________________
बन्धापूर्वावान्तरकिट्टीनामन्तरम् ] किट्टिवेदनाद्धाधिकारः
[ २५९ वान्तरकिट्टि खलु 'करोति' निवर्तयति । भावार्थः पुनरयम्-उपरितनमधस्तनं चाऽसंख्येयभागं मुक्त्वा शेषा अवान्तरकिट्टयोबध्यन्ते । तत्र जघन्यावान्तरकिट्टया द्वितीयावान्तरकिट्याश्च यदन्तरं भवति, तत् प्रथममवान्तरकिट्टयन्तरमुच्यते । द्वितीयावान्तरकिट्टयास्तृतीयावान्तरकिट्टयाश्चान्तरं द्वितीयमवान्तरकिट्टयन्तरमभिधीयते,एवमग्रऽपि वक्तव्यम् । तत्र प्रथमावान्तरकिट्टयन्तरे बन्धदलतोऽपूर्वावान्तरकिट्टि न निवर्तयति। द्वितीयेऽप्यवान्तरकिट्टयन्तरे बन्धदलतोऽपूर्वाऽवान्तरकिट्टि न निवर्तयति । एवं प्रथमादवान्तरकिट्टयन्तरादसंख्येयपन्योपमप्रथमवर्गभूलप्रमाणान्यवान्तरकिट्टयन्तराणि गत्वा बन्धदलत एकामपूर्वाऽवान्तरकिट्टि निवर्तयति, ततः पुनरसंख्येयपल्योपमग्रथमवर्गमूलप्रमाणान्यवान्तरकिट्टयन्तराणि व्यतिक्रम्य द्वितीयामपूर्वाऽवान्तरकिट्टि निवर्तयति । ततोऽप्यसंख्येयपल्योपमप्रथमवर्गमूलमात्रावान्तरकिट्टयन्तराण्युल्लङ्घन्य तृतीयामपूर्वाऽवान्तरकिट्टि निवर्तयति । एवंक्रमेण तावद्वक्तव्यम्, यावद् बन्धप्रदेशतो निर्वय॑मानचरमाऽपूर्वाऽवान्तरकिट्टिः, सा चोपरितनानामसंख्यातपल्योपमप्रथमवर्गमूलप्रमाणानांबन्धे वर्तमानानामवान्तरकिट्टीनामधस्तानियते । उक्तं च कषायप्राभृतचूर्णी-"किटोअंतराणि अंतरट्टदाए असंखेजाणि पलिदोवमपढमवग्गमूलाणि, एत्तियाणि किट्टीअंतराणि गंतूण अपुव्वा किटो णिव्वत्तिज्जदि। पुणो वि एत्तियाणि किटोअंतराणि गंतूण अपुव्वा किट्टी णिव्वत्तिज्जदि।” इति । अनया रीत्या बन्धपूर्वाऽवान्तरकिट्टयसंख्येयभागमात्यो बन्धापूर्वावान्तरकिट्टयो निर्वय॑न्ते । न्यासः-निवर्त्यमानबन्धापूर्वावान्तरकिट्टयः=
र.. बन्धपूर्वावान्तरकिट्टिराशिः वावान्तराकट्टयः- असंख्यातपल्योपमप्रथमवर्गमूलानि
अथ गणितविभागः । . लोभस्य किट्टितया परिणतं दलं सार्धद्विगुणहानिगुणितैकसमयप्रबद्धप्रमाणं भवति । एकद्विगुणहानिश्चाऽसंख्यातपल्योपमप्रथमवर्गमूलप्रमाणाऽस्ति । निरुक्तदलस्य च तिस्रः संग्रहकिट्टयो निर्वर्तिताः । तत एकैकसंग्रहकिट्टो सार्धद्विगुणहानित्रिभागगुणितैकसमयप्रबद्धप्रमाणं सकलाऽवान्तरकिट्टितया दलं परिणतं भवति । यदि साद्विगुणहानित्रिभागगुणितैकसमयप्रबद्धप्रमाणेन दलेनैकैकसंग्रहकिट्टौ सकलाऽवान्तरकिट्टयो निर्वर्तिताः, तपेकसमयप्रबद्धप्रमाणेन दलेन कति बन्धाऽपूर्वाऽवान्तरकिट्टयो निर्वत्यैरन् ? इति त्रैराशिकेन सावनीया बन्धाऽपूर्वावान्तरकिट्टयः । असत्कल्पनया (१) द्विगुणहानिः षोडश (१६) कल्प्यताम् ।
सार्धद्विगुणहानिः चतुर्विशतिः (२४)। (२) एकसमयप्रबद्धदलम् ='अ' कल्प्यताम्
'लोभसंग्रहकिट्टितया परिणतं दलम् एकसमयप्रबद्धम् सार्धद्विगुणहानिः 'प्रकृते लोभसंग्रहकिट्टितया परिणतं दलम्=२४xअ=२४ अ अतो लोभस्यैकसंग्रहकिट्टितया परिणतं दलम्=२४ अ:३८ अ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org