________________
२६२ ]
खवगसेढी
गाथा-१३५-१३६ कुणए वज्जिय कोहपढमं तु एगारसाण हे?म्मि। तहऽवंतरकिट्टीअंतरेसु संकमदला अपुवाओ ॥१३५॥ [गीतिः ] करोति वर्जयित्वा क्रोधप्रथमां त्वेकादशानामधस्तात् तथाऽवान्तरकिट्टयन्तरेषु संक्रमदलादपूर्वाः ॥१३५॥ इति पदसंस्कारः।
'कुणए' इत्यादि, तत्र'क्रोधप्रथमां' क्रोधप्रथमसंग्रहकिट्टि तु वयित्वा शेषाणामेकादशानां संग्रहकिट्टीनामधस्तात् तथैकादशानां संग्रहकिट्टीनाभवान्तरकिट्टयन्तरेषु 'संक्रमदलात्' संक्रमप्रदेशाग्राद् 'अपूर्वाः' अपूर्वाऽवान्तरकिट्टीः करोति । उक्तं च कषायप्राभृतचूर्णी-"जाओ संकामिज्जमाणियादो पदेसग्गादो अपुवाओ किट्टीओ णिव्वत्तिज्जंति, ताओ दुसु ओगासेसु । तंजहा-किट्टीअंतरेसु च संगहकिटोअंतरेसु च।” इति । अत्र क्रोधस्य प्रथमसंग्रहकिट्टि वर्जयित्वा शेषाणामेकादशानां संग्रहकिट्टीनामवस्ताद् योऽवकाशः, स संग्रहकिट्टयन्तरं ज्ञातव्यः । तथा क्रोधप्रथमसंग्रहकिट्टि वर्जयित्वा शेषकादशसंग्रहकिट्टीनां संलग्नयोद्वयोः स्वस्वावान्तरकिट्टयोमध्ये योऽवकाशः, सोऽवान्तरकिट्टयन्तरं वाच्यः । न च संक्रमदलतः क्रोधप्रथमसंग्रहकिट्टया अधस्तात् तथा क्रोधप्रथमसंग्रहकिटेरवान्तरकिट्टयन्तरेष्वपूर्वी अवान्तरकिट्टयः कुतो न निर्वय॑न्त इति वक्तव्यम्, तस्या विनाश्यमानत्वेन तत्र संक्रमाऽपूर्वावान्तरकिट्टिनिर्वर्तनाऽभावात् । तदेवं क्रोधप्रथमसंग्रहकिट्टो बन्धप्रदेशत एवाऽपूर्वा अवान्तरकिट्टयो निर्वय॑न्ते । मान-मायालोभानां च प्रथमसंग्रहकिट्टी बन्धप्रदेशतः संक्रमप्रदेशतश्चाऽपूर्वावान्तरकिट्टयो निर्वयन्ते । क्रोधादीनां शेपास्वष्टासु संग्रहकिट्टिषु केवलं संक्रमप्रदेशत एवाऽपूर्वावान्तरकिट्टयो निर्वय॑न्त इति फलितार्थः । इदन्त्ववधेयम्बन्धप्रदेशतः क्रोधादिप्रथमसंग्रहकिट्टीनामवान्तरकिट्टयन्तरेषु निर्वय॑माना अपूर्वावान्तरकिट्टयः स्तोका भवन्ति, एकसमयप्रबद्धप्रदेशाग्रेण तासां निवृत्तेः । ततोऽसंख्येयगुणाः संक्रमप्रदेशतः क्रोधादीनां द्वितीयाद्येकादशसंग्रहकिट्टीनामधस्तात् क्रोधादीनां चैकादशसंग्रहकिट्टयवान्तरकिट्टयन्तरेषु निर्वय॑माना अपूर्वा अवान्तरकिट्टयो भवन्ति, संक्रमप्रदेशाग्रस्याऽसंख्येयसमयबद्धमात्रत्वात् । अभ्यधायि च कषायप्राभृतचूर्णी-"बज्झमाणयादो थोवाओ णिव्वत्तेदि । संकामिज्जमाणयोदो असंखेज्जगुणाओ।" इति ॥१३५।।
साम्प्रतं संक्रमदलतो निर्वय॑मानाऽपूर्वावान्तरकिट्टीनामल्पबहुत्वमभिधत्तेसंकमओ णिव्वत्तिजमाणकिट्टीसु संगहंतरजत्तो। होंति अवंतरकिट्टीअंतरजाओ असंखगुणिआऽपुव्वा ॥१३६॥ (आर्यागीतिः)
___ संक्रमतो निर्वय॑मानकिट्टिषु संग्रहान्तरजाभ्यः ।
भवन्त्यवान्तरकिट्टयन्तरजा असंख्यगुणिता अपूर्वाः ॥१३६।। 'संकमओ' इत्यादि, 'संक्रमतः' संक्रमदलतो निर्वय॑मानकिट्टिषु 'संग्रहान्तरजाभ्यः'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org