________________
२७२ ]
खवगसेढी
[ गाथा-१३७ बन्धपूर्वावान्तरकिट्टयश्च समानदलिका जायन्ते, तासां दलिकं गोपुच्छाकारं कर्तुं क्रोधप्रथमसंग्रहकिटेश्वरमपूर्वावान्तरकिट्टयामेकं चयं प्रक्षिपति । असौ च प्रक्षिप्यमाणश्चय उभयचय उच्यते, द्विचरमपूर्वावान्तरकिट्टी द्वा उभयचयो प्रक्षिपति । एवंक्रमेण पश्चानुपूर्व्या लोभतृतीयसंग्रहकिट्टिप्रथमाऽपूर्वावान्तरकिट्टौ बन्धसंक्रमसर्वपूर्वाऽपूर्वावान्तरकिट्टिराशिप्रमाणानुभयचयान् प्रक्षिपति । नवरं बन्धपूर्वावान्तरकिट्टिष्वनन्तभागदलन्यूनानुभयचयान् प्रक्षिपति, बन्धमध्यमखण्डबन्धचयरूपेण तावद्दलस्य प्रक्षेप्स्यमानत्वात् तथा बन्धाऽपूर्वावान्तरकिट्टियूभयचयस्थाने वक्ष्यमाणबन्धापूर्वान्तरकिट्टिचयान् बन्धदलतो दास्यति । नन्वेकोभयचयः कियद्दलप्रमाणो भवति ? इति चेत्, उच्यते- मोहनीयसत्तागतसर्वदलं पदेन विभज्यते, तदा मध्यमदलं प्राप्यते । तत्पुनरीकृतैकोनपदन्यूनाभ्यां द्वाभ्यां द्विगुणहानिभ्यां विभज्यते, तदैक उभयचयः प्राप्यते । पदं चात्र बन्धसंक्रमसर्वपूर्वापूर्वावान्तरकिट्टिराशिख़तव्यम् ।
न्यासः
___ मध्यमदलम-मोहनीयसर्वदलम
पदम्
एक उभयचयः मध्यमदलम्
- द्विगुणहानिद्वयम्- (पदम्-१) सम्प्रति क्रोधप्रथमसंग्रहकिट्टौ प्रक्षिप्यमाणमुभयचयदलं प्रदर्श्यते-क्रोधप्रथमसंग्रहकिट्टिचरमपूर्वावान्तरकिट्टयामेकमुभयचयं प्रक्षिपति, क्रोधप्रथमसंग्रहकिट्टिद्विचरमपूर्वावान्तरकिट्टो द्वा उभयचयौ प्रक्षिपति । एवंक्रमेण क्रोधप्रथमसंग्रहकिट्टिप्रथमपूर्वावान्तरकिट्टी क्रोधप्रथमसंग्रहकिट्टिसर्वपूर्वापूर्वावान्तरकिट्टिराशिप्रमाणानुभयचयान् प्रक्षिपति । अनेन क्रमेण क्रोधप्रथमसंग्रहकिट्टो प्रक्षिप्यमाणा उभयचयाः “सैकपदघ्नपदार्धमथैकाद्ययुतिः किल सङ्कलिताख्या।" इति श्रीभास्करकरणसूत्रेण सङ्कलयितव्याः । पदं चाऽत्र क्रोधप्रथमसंग्रहकिट्टिपूर्वापूर्वावान्तरकिट्टिराशिख़तव्यम् ।
क्रोधप्रथमसंग्रहकिट्टिसर्वोभयचयैरेकोभयचयदलं गुण्यते, तदा क्रोधप्रथमसंग्रहकिट्टिसर्वोभयदलं प्राप्यते । उभयचयदलं च पूर्वावान्तरकिट्टिषु घातदलतो दीयते, बन्धाऽपूर्वावान्तरकिट्टिषु तु बन्धदलतो दीयते । बन्धदलतश्चबन्धापूर्वावान्तरकिट्टिषु किञ्चिन्न्यूनोभयचयदलं यद् दीयते,तबन्धपूर्वावान्तरकिट्टिचयदलमिति परिभाषिष्यामहे । तच्च वक्ष्यमाणप्रकारेण संकलय्य सर्वोभयचयदलतो विशोधयितव्यम् । विशोधिते च तस्मिन् शेषतः पुनरनन्तभागप्रमाणदलं विशोधवितव्यम्, पूर्वापूर्वबन्धावान्तरकिट्टिषु बन्धमध्यमखण्डबन्धचयदलस्वरूपेणाऽनन्तभागप्रमाणदलस्य दायिष्यमाणत्वात् । शुद्धशेषमुभयचयदलं घातदलतो दातव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org