________________
२७४ ]
खत्रगसेढी
[ गाथा-१३७ (४) मध्यमखण्डदलम्-एकादशसंग्रहकिट्टीनामधस्तनशीर्षचयदलमधस्तनाऽपूर्वाऽवान्तरकिट्टिदलमवान्तरकिट्टयन्तरोत्पन्नापूर्वावान्तरकिट्टिदलमुभयचयदलञ्वेति चतुर्विधं दलमायदलतो विशोध्य शेषमायदलं मध्यमखण्डदलमुच्यते, तच्चैकादशसंग्रहकिट्टिबन्धापूर्वावान्तरकिट्टिराशिरहितपूर्वाऽपूर्वाकिट्टिराशिना विभज्यते, तदैकमध्यमखण्डदलं प्राप्यते। तच्च य आचार्या अपूर्वावान्तरकिट्टितस्तदनन्तरपूर्वाऽवान्तरकिट्टी निक्षिप्यमाणं दलमसंख्यातगुणहीनं मन्यन्ते, तेषां मतेन लोभतृतीपसंग्रहकिट्टिप्रथमपूर्वावान्तरकिट्टिगतदलाऽसंख्येयभागप्रमाणं भवति । ये पुनरपूर्वावान्तरकिट्टितस्तदनन्तरपूर्वावान्तरकिट्टौ निक्षिप्यमाणं दलमनन्तगुणहीनं स्वीकुर्वन्ति, तेषामभिप्रायेण लोमतृतीयसंग्रहकिट्टिप्रथमपूर्वावान्तरकिट्टिगतदलाऽनन्ततमभागमात्रं भवति । इदं च मध्यमखण्डमेकैकमेकादशसंग्रहकिट्टीनां बन्धापूर्वावान्तरकिट्टिरहितासु सर्वपूर्वापूर्वाऽवान्तरकिट्टिष्यविशेषेण दातव्यम् । निरुक्तकमध्यमखण्डदलं क्रोधप्रथमसंग्रहकिट्टिपूर्वाधान्तरकिट्टिराशिना गुण्यते, तदा क्रोधप्रथमसंग्रहकिट्टिसर्वमध्यमखण्डदलं प्राप्यते । तच्च घातदलतो दातव्यम् । एकैकमध्यमखण्डदलं चक्रोधप्रथमसंग्रहकिट्टिसर्वपूर्वावान्तरकिट्टिष्वविशेषेण दातव्यम् । त्रिंशदधिकशततमगाथायाष्टीकायां पृथक्स्थापितघातदलात् क्रोधप्रथमसंग्रहकिट्टी यथायोग्यमधस्तनशीपंचयदलमुभयचयदलं मध्यमखण्डदलं चेति दलत्रये प्रक्षिप्ते पृथक्स्थापितं घातदलं परिसमाप्तं भवति । शेषासु संग्रहकिट्टिषु यथायोग्यं पञ्चविधे दलिके प्रक्षिप्ते सर्वमायदलं परिसमाप्तं भवति ।।
___अथ बन्धदलं बन्धाऽपूर्वावान्तरकिटिसमानखण्डदलादिभिर्विविच्यतेकिट्टिवेदनाद्धायाः प्रथमसमये मोहनीयस्य बन्धत आगतं दलं बन्धदलमुच्यते । मोहनीयैकसमयप्रबद्धदलं मानादिषु विभजति । तत्र माने स्तोकं दलं ददाति । ततो विशेषाधिकं क्रोधे ददाति, ततो मायायां विशेषाधिकं ददाति, ततोऽपि विशेषाधिक लोभे ददाति । इदं च बन्धदलं प्रथमसंग्रहकिट्टावेव दीयते, तस्या एव बध्यमानत्वात् । सम्प्रति वन्धदलं विभागचतुष्टये स्थापयितव्यम्(१) बन्धाऽपूर्वावान्तरकिट्टिसमानखण्डम् (२) बन्धाऽपूर्वावान्तरकिट्टिचयदलम् , (३) बन्धवयदलम् (४) बन्धमध्यमखण्डदलं चेति । तत्र सर्वबन्धदलतोऽनन्ततमभागमात्रं दलं बन्धमध्यमखण्डा) बन्धचयदलार्थं च पथक्स्थापयितव्यम्, शेषबह्वनन्तभागप्रमाणदलं बन्धाऽपूर्वावान्तरसमानखण्डदले बन्धाऽपूर्वावान्तरकिट्टिचयदले च विभजति । ' (१) बन्धाऽपूर्वावान्तरकिसिमानखण्उदलम्-बन्धदलतश्चतुस्संग्रहकिट्टीनामवान्तरकिट्टयन्तरेषु या अपूर्वाऽवान्तरकिट्टय उत्पयन्ते, तासु बन्धदलतः प्रागुक्तैकसंक्रममध्यमखण्डाधिकं लोभतृतीयसंग्रहकिट्टिप्रथमपूर्वावान्तरकिट्टिगतदलं दातव्यम् , तच्चैकं बन्धापूर्वावान्तरकिट्टिसमानखण्डमुव्यते । सर्ववन्धाऽपूर्वाधान्तरकिट्टिराशिना च संक्रममध्यमखण्डाधिकलोभतृतीयसंग्रहकिट्टिप्रथमपूर्ववान्तरकिट्टिगतदले गुण्यते, तदा सर्वबन्धाऽपूर्वावान्तरकिट्टिसमानखण्डदलं प्राप्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org