________________
२६० ]
खवगसेढी
[गाथा-१३३-१३४ लोभस्यैकसंग्रहकिट्टितया परिणतदलस्य '८ अ' इत्यस्य द्वासप्ततिरवान्तरकिट्टयो निर्वर्तिता इति कल्प्यताम् ।
८ अ' इत्यनेन द्वासप्ततिः (७२) अवान्तरकिट्टयो निर्वय॑न्ते, तर्हि 'अ' इत्यनेन कत्यवान्तरकिट्टयो निर्वयेरन् ? “प्रमाणमिच्छा च समानजाती, आद्यन्तयोस्तत्फलमन्यजातिः। मध्ये तदिच्छाहतमाद्यहृत् स्यादिच्छाफलम् ।” इति श्रीभास्करकरणसूत्रेण प्राप्तव्यो बन्धापूर्वावान्तरकिट्टिराशिः। तद्यथा-अत्र प्रमाणम्= ८ अ', इच्छा='अ', प्रमाणफलम् =७२। तत इच्छाहतं फलमिदम्-७२xअ=७२ अ, तच्च ८ अ' इति आयेन-प्रमाणेन हृत् इच्छाफलम्= ७२ अ:८ अ=९ । अत एकसमयप्रबद्धन नव (९) बन्धाऽपूर्वावान्तरकिट्टयो निर्वय॑न्ते । ताश्च परमार्थतः सार्धप्रदेशद्विगुणहानित्रिभागभाजितकसंग्रहकिट्टयवान्तरकिट्टिप्रमिताः सत्यः पूर्वाऽवान्तरकिट्टयसंख्येयभागप्रमाणा भवन्ति । ____ अथ नव (९) बन्धाऽपूर्वाऽवान्तरकिट्टिभिरेकसंग्रहकिट्टिसकलपूर्वाऽवान्तरकिट्टयोऽन्तर्यन्ते, तयंकबन्धाऽपूर्वाऽवान्तरकिट्टयाः कति पूर्वाऽवान्तरकिट्टयोऽन्तर्येरन् ? इति त्रैराशिकेनाऽन्तरं साधनीयम् । प्रमाणमत्र ९, प्रमाणफलम् ७२, इच्छा १ । 'प्रमाणमिच्छा०' इत्यनन्तरोक्तभास्करवचनेन इच्छागुणितं प्रमाणफलमिदम्-७२४१-७२, तच्च ९ इति प्रमाणेन भक्तव्यम्, तदा इच्छाफलमिदम्-१८ । तच्च सार्धद्विगुणहानिर्बिभागमात्रम् , चतुर्विशतेः साद्विगुणहानित्वेन परिकल्पनात् । अष्टाविति च राशिरसंख्येयपल्योपमप्रथमवर्गमूलकल्पो भवति, सार्धद्विगुणहान्या त्रिभागमात्रत्वात् । तेनैकैकाऽपूर्वावान्तरकिट्टिरसंख्येयपल्योपमप्रथमवर्गमूलप्रमाणावान्तरकिट्टयन्तराणि गत्वा गत्वा निर्वय॑ते । एवं मायामानक्रोधानां प्रथमसंग्रहकिट्टावपि प्ररूपयितव्यम् , नवरं लोभप्रथमसंग्रहकिट्टितः क्रोधप्रथमसंग्रहकिट्टौत्रयोदशगुणं दलं स्थापयित्वा प्ररूपणा विधेया॥१३२॥
॥ समाप्तो गणितविभागः ॥ अथ बन्धदलतः पूर्वाऽपूर्वावान्तरकिट्टिषु दलनिक्षेपविधि विभणिषुराहबंधादिपुवकिट्टीअ पएसग्गं बहुं देई । तत्तो विसेसहीणकमेण जा हेट्ठिमा अपुवाए ॥१३३॥ (उद्गीतिः) तत्तो अपुवकिट्टीअ अणंतगुणं तओ देई। पुव्वाअ अणंतगुणूणं एवं जाव बंधचरिमकिट्टी ॥१३४॥ (उद्गीतिः)
बन्धादिपूर्वकिट्टी प्रदेशाग्रं बहु ददाति । ततो विशेषहीनक्रमेण यावदधस्तनाऽपूर्वस्याः ॥ १३३ ।। ततोऽपूर्वकिट्टा अनन्तगुणं ततो ददाति । पूर्वस्यामनन्तगुणोनमेवं यावद् बन्धचरमकिट्टिः ॥ १३४ ॥ इति पदसंस्कारः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org