________________
२८० ]
खवगसेढी
[ गाथा-१३७ किट्टयामेकं मध्यमखण्डं लोभतृतीयसंग्रहकिट्टयन्तरोत्पन्नप्रथमाऽपूर्वाऽवान्तरकिट्टिप्रभृतिव्यतिक्रान्तपूर्वापूर्वावान्तरकिट्टिराशिन्यूनसर्वपूर्वापूर्वावान्तरकिट्टेिराशिप्रमाणानुभयचयान् लोभतृतीयसंग्रहकिट्टिप्रथमपूर्वावान्तरकिट्टिप्रभृतिव्यतिक्रान्तपूर्वावान्तरकिट्टिराशिप्रमाणांश्चाऽधस्तनशीर्षचयान् प्रक्षिपति । इत्थं प्राक्तनाऽवान्तरकिट्टयन्तरोत्पन्नाऽपूर्वावान्तरकिट्टितोऽस्यां लोभतृतीयसंग्रहकिट्टिपूर्वाऽवान्तरकिट्टौ दीयमानदलमसंख्येयगुणहीनं जायते, अस्यां पूर्वावान्तरकिट्टौ निक्षिप्यमाणदलादधस्तनशीर्षचयसहितमध्यमखण्डलक्षणादवान्तरकिट्टयन्तरोत्पन्नाऽपूर्वावान्तरकिट्टिदलस्याऽसंख्येयगुणत्वात् । येषां मतेन पुनरवान्तरकिट्टयन्तरोत्पन्नापूर्वावान्तरकिट्टिदलं निक्षिप्यमाणाधस्तनशीर्षचयमध्यमखण्डदलतोऽनन्तगुणं भवति, तेषां मतेनाऽनन्तगुणहीनं जायते । तत उत्तरोत्तरावान्तरकिट्टयामेकोत्तरवृद्धयाऽधस्तनशीर्षचयानेकोत्तरहान्योभयचयानेकैकं च मध्यमखण्डं तावत् प्रक्षिपति, यावल्लोभतृतीयसंग्रहकिट्टिचरमपूर्वावान्तरकिट्टिः, नवरं पल्योपमप्रथमवर्गमूलाऽसंख्येयभागे गते यत्र यत्रावान्तरकिट्टयन्तरेऽपूर्वावान्तरकिट्टि निर्वर्तयति, तत्र तत्राऽधस्तनशीर्षचयान् न प्रक्षिपति, किन्तु तत्स्थानेऽवान्तरकिट्टयन्तरोत्पन्नाऽपूर्वावान्तरकिट्टिदलं ददाति । इत्थं पूर्वावान्तरकिट्टितोऽवान्तरकिट्टयन्तरोत्पन्नाऽपूर्वावान्तरकिट्टावसंख्येयगुणं दीयमानं दलं भवति, हेतुस्तु प्रागवद् भावनीयः । मतान्तरेण त्वऽनन्तगुणं भवति । तथाऽवान्तरकिट्टयन्तरोत्पन्नाऽपूर्वावन्तरकिट्टितः पूर्वाऽवान्तरकिट्टावसंख्येयगुणहीनं दीयमानं दलं भवति, मतान्तरेण त्वनन्तगुणहीनं भवति ।
... ततो लोभद्वितीयसंग्रहकिट्टयन्तरोत्पन्नप्रथमाऽपूर्वावान्तरकिट्टो संक्रमदलादेकाऽधस्तनाऽपूर्वावान्तरकिट्टिदलमेकं मध्यमखण्डं लोभतृतीयसंग्रहकिट्टिपूर्वापूर्वावान्तरकिट्टिराशिन्यूनसर्वपूर्वापूर्वावान्तरकिट्टिराशिप्रमाणांश्चोभयचयान् प्रक्षिपति । इदं च दीयमानं दलं लोभतृतीयसंग्रहकिट्टिचरमपूर्वावान्तरकिट्टितोऽसंख्येयगुणं भवति, मतान्तरेण त्वनन्तगुणं भवति । ततो लोभद्वितीयसंग्रहकिदृयन्तरोत्पन्नद्वितीयाद्यपूर्वावान्तरकिट्टिष्वेकैकमध्यमखण्डमेकैकाधस्तनाऽपूर्वावान्तरकिट्टिदलमेकोत्तरहान्या चोभयचयांस्तावत् प्रक्षिपति, यावल्लोभद्वितीयसंग्रहकिट्टयन्तरोत्पन्नचरमाऽपूर्वावान्तरकिट्टिः। तेन लोभद्वितीयसंग्रहकिट्टयन्तरोत्पन्नप्रथमाऽपूर्वावान्तरकिट्टितः प्रभृति लोभद्वितीयसंग्रहकिट्टयन्तरोत्पन्नचरमाऽपूर्वावान्तरकिटिं यावत् सर्वास्वपूर्वाऽवान्तरकिट्टिष्वेकैकोभयचयेन हीनं प्रक्षिप्यमाणं दलं भवति, उभयचयस्य चाऽनन्ततमभागमात्रत्वेनाऽनन्ततमभागेन हीनं दीयमानं दलं भवति ।
ततः परं लोभद्वितीयसंग्रहकिट्टिप्रथमपूर्वावान्तरकिट्टी संक्रमदलत एकं मध्यमखण्डं लोभतृतीयसंग्रहकिट्टिपूर्वावान्तरकिट्टिराशिप्रमाणानधस्तनशीर्षचयान् लोभतृतीयसंग्रहकिट्टिपूर्वापूर्वावान्तरकिट्टिलोभद्वितीयसंग्रहकिट्टयन्तरजाऽपूर्वावान्तरकिट्टिराशिन्यूनसर्वपूर्वापूर्वावान्तरकिट्टिराशिप्रमाणांश्योभयचयान प्रक्षिपति । इत्थं लोभद्वितीयसंग्रहकिट्टयन्तरोत्पन्नचरमाऽपूर्वावान्तरकिट्टितो लोभद्वितीयसंग्रहकिट्टिप्रथमपूर्वावान्तरकिट्टी दीयमानं दलमसंख्यातगुणहीनं भवति, हेतुस्तु प्राग्वद् भावनीयः, मतान्तरेण त्वनन्तगुणहीनम् । ततः परं लोभद्वितीयसंग्रहकिट्टेः पूर्वावान्तरकिट्टिष्ववान्तरकिट्टय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org