________________
बन्धपूर्वापूर्वावान्तरकिट्टिषु दलनिक्षेपः ] किट्टिवेदनाद्धाधिकारः
[ २६१ ___ 'बंधादि०' इत्यादि. 'बन्धादिपूर्वकिट्टी' बन्धप्रथमपूर्वाऽवान्तरकिट्टी प्रदेशाग्र 'बहु' प्रभूतं ददाति । इदमुक्त भवति-चतसृणां प्रथमसंग्रहकिट्टीनामधस्तनमुपरितनं चाऽसंख्येयभागं परित्यज्य शेषा मध्यमा अवान्तरकिट्टीबध्नाति । अथ मध्यमाऽवान्तरकिट्टिस्वरुपेण यमनुभागं बध्नाति, स पूर्वाऽवान्तरकिट्टिस्वरुपोऽपूर्वान्तरकिट्टिस्वरुपश्च भवति । तत्र बन्धे या सर्वजघन्याऽनुभागकाऽवान्तरकिट्टिः, तस्यां प्रभूतं प्रदेशाग्र बन्धदलतो ददाति । 'तत्तो' इत्यादि, ततः परं बन्धद्वितीयादिपूर्वाऽवान्तरकिट्टिषु विशेषहीनक्रमेण तावद् ददाति, यावद् 'अपूर्वस्याः' बन्धापूर्वाऽवान्तरकिया 'अधस्तना' अधस्तनबन्धपूर्वावान्तरकिट्टिः, अन्यथैकगोपुच्छाकारभङ्गः प्रसज्येत । जघन्यवन्धपूर्वाऽवान्तरकिट्टित आरभ्याऽसंख्यातपल्योपमप्रथमवर्गमूलप्रमाणासु बन्धपूर्वाऽवान्तरकिट्टिष्वनन्ततमभागहीनक्रमेण प्रदेशाग्रं ददाति, प्रथमादवान्तरकिट्टयन्तरादसंख्यातपल्योपमप्रथमवर्गमूलप्रमाणेष्ववान्तरकिट्टयन्तरेषु गतेषु सत्सु बन्धाऽवान्तरकिट्टिनिवृत्तिदर्शनादिति भावः । 'तत्तो' इत्यादि, 'ततः' बन्धप्रथमाऽपूर्वान्तरकिट्टितः प्राग या बन्धपूर्वाऽवान्तरकिट्टिस्तत इत्यर्थः, 'अपूर्वकिट्टी' बन्धप्रथमापूर्वावान्तरकिट्टयामनन्तगुणं प्रदेशाग्रं ददाति । 'ततः' बन्धप्रथमापूर्वाऽवान्तरकिट्टितः पूर्वस्यां बन्धावान्तरकिट्टौ 'अनन्तगुणोनम्' अनन्तगुणहीनं प्रदेशाग्रं ददाति ।
सम्प्रत्यतिदिदिक्षुराह-एवं' इत्यादि, एवं' यथा बन्धपूर्वावान्तरकिट्टिषु विशेषहीनक्रमेण दलिकं ददाति, यावदपूर्वकिट्टिरप्राप्ता भवति । ततोऽपूर्वावान्तरकिट्टयामनन्तगुणं दलिकं ददाति, ततः पूर्वावान्तरकिट्टावनन्तगुणहीनं ददाति, तथैव तावदभिधातव्यम्, यावद् ‘बन्धचरमकिट्टिः' बन्धचरमपूर्वावान्तरकिट्टिः । भावार्थः पुनरयम्-बन्धपूर्वावान्तरकिट्टिषु यथोत्तरमनन्तभागेन हीनं ददाति । बन्धपूर्वावान्तरकिट्टितोऽनन्तरायां बन्धाऽपूर्वावान्तरकिट्टयामनन्तगुणं दलं प्रक्षिपति, ततोऽनन्तरायां बन्धपूर्वावान्तरकिट्टावनन्तगुणहीनं दलं ददाति, ततो बन्धपूर्वाऽवान्तरकिट्टिषु यथोत्तरमनन्तभागेन हीनं दलिकं ददाति । एवंक्रमेण तावद्वक्तव्यम् , यावद् बन्धचरमपूर्वावान्तरकिट्टिः। उक्तश्च कषायप्राभृतचूर्णी-“बज्झमाणयस्स पदेसग्गस्स णिसेगसेढिपख्वणं वत्तइस्सामो-तत्थ जहणियाए किटोए बज्झमाणियाए बहुअं । विदियाए किट्टीए विसेसहोणमणंतभागेण, तदियाए विसेसहोणमणंतभागेण । चउत्थीए विसेसहोणं । एवमणंतरोवणिधाए ताव विसेसहोणं जाव अपुव्वकिहिमपत्तो त्ति । अपुव्वाए किट्टीए अणंतगुणं । अपुव्वादो किटोदो जा अणंतरकिट्टी, तत्थ अणंतगुणहोणं, तदो पुणो अणंतभागहोणं । एवं सेसासु सव्वासु ।” इति॥१३४॥ .
बन्धप्रदेशतोऽवान्तरकिट्टिनिवृत्ति विस्तरतो-ऽभिधाय संक्रमदलतोऽवान्तरकिट्टिनिर्वृत्ति व्याचिख्यासुराह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org