________________
२५८ ]
खवगसेढी
[ गाथा--१३१-१३२ अथ निक्षेपक्रमो भण्यते-क्रोधस्य प्रथमसंग्रहकिट्टिघरमा-ऽवान्तरकियामादिदलत एकमादिदलखण्डमुत्तरदलतश्चैकचयं ददाति । क्रोधप्रथमसंग्रहकिट्टिद्विचरमाऽवान्तरकिट्टयामादिदलत एकमादिदलखण्डमुत्तरदलतश्च द्वौ चयौ प्रक्षिपति । एवं पश्चानुपूर्व्या घातरहितसर्वाऽवान्तरकिट्टिष्वकोत्तरवृद्धया चयानेकैकं चादिदलखण्डं तावद् ददाति, यावल्लोभतृतीयसंग्रहकिट्टिप्रथमाऽवान्तरकिट्टिः। एवंक्रमण दले प्रक्षिप्ते शेषसर्वघातदलं परिसमाप्तं भवति, सर्वाऽवान्तरकिट्टयश्चैकगोपुच्छाकारेण सम्पद्यन्ते । समाप्तो गणितविभागः ॥१२८-१२९-१३०॥ __संक्रमदलाऽल्पबहुत्वं गाथात्रयेणोक्तम् । सम्प्रति संक्रमदलतोऽवान्तरकिट्टीः केन विधिना निवर्तयतीति वक्तव्यम् । तत्राऽपि संक्रमदलतोऽवान्तरकिट्टिनिवृत्तरर्वाग् बन्धप्रदेशतो-ऽवान्तरकिट्टिनिवतिः प्रतिपादनीया, संक्रमावान्तरकिट्टिनितिप्ररूपणायामुपयोगित्वात् तस्याः । तेन बन्धप्रदेशादपूर्वाऽवान्तरकिट्टीनां निवृत्तिं प्रतिपिपादयिषुराह
बंधपअसा णिवत्तए अपुब्बा अवन्तरा किट्टी। पढमाण चउण्ह अवंतरकिट्टीअंतरसुतु ॥१३१॥ ___ बन्धप्रदेशाद् निवर्तयत्यपूर्वा अवान्तराः किट्टीः।।
प्रथमानां चतसृणामवान्तरकिट्टयन्तरेषु तु ॥१३१।। इति पदसंस्कारः । . 'बंधपअसा' इत्यादि, 'बन्धप्रदेशाद्' जात्यामेकवचनम् , बन्धप्रदेशेभ्यः 'चतसृणां' क्रोधमानमायालोभसम्बन्धिनीनां चतुःसंख्याकानां 'प्रथमानाम्' आद्यसंग्रहकिट्टीनामवान्तरकिट्टयन्तरेषु तु 'अपूर्वा' अभिनवा अवान्तराः किट्टीनिवर्तयति, न तु वक्ष्यमाणसंक्रमदलवत् संग्रहकिट्टीनामधस्तादपि । कथमेतदवसीयते ? इति चेत् , उच्यते-चतसृणां प्रथमसंग्रहकिट्टीनां मध्यमा एवाऽवान्तरकिट्टयो बध्यन्ते, न तु संग्रहकिट्टिसर्वजधन्यावान्तरकिट्टिापि ततो हीना । तेन संग्रहकिट्टया अधस्ताद् बन्धदलादपूर्वाऽत्रान्तरकिट्टयो न निर्वय॑न्ते ॥१३०॥
ननु बन्धप्रदेशतोऽपूर्वाऽवान्तरकिट्टीः किं सर्वाऽवान्तरकिट्टयन्तरेषु निर्वतयति ? उतास्ति कश्चिद् विशेषः ? इति, उच्यते-न तावत् सर्वेष्ववान्तरकिट्टयन्तरेषु । अथ यतिष्यवान्तरकिट्टयन्तरेषु गतेष्वपूर्वा अवान्तरकिट्टीनिवर्तयति, तदभिधित्सुराह
गंतूण असंखगुणिअपल्लपढमवग्गमूलठाणाणि । एगिगबंधअपुब्बं किट्टि खलु किट्टिअंतरे कुणइ ॥१३२॥ (गीतिः)
गत्वाऽसंख्यगुणितपल्पप्रथमवर्गमूलस्थानानि। ___ एकैकबन्धाऽपूर्वा किट्टि खलु फिट्टयन्तरे करोति ॥१३२॥ इति पदसंस्कारः। 'गंतूण' इत्यादि,तत्र 'असंख्यगुणितपल्यप्रथमवर्गमूलस्थानानि' असंख्येयपल्योपमप्रथमवर्गमूलमात्राण्यवान्तरकिट्टयन्तराणि' गत्वा' उल्लङ्घन्य 'किट्टयन्तरे' अवान्तरकिट्टयन्तर एकैकबन्धाऽपूर्वाऽ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org