SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ २६६ ] खवगसेढी [ गाथा-१३७ तेन संक्रमापूर्वावान्तरकिट्टीनामन्तरं स्तोकतरं भवति, बन्धापूर्वावान्तरकिट्टयन्तरतोऽसंख्येयगुणहीनं भवतीत्यर्थः ॥१३६।। ॥गणितविभागः समाप्तः ॥ अथ संक्रमप्रदेशाग्रतो निर्वय॑मानापूर्वावान्तरकिट्टिषु दलनिक्षेपमतिदेशेन भणति संगहअंतरजासु णिखेवो किट्टिकरणब्ब बंधव । परजासु पल्लमूलासंखंसो अंतरं णवरं ॥१३७॥ संग्रहान्तरजासु निक्षेपः किट्टिकरणवद् बन्धवद् । परजासु पल्यालासंख्यांशोऽन्तरं नवरम् ॥१३७॥इति पदसंस्कारः । 'संगह०' इत्यादि, 'संग्रहान्तरजासु' संग्रहकिट्टयन्तरजास्थपूर्वाऽवान्तरकिट्टिषु 'निक्षेपः' दलनिक्षेपः किट्टिकरणवद् बोद्धव्य इति शेषः। 'पाजातु' अवान्तरकिट्टयन्तरजास्वपूर्वावान्तरकिट्टिषु 'बन्धवद्' बन्धाऽपूर्वाऽवान्तरकिट्टिवद् दलनिक्षेपो बोद्धव्य । सामान्येनाऽतिदिश्याऽन्तरविषयकमपवादमाह—'पल्ल' इत्यादि, तत्र नवरं 'पल्यमूलासंख्यांशः' पल्योपमप्रथमवर्गमूलाऽसंख्येयभागमात्रमन्तरं ज्ञेयम् । बन्धापूर्वावान्तर किट्टिदलनिक्षेपेऽन्तरमसंख्येयपल्योपमप्रथमवर्गमूलप्रमाणमासीत् । इह तु पल्योपमप्रथमवर्गमूलाऽसंख्येयभागप्रमाणं ज्ञातव्यमिति भावः । यदभ्यधायि कषायप्राभूतचूणौँ-"जाओ संगहकिट्टीअंतरेसु, तासिं जहा किटीकरणे अपुव्वाणं णिव्वत्तिजमाणियाणं किट्टीणं विधो, तहा कायव्वो। जाओ किट्टोअंतरेसु, तासिं जहा बज्झमाणएण पदेसग्गेण अपुव्वाणं णिव्वत्तिजमाणियाणं किहोणं विधी, तहा कायव्वो। णवरि थोवदरगाणि किटोअंतराणि गंतूण संछन्भमाणपदेसग्गेण अपुव्वा किही णिव्वत्तिजमाणिगा दिस्सदि। ताणि किट्टीअंतराणि पगणणादो पलिदोवमवग्गमूलस्स असंखेजदिभागो।” इति । . भावार्थः पुनरयम्-संग्रहकिट्टयन्तरजास्वपूर्वावान्तरकिट्टिा किट्टिकरणसदृशो यो दलनिक्षेप उक्तः । तत्र सादृश्यार्थ उष्ट्रकूटाकारापेक्षया बोध्यः, अन्यथा सादृश्यं न संभवति, । तथाहिकिट्टिकरणाद्धायां प्रतिसमयमवान्तरकिट्टितयाऽसंख्येयगुणक्रमेण दलं परिणम्यते स्म, तेन पूर्वावान्तरकिट्टिगतदलत उत्तरोत्तरसमयेऽसंख्येषगुणं दलं किट्टितया परिणम्यते स्म । तथाऽपूर्वावान्तरकिट्टिषु यथोत्तरमनन्ततमभागेन हीनं दलिकं ददच्चरमाऽपूर्वावान्तरकिट्टितः प्रथमपूर्वावान्तरकिट्टावसंख्येयभागेन हीनं दलं ददाति स्म, ततोऽनन्तभागेन हीनं हीनतरं ददच्चरमपूर्वाऽवान्तरकिट्टितः प्रथमाऽपूर्वावान्तरकिट्टावसंख्येयभागेनाविक दलं ददाति स्म । किट्टिवेदनाद्धायां पुनस्तादृशो दलनिक्षेपो न संभवति । कुतः ? इति चेत्, उच्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy