________________
गणितरीत्या बन्धदलनिरूपणम् ] किट्टिवेदनाद्धाधिकारः
[ २७५ (२) बन्धापूर्वावान्तरकिटिचयदलम्-क्रोधादीनां प्रथमसंग्रहकिटेरसंख्येयभागप्रमाणा अधस्तनीरुपरितनीश्वाऽवान्तरकिट्टीर्विमुच्य शेषाः प्रथमसंग्रहकिट्टयवान्तरकिट्टयो बध्यन्ते, तत्राऽपि तत्तत्कषायबन्धचरमपूर्वान्तरकिट्टेधस्तादसंख्यातपल्योपमप्रथमवर्गमूलप्रमाणा बन्धपूर्वावान्तरकिट्टीरुल्लङ्घय बन्धचरमाऽपूर्वावान्तरकिट्टिर्निवयते। ततः परं पुनरसंख्येयपल्योपमप्रथमवर्गमूलप्रमाणा बन्धपूर्वावान्तरकिट्टीर्व्यतिक्रम्य बन्धद्विचरमापूर्वावान्तरकिट्टिर्निवय॑ते । ततः पुनरसंख्येयपल्योपमप्रथमवर्गमूलप्रमाणा बन्धपूर्वावान्तरकिट्टीरुल्लङ्घय बन्धविचरमापूर्वावान्तरकिट्टिनिर्वय॑ते । एवं पश्चानुपूर्ध्या तावद् निर्वत्येते, यावत् तत्तत्कपायबन्धप्रथमापूर्वावान्तरकिट्टिः । तेन क्रोधप्रथमसंग्रहकिट्टिचरमपूर्वावान्तरकिट्टित आरभ्य पश्चानुा यतिसंख्याका क्रोधप्रथमसंग्रहकिट्टिबन्धचरमाऽपूर्वावान्तरकिट्टिर्भवति, तत्संख्याका बन्धापूर्वाऽवान्तरकिट्टिचयाः क्रोधप्रथमसंग्रहकिट्टिवन्धचरमाऽपूर्वावान्तरकिट्टौ प्रक्षेप्तव्याः। ततोऽसंख्येपपल्योपमप्रथमवर्गमूलप्रमाणैन्धापूर्वावान्तरकिट्टिचयैरधिका बन्धापूर्वावान्तरकिट्टिचया बन्धद्विचरमापूर्वावान्तरकिट्टौ प्रक्षेपणीयाः। ततोऽप्यसंख्येयपल्योपमप्रथमवर्गमूलप्रमाणैरधिका बन्धविचरमापूर्वावान्तरकिट्टौ प्रक्षेप्तव्याः । एवंक्रमेण तावत् प्रक्षेप्तव्याः, यावत् क्रोधप्रथमसंग्रहकिट्टिवन्धप्रथमापूर्वावान्तरकिट्टिः, अन्यथा दृश्यमानं दलं बन्धपूर्वापूर्वावान्तरकिट्टिष्वेकगोपुच्छाकारेण न स्यात् । तथाहि-बन्धपूर्वावान्तरकिट्टिषु संक्रमदलतोऽधस्तनशीर्षचयदले प्रक्षिप्ते बन्धपूर्वाऽवान्तरकिट्टयः प्रदेशानाश्रित्य लोभतृतीयसंग्रहकिट्टिप्रथमपूर्वावान्तरकिट्टिप्रदेशतुल्या जायन्ते स्म । ततः पुनस्तास्वेकं संक्रममध्यमखण्डं यथायोग्यं चोभयचयाः प्रक्षिप्यन्ते । एकैकस्यां बन्धाऽपूर्वावान्तरकिट्टौ तु संक्रममध्यमखण्डाधिकलोभतृतीयसंग्रहकिट्टिप्रथमाऽपूर्वावान्तरकिट्टिगतप्रदेशप्रमाणमेव दलमेकबन्धापूर्वोऽवान्तरकिट्टिसमानखण्डदलं प्रक्षिप्तम् । यदि बन्धाऽपूर्वावान्तरकिट्टिचया न प्रक्षिप्येरन्, तर्हि बन्धपूर्वावान्तरकिट्टितो बन्धाऽपूर्वावान्तरकिट्टी दृश्यमानं दलंबन्धपूर्वावान्तरकिट्टी प्रक्षिप्तैरुभयचयैन्युनं स्यात् । न च तदिष्यते, दृश्यमानदलस्य गोपुच्छाकारेण निरूपयिष्यमाणत्वात् । तेन पूर्वाऽपूर्वावान्तरकिट्टिषुदलिकं गोपुच्छाकारं कक्रोधप्रथमसंग्रहकिट्टिचरमपूर्वावान्तरकिट्टित आरभ्य पश्चानुपूर्व्या यतिसंख्याका क्रोधप्रथमसंग्रहकिट्टिबन्धचरमाऽपूर्वावान्तरकिट्टिर्भवति, तत्संख्यका बन्धापूर्वावान्तरकिट्टिचयास्तत्र निक्षिप्यन्ते । ततः परमसंख्येयपल्योपमप्रथमवर्गमूलप्रमाणा बन्धपूर्वाऽवान्तरकिट्टीयतिक्रम्य बन्धद्विचरमाऽपूर्वावान्तरकिट्टिः प्राप्यते, तेन बन्धचरमाऽपूर्वावान्तरकिट्टयपेक्षयाऽसंख्येयपल्योपमप्रथमवर्गमूलप्रमाणैरधिका बन्धाऽपूर्वावान्तरकिट्टिचया बन्धद्विचरमाऽपूर्वावान्तरकिट्टी प्रक्षिप्यन्ते । एवं पश्चानुपूष्यकैकस्यां बन्धाऽपूर्वावान्तरकिट्टावसंख्येयपल्योपमप्रथमवर्गमूलप्रमाणैरधिका अधिकतरा बन्धाऽपूर्वावान्तरकिट्टिचयास्तावत् प्रक्षिप्यन्ते, यावत् क्रोधस्य बन्धप्रथमाऽपूर्वावान्तरकिट्टिः । “व्यकपदनचयो मुखयुक् स्यादन्त्यधनं मुखयुग्दलितं तत् । मध्यधनं पदसंगुणितं तत् सर्वधनं गणितं च तदुक्तम् ॥१॥” इति गणितकरण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org