________________
गणितरीत्याऽवान्तरकिट्टिषु दलनिक्षेपविधिः ] किट्टिवेदनाद्धाधिकारः
[ २७३
न्यासः
क्रोधप्रथमसंग्रहकिट्टी निक्षिप्यमाणाः सर्वोभयचयाः = (पदम्+१) x पदम्
, , ,, सर्वोभयचयदलम् = सर्वोभयचयाः ४ एकोभयचयदलम् ,, ,, ,, घातदलतो दातव्यमुभयचयदलम् =सर्वोभयचयदलम्-बन्धापूर्वावान्तरकिट्टिचयदलम् -(बन्धमध्यमखण्डम्+बन्धचयदलम्)
अथैकादशसंग्रहकिट्टीनामुभयचयदलमुच्यते-क्रोधद्वितीयसंग्रहकिट्टिचरमपूर्वावान्तरकिट्टयामेकाधिकक्रोधप्रथमसंग्रहकिट्टिसर्वपूर्वापूर्वावान्तरकिट्टिराशिप्रमाणानुभयचयान् प्रक्षिपति । क्रोधद्वितीयसंग्रहकिट्टिद्विचरमपूर्वाऽवान्तरकिट्टी द्वयधिकक्रोधप्रथमसंग्रहकिट्टिसर्वपूर्वापूर्वावान्तरकिट्टिराशिप्रमाणानुभयचयान् निक्षिपति । एवं पश्चानुपूव्यकोत्तरवृद्धया चयान पूर्वाऽपूर्वावान्तरकिट्टिषु तावद् ददाति, यावल्लोभतृतीयसंग्रहकिट्टिप्रथमाऽपूर्वावान्तरकिट्टिः । एकादशसंग्रहकिट्टिषु “व्येकपदनचयो मुखयुक् स्यादन्त्यधनं मुखयुग दलितं तत् । मध्यधनं पदसगुणितं तत् सर्वधनं गणितं तदुक्तम्॥१॥” इति गणितकरणसूत्रेण सङ्कलयितव्याः प्रक्षिप्यमाणोभयचयाः । मुखम् आदिधनम् , तच्चाकाधिकक्रोधप्रथमसंग्रहकिट्टिसर्वपूर्वाऽपूर्वावान्तरकिट्टिराशिप्रमाणा उभयचयाः । अन्त्यधनं द्वादशसंग्रहकिट्टिपूर्वापूर्वावान्तरकिट्टिराशिप्रमाणा उभयचयाः, लोभतृतीयसंग्रहकिट्टिप्रथमाऽवान्तरकिट्टौ तावतां चयानां प्रक्षेपात् । पदमेकादशसंग्रहकिट्टिपूर्वापूर्वाऽवान्तरकिट्टिराशिख़तव्यम् । चयश्चैको बोद्धव्यः, एकोत्तरवृद्धः । _____ एकादशसंग्रहकिट्टीनामुभयचयैरेकोभयचयदलं गुण्यते, तदैकादशसंग्रहकिट्टिसर्वोभयचयदलं प्राप्यते, तच्च वक्ष्यमाणेन मानमायालोभप्रथमसंग्रहकिट्टिवन्धापूर्वावान्तरकिट्टिचयदलेन क्रोधवर्जकषायत्रयबन्धपूर्वाऽपूर्वावान्तरकिट्टिषु च निक्षेप्यस्यमानबन्धमध्यमखण्डबन्धचयदलेन न्यूनं वक्तव्यम् , तावद्दलस्य बन्धदलतो दास्यमानत्वात् । न्यासः--
अन्त्यधनम् = (पदम्-१) ४ चयः + आदिधनम् मध्यमधनम अन्त्यधनम् + आदिधनम्
२ .:.एकादशकिट्टीनां सर्वोभयचयाः मध्यमधनम् ४ पदम् ..एकादशसंग्रहकिट्टिषु प्रक्षिप्यमाणं सर्वोभयचयदलम्
= एकादशसंग्रहकिट्टीनां सर्वोभयचयाःxएकोभयचयदलम् आयदलतो निक्षिप्यमाणं सर्वोभयचयदलम् । = सर्वोभयचयदलम्-क्रोधवर्जकषायत्रयप्रथमसंग्रहकिटिबन्धापूर्वावान्तरकिट्टिचयदलम् --(क्रोधवर्जकषायत्रयबन्धमध्यमखण्डम् + क्रोधवर्जकषायत्रयबन्धचयदलम् )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org