________________
२६८ ]
खवगसेढी
[ गाथा-१३७ ट्टितो लोभतृतीयसंग्रहकिट्टिप्रथमपूर्वावान्तरकिट्टावसंख्यातगुणहीनं दलं ददाति, ततो लोभतृतीयसंग्रहकिट्टिद्वितीयपूर्वावान्तरकिट्टयामनन्ततमभागेन हीनं दलं ददाति । एवंक्रमेण तावद् ददाति, यावत् पल्योपमप्रथमवर्गमूलाऽसंख्येयभागप्रमाणा लोभतृतीयसंग्रहकिट्टिपूर्वावान्तरकिट्टयो व्यतिक्रामन्ति, ततोऽनन्तरायां संक्रमतो निर्वामानायां लोभतृतीयसंग्रहकिट्टयाः प्रथमायामवान्तरकिट्टयन्तरजायां संक्रमाऽपूर्वावान्तरकिट्टावसंख्यातगुणं दलं निक्षिपति । ततोऽनन्तरायां लोभतृतीयसंग्रहकिट्टिपूर्वाधान्तरकिट्टावसंख्येयगुणहीनं दलं ददाति । तत उत्तरोत्तरस्यां लोभतृतीयसंग्रहकिट्टिपूर्वाऽवान्ताकिट्टयामनन्तभागेन हीनं दलं ददाति । यत्र च पूर्वावान्तरकिट्टया अपूर्वावान्तरकिट्टयाश्च सन्धिर्भवति, तत्र पूर्वाऽवान्तरकिट्टितोऽपूर्वावान्तरकिट्टावसंख्येषगुणं दत्वाऽपूर्वाऽवान्तरकिट्टितोऽनन्तरपूर्वावान्तरकिट्टावसंख्येयगुणहीनं दलं ददाति । शेषाऽवान्तरकिट्टिष्वनन्ततमभागेन हीनं दलं ददाति । एवंक्रमेण ददल्लोभतृतीयसंग्रहकिट्टिचरमपूर्वाऽवान्तरकिट्टितो लोभद्वितीयसंग्रहकिड्यन्तरजायां प्रथमायामपूर्वावान्तरकिट्टापसंख्येयगुणं दलं ददाति । ततो विशेषहीनक्रमेण तावद् ददाति, यावल्लोभातीयसंग्रहकिट्टयन्तरजा चरमाऽपूर्वावान्तरकिट्टिः । ततो लोभद्वितीयसंग्रहकिट्टयन्तरजचरमाऽपूर्वावान्तरकिट्टितो लोभद्वितीयसंग्रहकिट्टिप्रथमपूर्वावान्तरकिट्टथामसंख्यातगुणहीनं दलं ददाति । ततः परं यथोत्तरमनन्तभागेन हीनं हीनतरं ददाति । नवरं पल्योपमप्रथमवर्गमूलाऽसंख्येयभागप्रमाणासु पूर्वाऽवान्तरकिट्टिषु गतासु यत्र यत्र पूर्वाऽवान्तरकिट्टरवान्तरकिट्टयन्तरजायाचाऽपूर्वाऽवान्तरकिट्टेः सन्धिर्जायते, तत्र तत्र पूर्वाऽवान्तरकिट्टितोऽपूर्वावान्तरकिट्टावसंख्येयगुणं दलं दत्त्वाऽपूर्वावान्तरकिट्टितोऽनन्तरपूर्वावान्तरकिट्टावसंख्यात गुणहीनं ददाति ।
ततो लोभद्वितीयसंग्रहकिट्टिचरमपूर्वावान्तरकिट्टितो लोभप्रथमसंग्रहकिट्टयन्तरजायां प्रथमायामपूर्वावान्तरकिट्टयामसंख्यातगुणं दलं ददाति । तत उत्तरोतराऽपूर्वावान्तरकिट्टौ विशेषहीनं दलं तावद् ददाति, यावल्लोभप्रथमसंग्रहकिट्टयन्तरजा चरमाऽपूर्वावान्तरकिट्टिः । ततो लोभप्रथमसंग्रहकिट्टिप्रथमपूर्वावान्तरकिट्टावसंख्यातगुणहीनं दलं निक्षिपति । ततः परमनन्तरानन्तरेण सर्वत्र विशेषहीनक्रमेण दलं तावद् ददाति, यावल्लोभप्रथमसंग्रहकिट्टिचरमपूर्वावान्तरकिट्टिः । नवरं पल्योपमप्रथमवर्गमूलाऽसंख्येयभागप्रमाणासु पूर्वाऽवान्तरकिट्टिषु गतासु यत्र यत्र पूर्वावान्तरकिट्टरपूर्वाऽवान्तरकिटेश्च सन्धिर्भवति, तत्र तत्र पूर्वावान्तरकिट्टितोऽपूर्वावान्तरकिट्टावसंख्येयगुणं दलं दत्त्वाऽपूर्वावान्तरकिट्टितोऽनन्तरपूर्वाऽवान्तरकिट्टावसंख्येयगुणहीनं दलं प्रक्षिपति ।
___ ततो लोभप्रथमसंग्रहकिट्टिचरमपूर्वावान्तरकिहितो मायातृतीयसंग्रहकिट्टयन्तरजायां मायाप्रथमाऽपूर्वावान्तरकिट्टयामसंख्यातगुणं दलं ददाति । ततः सर्वत्र लोभवद् वक्तव्यम् ।
अयम्भावः—यथा लोभसंग्रहकिट्टित्रये दलनिक्षेप उक्तः, तथैव मायामानयोः संग्रहकिट्टित्रये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.