________________
[ २८५
द्वादशसंग्रहकिट्टिषु क्रोधबद्धदलम् ] किट्टिवेदनाद्वाधिकारः लिका यावत् संग्रहकिट्टिचतुष्टययेव तिष्ठति, संक्रमावलिकागतकर्मणः सकलकरणायोग्यत्वात् । ततः परं क्रोधप्रथमसंग्रहकिट्टितो मानप्रथमसंग्रहमिट्टयामागतं दलं तत्संक्रमाऽऽवलिकायां पूर्णायां तृतीयाऽऽवलिकायाः प्रथमसमये मानस्य शेषसंग्रहकिट्टिद्वये मायायाश्च प्रथमसंग्रहकिट्टौ संक्रमयति, न ततोऽधस्तात् , हेतुस्तुपूर्ववद् भावनीयः। तेन तृतीयाऽऽवलिकायां किट्टिवेदनाद्धाप्रथमसमयबद्धक्रोधप्रथमसंग्रहकिट्टिदलं संग्रहकिट्टिसप्तके भवति । ततः परं यत् किट्टिवेदनाद्धाप्रथमसमयबद्धक्रोधप्रथमसंग्रहकिट्टिदलं मायायाः प्रथमसंग्रहकिट्टि संप्राप्तम् , तत् संक्रमाऽऽवलिकायां व्यतिक्रान्तायां चतुर्थाऽऽवलिकाप्रथमसमये मायायाः शेषसंग्रहकिट्टिद्वये लोभस्य च प्रथमसंग्रहकिट्टौ संक्रमयति, न ततोऽधस्तात्, हेतुस्तु पूर्ववद् बोद्धव्यः । इत्थं किट्टिवेदनाद्धाप्रथमसमयबद्धक्रोधप्रथमसंग्रहकिट्टिदलं चतुर्थावलिकायां दशसु संग्रहकिट्टिषु भवति । ततः परं यत् किट्टिवेदनाद्धाप्रथमसमयबद्धक्रोधप्रथमसंग्रहकिट्टिदलं लोभप्रथमसंग्रहकिट्टि संप्राप्तम्, तत् संक्रमाऽऽवलिकायामतिक्रान्तायां पञ्चमाऽऽवलिकाप्रथमसमये लोभस्य द्वितीयसंग्रहकिट्टी तृतीयसंग्रहकिट्टौ चापवर्तनासंक्रमेण संक्रमयति, आनुपूर्वीसंक्रमदर्शनात् । एवं किट्टिवेदनाद्धाप्रथमसमयबद्धक्रोधप्रथमसंग्रहकिट्टिदलं पञ्चमाऽऽवलिकायां द्वादशसु संग्रहकिट्टिषु भवति । उक्तञ्च कषायप्राभृते
"जा चावि बज्झमाणी आवलिया होदि पढमकिट्टीए । पुव्वावलिया णियमा अणंतरा चदुसु किट्टीसु ॥१॥ तदिया सत्तसु किट्टीसु चउत्थो दससु होइ किटोसु।
तेण परं सेसाओ भवंति सव्वासु किट्टीसु ॥२॥” इति । तथैव तच्चूर्णावपि-"जं पदेसग्गं बज्झमाणयं कोधस्स, तं पदेसग्गं सव्वं बंधावलियं कोहस्स पढमसंगहकिट्टीए दोसइ । तदो आवलियादिकंतं तिसु वि कोहकिट्टीसु दोसइ, माणस्स च पढमकिटोए। एवं विदियावलिया चदुसु किट्टीसु दोसइ । तदो ज पदेसरगं कोहादो माणस्स पढमकिट्टीए गदं, तं पदेसगं तदो आवलियाए पुण्णाए माणस्स विदियतदियासु मायाए च पढमसंगहकिटोए संकमदि। एवं तदिया आवलिया सत्तसु किटोसु त्ति भण्णइ । जं कोहपदेसग्गं संछुन्भमाणयं मायाए पढमकिटोए संपत्तं, तं पदेसग्गं तत्तो आवलिया दिक्कतं मायाए विदियतदियासु च किट्टीसु लोभस्स च पढमकिट्टीए संकमदि। एवं चउत्थो आवलिया दससु किटोसु त्ति भण्णइ । जं कोहपदेसग्गं संछुन्भमाणं लोभस्स पढमकिट्टीए संपत्तं, तदो आवलियादिकंतं लोभस्स विदियतदियासु किट्टीसु दीसइ । एवं पंचमी आवलिया सव्वासु किट्टीसु त्ति भण्णइ ।” इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org