________________
संक्रमापूर्वावान्तरकिट्टिषु दलनिक्षेपः] किट्टिवेदनाद्धाधिकारः
[२६७ किट्टिकरणाद्धायाश्चरमसमये मोहनीयसर्वदलस्य किट्टितया परिणतत्वात् किट्टिवेदनाद्धायाश्च प्रथमसमये पूर्वसत्तागतदलाऽसंख्येयभागमात्रदलस्योत्करणात् पूर्वाऽवान्तरकिद्विगतदलिकापेक्षयाऽसंख्येयभागप्रमाणं दलमपूर्वाऽवान्तरकिट्टितया परिणमनायोत्किरति, एवं द्वितीयादिसमयेध्वपि । यद्यपि प्रतिसमयं किट्टिवेदनाद्धायामप्यसंख्येयगुणं दलमुत्किरति, तथाप्युत्कीर्यमाणं सर्व दलं पूर्वसत्तागतसर्वदलासंख्येयभागप्रमाणं भवति। तेन किट्टिवेदनाद्धायाः प्रथमसमये संग्रहकिट्टयन्तरोत्पन्नास्ववान्तरकिट्टिषु या चरमापूर्वावान्तरकिट्टिः,तस्यां निक्षिप्यमाणदलतोऽसंख्येयगुणहीनं प्रथमपूर्वावान्तरकिट्टौदलंनिक्षिपति,अन्यथा पूर्वापूर्वाऽवान्तरकिट्टीनां दृश्यमानंदलमेकगोपुच्छाकारेण न स्यात् । एवं चरमपूर्वावान्तरकिट्टितोऽसंख्येयगुणं प्रथमायां संग्रहकिट्टयन्तरोत्पन्नायामवान्तरकिटौनिक्षिपति, अन्यथा दृश्यमानदलस्य गोपुच्छाकारभङ्गः प्रसज्येत । इहोष्ट्रकूटापेक्षया तु सादृश्यार्थः सूपपद्यते, असंख्येयगुणहानेरसंख्येयगुणवृद्ध चोपलम्भेन निम्नोनतत्वोपलम्भात् । तथाऽवान्तरकिट्टयन्तरजास्वपूर्वाऽवान्तरकिट्टिषु बन्धाऽपूर्वावान्तरकिट्टिसदृशो यो दलिकनिक्षेपः प्रतिपादितः । तत्र सादृश्यार्थोऽन्तरापेक्षया ज्ञातव्यः । यथा बन्धाऽपूर्वावान्तरकिट्टिषु पूर्वाऽवान्तरकिट्टीरन्तरयित्वाऽन्तरयित्वादलं प्रक्षिपति, तथाऽवान्तरकिट्टयन्तरजासु संक्रमापूर्वऽवान्तरकिट्टिष्वपि पूर्वाऽवान्तरकिट्टीरन्तरयित्वाऽन्तरयित्वा दलं प्रक्षिपति, न तु नैरन्तर्येण, अन्यथा सादृश्यं न संभवति । तद्यथा-यथा बन्धजधन्यपूर्वावान्तरकिट्टितो यथोत्तरमनन्तभागेन हीनं हीनतरं दलिकं दददसंख्येयपल्योपमप्रथमवर्गमूलप्रमाणबन्धपूर्वाऽत्रान्तरकिट्टिषु गतासु बन्धपूर्वावान्तरकिट्टितो बन्धाऽपूर्वावान्तरकिट्टावनन्तगुणं दत्त्वा तदनन्तरबन्धपूर्वाऽवान्तरकिट्टावनन्तगुणहीनं दलं ददाति स्म, तथा संग्रहकिट्टयन्तरोत्पन्नचरमाऽपूर्वावान्तरकिट्टितः संक्रमजघन्यपूर्वाऽवान्तरकिट्टावसंख्येयगुणहीनं दलं दत्त्वा संक्रमद्वितीयादिपूर्वाऽवान्तरकिट्टिष्वनन्तभागेन हीनं हीनतरं दलिकं ददत् पल्योपमप्रथमवर्गमूलाऽसंख्येयभागप्रमाणासु पूर्वाऽवान्तरकिट्टिषु गतासु न संक्रमाऽपूर्वाऽवान्तरकिट्टावनन्तगुणं दलं दत्वाऽनन्तरसंक्रमपूर्वावान्तरकिट्टावनन्तगुणहीनं ददाति, अपि तु संक्रमाऽपूर्वावान्तरकिट्टावसंख्यातगुणं दलं दत्वाऽनन्तरसंक्रमपूर्वावान्तरकिट्टयामसंख्यातगुणहीनं ददाति, अन्यथा संक्रमपूर्वावान्तरकिट्टितोऽवान्तरकिट्टयन्तरजायां संक्रमाऽपूर्वावान्तरकिट्टौ दृश्यमानदलस्याऽनन्तगुणत्वप्रसङ्गेन गोपुच्छाकारभङ्गः प्रसज्येत । अतो बन्धवदित्यत्र सादृश्यार्थोऽन्तरापेक्षया बोध्यः। तेन किट्टिवेदनाद्धाप्रथमसमये दलिकनिक्षेप इत्थं प्ररूपयितव्यः-सर्वमन्दानुभागका या लोभतृतीयसंग्रहकिट्टिप्रथमपूर्वाऽवान्तरकिट्टिः, तस्या अधस्तात् किट्टिवेदको लोभतृतीयसंग्रहकिट्टयन्तरे या अपूर्वावान्तरकिट्टीनिवर्तयति, तासु या सर्वजघन्याऽनुभागकावान्तरकिट्टिः, तस्यां प्रभूतं दलिकं ददाति । ततो द्वितीयस्यां लोमतृतीयसंग्रहकिट्टयन्तरजायामपूर्वावान्तरकिट्टावनन्तभागेन हीनं दलं ददाति, ततोऽनन्तरानन्तरेण विशेषहीनक्रमेण दलं तावद् ददाति, यावल्लोभतृतीयसंग्रहकिट्टयन्तरजचरमाऽपूर्वावान्तरकिट्टेिः । लोभतृतीयसंग्रहकिट्टयन्तरोत्पन्नचरमाऽपूर्वावान्तरकि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org