ता भवन्ति ? इति परशङ्कां व्यपनुनुदिषुराह
उदयठिईए छण्हं आवलियाणं हवन्ति अच्छूढा । समयपबद्धा छूढा सेसा तह सवभवबद्धा ॥१३९॥ उदयस्थितौ षण्णामावलिकानां भवन्त्यक्षिप्ताः ।
समयप्रबद्धाः क्षिप्ताः शेषास्तथा सर्वभवबद्धाः ।।१३९।। इति पदसंस्कारः। 'उदयठिईए'इत्यादि, 'उदयस्थितौ' किट्टिवेदकैः स्वोदयनिषेके षण्णामावलिकानां समयप्रयद्धा 'अक्षिप्ता' उदीरणाकरणेनानिक्षिप्ता भवन्ति । कथमेतदवसीयते ? इति चेत् , भण्यते--अन्तरकरणे निष्पादिते ये कर्मप्रदेशा बध्यन्ते, ते नियमत आवलिकापट्काऽभ्यन्तरे नोदयन्ति, किन्तु षट्स्वावलिकासु व्यतिक्रान्तास्वेव, तेन षडावलिकासमयग्रबद्धा उदयस्थित्यामुदीरणाकरणेन न प्रक्षिप्यन्ते । न केवलं किट्टिवेदकैः स्वोदयस्थितौ षडावलिकासमयप्रबद्धा अक्षिप्ता भवन्ति, किन्त्वन्तरकरणनिष्पादनतः षट्स्वावलिकासु गतासु सर्वैः क्षपकैः स्वोदयस्थितौ पडावलिकासमयप्रबद्धा न क्षिप्यन्ते । यदभ्यधायि कषायप्राभृतचूर्णी-"जत्तो पाए अंतरं कदं, तत्तो पाए समयपबद्धो छसु आवलियासु गदासु उदीरिजदि । अंतरादो कदादो तत्तो छसु आवलियासु गदासु तेण परं छण्हमावलियाणं समयप्रबड़ा उदये अछुडा भवंति ।” इति । इदमुक्तं भवति-अन्तरकरणसमाप्तिप्रथमसमय एकावलिकासमयप्रबद्धा उदयस्थित्यामक्षिप्ता भवन्ति, बन्धावलिकागतकर्मणः सकलकरणाऽयोग्यत्वेना-ऽऽवलिकाबद्धकर्मग उदयाभावात् । अन्तरकरणसमाप्तिद्वितीयसमयेऽप्येकावलिकासमयप्रबद्धा उदयस्थितावक्षिप्ता भवन्ति, अन्तरकरणसमाप्तेरधस्ताद् बद्धकर्मण आवलिकां यावत्सकलकरणाऽयोग्यत्वेनावलिकायां व्यतिक्रान्तायां क्रमेणोदीरणाप्रयोगेणोदयात् । एवंक्रमेणा-ऽन्तरकरणसमातिप्रथमसमयतः प्रभृत्यावलिकाचरमसमयं यावदावलिकासमयप्रबद्धा उदयेऽक्षिप्ता भवन्ति । ततः परं समयाविकावालेकासमयप्रबद्धा उदयेऽक्षिप्ता भवन्ति, अन्तरकरणसमातिप्रथमसमयबद्धप्रदेशाग्रस्यावलिकापट्के गत. उदीरणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.