________________
गणितरीत्या बन्धादिदलनिक्षेपविधिः] किट्टिवेदनाद्धाधिकारः
[२८१ न्तरोत्पन्नाऽपूर्वावान्तरकिट्टिषु च दीयमानं दलं लोभतृतीयसंग्रहकिट्टिवत् तावद् वक्तव्यम् , यावल्लोभद्वितीयसंग्रहकिट्टिचरमपूर्वावान्तरकिट्टिः । ___तत ऊवं लोभप्रथमसंग्रहकिट्टयन्तरोत्पन्नप्रथमाऽपूर्वावान्तरकिट्टी संक्रमदलत एकाधस्तनाऽपूर्वावान्तरकिट्टिदलमेकं मध्यमखण्डं लोभतृतीयसंग्रहकिट्टिद्वितीयसंग्रहकिट्टिपूर्वाऽपूर्वावान्तरकिट्टिराशिन्यूनसर्वपूर्वोऽपूर्वावान्तरकिट्टिराशिप्रमाणांश्चोभयचयान् प्रक्षिपति । इदं च लोभप्रथमसंग्रहकिट्टयन्तरोत्पन्नप्रथमाऽपूर्वावान्तरकिट्टौ दीयमानं दलं लोभद्वितीयसंग्रहकिट्टिचरमपूर्वावान्तरकिट्टितोऽसंख्येयगुणं भवति, मतान्तरेण त्वनन्तगुणम् । हेतुस्तु प्राग्वत् अपश्चनीयः । ततः परमेकोत्तरहान्योभयचयानेकैकाधस्तनाऽपूर्वावान्तरकिट्टिदलमेकैकं च मध्यमखण्डं तावद् ददाति, यावल्लोभप्रथमसंग्रहकिट्टयन्तरोत्पन्नचरमाऽपूर्वाचान्तरकिट्टिः । __ततः परं लोभप्रथमसंग्रहकिट्टिप्रथमपूर्वाऽवान्तरकिट्टितः प्रभृति दलं दातुमुपक्रमते । तत्र लोभप्रथमसंग्रहकिटेबध्यमानत्वेन चतुर्विधवन्धदलात् पञ्चविधसंक्रमदलाच्च पूर्वापूर्वावान्तरकिट्टिषु दलं यथायोग्यं ददाति । किन्त्वसंख्येयभागप्रमाणा मन्दानुभागका असंख्येयभागमिताश्च तीत्रानुभागका या अवान्तरकिट्टयो न बध्यन्ते, तासु केवलं संक्रमदलत एव दलं ददाति । तथा बन्धाऽपूर्वावान्तरकिट्टिषु केवलं बन्धदलत एव दलं ददाति, । तद्यथा-लोभप्रथमसंग्रहकिट्टिप्रथमपूर्वावान्तरकिट्टौ संक्रमदलत एकंमध्यमखण्डं लोभतृतीयसंग्रहकिट्टिद्वितीयसंग्रहकिट्टिपूर्वावान्तरकिट्टिराशिप्रमाणानधस्तनशीर्षचयान् लोभतृतीयसंग्रहकिट्टयन्तरोत्पन्नप्रथमाऽपूर्वावान्तरकिट्टिप्रभृतिव्यतिक्रान्तपूर्वापूर्वीवान्तरकिट्टिराशिन्यूनसर्वपूर्वोपूर्वावान्तरकिट्टिराशिप्रमाणांश्चोभयचयान् प्रक्षिपति । इत्थं लोभप्रथमसंग्रहकिट्टयन्तरोत्पन्नचरमाऽपूर्वावान्तरकिहितो लोभप्रथमसंग्रहकिट्टिप्रथमपूर्वावान्तरकिट्टी दीयमानं दलमसंख्येयगुणहीनं भवति, मतान्तरेण त्वनन्तगुणहीनम् । हेतुस्तु प्राग्वत् प्ररूपयितव्यः । ततः परं लोभप्रथमसंग्रहकिट्टयाः पूर्वावान्तरकिट्टिषु संक्रमतश्च निर्वय॑मानाऽपूर्वावान्तरकिट्टिषु लोभतृतीयसंग्रहकिट्टिवद् दलं तावत् प्रक्षिपति, यावल्लोभप्रथमसंग्रहकिटेर्जघन्या बन्धपूर्वावान्तरकिट्टिरप्राप्ता भवति । ततो लोभप्रथमसंग्रहकिट्टिसत्कायां जघन्यायां बन्धपूर्वावान्तरकिटौ संक्रमदलत एकमध्यमखण्डं लोभतृतीयसंग्रहकिट्टिप्रथमपूर्वावान्तरकिट्टिप्रभृतिव्यतिक्रान्तपूर्वावान्तरकिट्टिराशिप्रमाणानधस्तनशीर्षचयान् लोभतृतीयसंग्रहकिट्टयन्तरोत्पन्नप्रथमापूर्वावान्तरकिट्टिप्रभृतिव्यतिक्रान्तपूर्वाऽपूर्वावान्तरकिट्टिराशिन्यूनसर्वपूर्वापूर्वावान्तरकिट्टिराशिप्रमाणोभयचयदलं चैकोभयचयदलाऽनन्ततमभागेन हीनं प्रक्षिपति, बन्धमध्यमखण्डबन्धचयदलरूपेणैकोभयचयदला-ऽनन्ततमभागमात्रस्य दलस्य बन्धदलतः प्रक्षिप्यमाणत्वात् । बन्धदलतः पुनरेकं बन्धमध्यमखण्ड सर्वबन्धपूर्वापूर्वावान्तरकिट्टिराशिप्रमाणांश्च बन्धचयान् ददाति ।
ततः परं बन्धदलत एकैकं बन्धमध्यमखण्डमेकोत्तरहान्या च बन्धचयान् प्रक्षिपन् संक्रमद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org