________________
गणितरीत्या बन्धसंक्रमापूर्वावान्तर किट्टयः ] किट्टिवेदनाद्धाधिकारः
न्यासः-
लोभप्रथमसंग्रह किट्टौ सर्वाः संक्रमापूर्वा त्रान्तरकिट्टयः
=
तत्संग्रह किट्टिगता ऽवान्तरकिट्टयः पल्योपम प्रथमवर्गमूलासंख्यभागः
यद्यपि द्वात्रिंशदधिकशततमगाथायाष्टीकायां बन्धापूर्वावान्तरकिट्टिराशिर्गणितरीत्या दर्शितः, तथापीह संक्रमापूर्वान्तरकिट्टिराशिना सह तुलनां कर्तुं पुनः प्रदर्श्यते । एवमन्तरमपि । लोभस्य बन्धदलम् 'अ', एकसमयबद्धत्वात् । बन्धदलतो ऽनन्ततमभागमात्रं दलं पृथक् स्थापयित्वा शेषं बन्धापूर्वावान्तरकिद्वित्वेन परिणमयति । स्थूलदृष्टया 'अ' इति दलं बन्धाऽपूर्वावान्तर किट्टितया परिणमयति, अनन्ततमभागस्याविवक्षणात् । यदि '८ अ' इत्यनेन दलेन द्वासप्ततिः (७२) अवान्तरकियो निर्वर्तिताः, तर्हि 'अ' इत्यनेन कत्यवान्तरकिट्टयो निर्वयेरन् ? इति त्रैराशिकेन नत्र ( ९ ) अवान्तरकिय: साध्यन्ते । ताच परमार्थतोऽसंख्येयपल्योपमप्रथमवर्गमूलभाजितलोभप्रथम संग्रह किट्टिगतावान्तरकिट्टियमाणा भवन्ति । तेन बन्धाऽपूर्वावान्तरकिट्टितोसंख्येयगुणाः संक्रमाऽपूर्वावान्तरकिट्टयो निर्वर्त्यन्त इति सिध्यति, उत्कर्षणापकर्षणभागहारतोऽसंख्येयपल्योपमप्रथमवर्गमूलानाम संख्येयगुणत्वान् ।
अथाऽन्तरं साध्यते - अष्टादशसंक्रमाऽपूर्वावान्तरविट्टिभिरेकसंग्रह किट्टि सर्वपूर्वावान्तरकिट्टयो द्वासप्ततिसंख्याका अन्तर्यन्ते, तो कसंक्रमाऽपूर्वावान्तरकिट्ट्याः कति पूर्वावान्तरकिट्टयोऽन्तरयितव्याः १ इति त्रैराशिकेन साधनीयमन्तरम् । तद्यथा - प्रमाणमत्र १८, प्रमाणफलम् ७२, इच्छा १ । "प्रमाणमिच्छा ० " इति श्री भास्कर वचनेनेच्छागुणितं प्रमाणफलमिदम्-७२x१=७२, तच्च १८इति प्रमाणेन भक्तव्यम्, तदा इच्छाफलम् ३ = ४, तच्च परमार्थत उत्कर्षणापकर्षणभागप्रमाणं भवत् पल्योपमप्रथमवर्गमूलाऽसंख्येयभाग प्रमितं भवति ।
[ २६५
यद्यपि प्रथमतोऽन्ततश्चाऽसंख्येयभागं विहाय पूर्वावान्तरकिट्टय एकैकबन्धापूर्वावान्तरकिट्टया व्यवधीयन्ते, तथापि स्थूलदृष्ट्या सर्वपूर्वावान्तरकिट्टयो व्यवधीयन्त इति कल्प्यते, असंख्येयभागस्याविवक्षणात् । यदि नवभिर्वन्धापूर्वावान्तरकिट्टिभिरेकसंग्रह किट्टिसर्वपूर्वावान्तरकिट्टयो द्वासप्ततिसंख्याका अन्तर्गन्ते, तहॊकया बन्धापूर्वावान्तरकिया कियत्यः पूर्वावान्तरकिट्टयो व्यवधातव्याः १ इति त्रैराशिकेन व्यवधीयमानाः पूर्वावान्तर किट्टयः साध्याः ।
७२
न्यासः -- प्रमाणम् =९, प्रमाणफलम् = ७२, इच्छा-१, इच्छाफलम् - =< ९
Jain Education International
असत्कल्पनया - sष्टौ (८) परमार्थतस्त्वसंख्येयपल्योपमप्रथमवर्गमूलप्रमाणाः पूर्वावान्तर किट्टीरतिक्रम्यैकां बन्धाऽपूर्वावान्तरकिट्टि निर्वर्तयति, संक्रमाऽपूर्वावान्तरकिट्टिस्त्वसत्कल्पनया चतस्रः (४) परमार्थतः तः पुनः पल्योपम प्रथमवर्गमूला - ऽसंख्येयभाग प्रमाणाः पूर्वाऽवान्तरकिट्टीरुल्लङ्घय निर्वर्त्यन्ते ।
For Private & Personal Use Only
www.jainelibrary.org