________________
संक्रमा पूर्वावान्तर किट्टी नामल्पबहुत्वम् ]
किट्टवेदनाद्धाधिकारः
[ २६३
संग्रहकियन्तरजाभ्योऽपूर्वावान्तर किट्टिभ्यो ऽवान्तरविट्ट्यन्तरजाः 'असंखगुणितापुव्वा' ति "शेष संस्कृतवत् सिद्धम्' (सिद्धहेम० ८-४-४४८) इति प्राकृतलक्षणदर्शनाद् आकारोऽकारेण सह दीर्घो जातः, विश्लेषे चाऽकारः प्राप्तः तेन 'असंखगुणिआ अपुव्वा' त्ति 'असंख्यगुणिताः' असंख्येयगुणा अपूर्वा :- अपूर्वावान्तरकिट्टयो 'भवन्ति' जायन्ते । उक्तं च कषायप्राभृतचूणौं- “जाओ संगह किट्टीअंतरेसु, ताओ धोवाओ। जाओ किट्टीअंतरेसु, ताओ असंखेज गुणाओ ।" इति । अयं भावः - किट्टिवेदनाद्वायाः प्रथमसमये संक्रमदलतः क्रोधप्रथमसंग्रह किट्टि वर्जयित्वैकादशसंग्रह किट्टीनामवस्तात् तथा तासामेवैकादश संग्रह किट्टीनामवान्तरकियन्तरेष्वपूर्वा अवान्तरकिट्टयो निर्वर्त्यन्त इति प्रागुक्तम् । तत्र क्रोधप्रथम संग्रहकिद्धिं परित्यज्यैकादशसंग्रहकिट्टीनामधस्ताद् योऽवकाशः, स संग्रह किट्टयन्तरम् । तत्र या अपूर्वा अवान्तरकिट्टयो जायन्ते, ताः संग्रह किट्टयन्तरजा उच्यन्ते । तथा क्रोधप्रथम संग्रहकिद्धिं विहायैकादश संग्रह किट्टीनामवान्तरकियन्तरेषु या अपूर्वा अवान्तरवििडयो जायन्ते, ता अवान्तरवििट्टयन्तरजा व्यपदिश्यन्ते । तत्रैकादशसंग्रहकियन्तरेषु यावत्संक्रमदलिकतोऽपूर्वावान्तरकिट्टी र्निर्वर्तयति, ततोऽसंख्येयगुणं संक्रमदलिकमादायैकादशसंग्रहकिट्टी नामवान्तरकिट्टयन्तरेष्वपूर्वावान्तरकिट्टीनिंष्पादयति । तेन
संग्रह कियन्तरोत्पन्नापूर्वावान्तरकिट्टितोऽवान्तरकिट्ट्यन्तरोत्पन्नाऽपूर्वावान्तरकियोऽसंख्येयगुणा भवन्ति ।
संग्रहकिट्टयन्तरजा अपूर्वावान्तरकिट्टयो निरन्तरं तिष्ठन्ति, न तु पूर्वावान्तरविट्टिभिर्व्यवहिताः, तत्र पूर्वावान्तरकिट्टीनामभावात् ।
अवान्तर किट्टयन्तरोत्पन्नास्त्वपूर्वावान्तरकिट्टयो न निरन्तरमवतिष्ठन्ते, अपि तु विवक्षितसंग्रहकिट्ट्याः सर्वजघन्यपूर्वावान्तरकिट्टितः पल्योपमप्रथमवर्गमूलाऽसंख्येयभागे गते सति । तथाहि —विवक्षितसंग्रह किट्टयाः प्रथमपूर्वावान्तरकिट्टि द्वितीयपूर्वान्तरकिट्टयोर्यदन्तरं भवति, तत् प्रथममवान्तरकिट्टयन्तरम् । तत्र संक्रमदलतोऽपूर्वावान्तरकिट्टिं न निर्वर्तयति, एवं द्वितीयेऽवान्तरकिट्टयन्तरेऽप्यपूर्वावान्तरकिट्टिं न निर्वर्तयति । एवंक्रमेण पल्योपमप्रथमवर्गमूलाऽसंख्येयभागमात्राण्यवान्तरकिट्ट्यन्तराणि व्यतिक्रम्याऽवान्तरकिट्ट्यन्तरयेकामपूर्वाऽवान्तरकिद्धिं निर्वर्तयति । ततः पुनः पल्योपमप्रथमवर्गमूळ संख्येयभागमितान्यवान्तरकिंट्टयन्तराणि गत्वैकामपूर्वऽवान्तरकिसिं निर्वर्तयति, ततः पुनः पल्योपमप्रथम वर्गमूलाऽसंख्येयभागप्रमाणान्यवान्तरकिट्टयन्तराण्युल्लङ्घये कामपूर्वाऽवान्तरकिट्टि निर्वर्तयति । एवं तावद्वक्तव्यम्, यावत् संक्रमप्रदेशाग्रतो निर्वर्त्यमाना चरमाऽपूर्वावान्तरकिट्टिः । न चाऽवान्तरकियन्तरेषु पल्योपमवर्गमूलाऽसंख्येयभागमात्राणि स्थानानि गस्यैकैकाऽपूर्वाऽवान्तरकिट्टिर्निर्वर्त्यत इत्येतत्कथमवसीयते १ इति वाच्यम्, अग्रिमगाथया दलनिक्षेपविधानावसरे पल्योपमप्रथम वर्गमूलाऽसंख्येयभागमात्रस्याऽन्तरस्य प्रतिपादयिष्यमाणत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org