________________
२५४ ] - खबगसेढी
। गाथा--१२८-१३० कोहस्स पढम(संगह)किट्टीदो कोहस्स चेव विदियसंगहकिट्टीए संकमदि पदेसग्गं संखेज्जगुणं ।” इति । पश्यन्तु पाठका यन्त्रकम्-१८ ।
अथ गणितविभागः। विवक्षितसंग्रहकिट्टितो यद्दलं संक्रमेणा-ऽन्यसंग्रहकिट्टि गच्छति, तद् व्ययदलं व्यपदिश्यते । अन्यसंग्रहकिट्टितः संक्रमेण विवक्षितसंग्रहकिट्टौ यद्दलमागच्छति, तद् आयदलमुच्यते । तत्र क्रोधप्रथमसंग्रहकिट्टावन्यसंग्रहकिट्टितो दलं नागच्छति, तेन तस्यामायदलं न भवति, लोभतृतीयसंग्रहकिट्टितथाऽन्यां संग्रहकिट्टि दलं न गच्छति, तेन तस्यां व्ययदलं न भवति ।
किट्टिकरणाद्धायां द्वादशसंग्रहकिट्टीनां सर्वाऽवान्तरकिट्टयः प्रदेशाग्रमाश्रित्य गोपुच्छाकारेण तिष्ठन्ति स्म, सर्वमन्दानुभागकलोमतृतीयसंग्रहकिट्टिप्रथमाऽवान्तरकिट्टित आरभ्य सर्वतीवाऽनुभागकां क्रोधप्रथमसंग्रहकिट्टिचरमावान्तरकिट्टि यावत् सर्वाऽवान्तरकिट्टयोऽनन्ततमभागहीनक्रमेण तिष्ठन्ति स्मेत्यर्थः । अथ किट्टिवेदनाद्धाप्रथमसमयतः प्रभृति द्वादशसंग्रहकिट्टिदलस्य गमनागमनदर्शनात् पौर्वसमयिकः स्वस्थानगोपुच्छाकारो विनश्यति । तत्र स्वस्थानगोपुच्छाकारो नाम प्रदेशापेक्षयकचयहान्या विवक्षितसंग्रहकिट्टिसम्बन्ध्युत्तरोत्तराऽवान्तरकिया अवस्थानम् । तथा पञ्चविंशत्युत्तरशततमगाथया द्वादशसंग्रहकिट्टयु परितनाऽसंख्येयभागमात्रावान्तरकिट्टिनाशस्याभिहितत्वात् परस्थानगोपुच्छाकारो विनश्यति । परस्थानगोपुच्छकारो नाम विवक्षितसंग्रहकिट्टिचरमाऽवान्तरकिट्टितस्तदनन्तरोपरितनसंग्रहकिट्टिप्रथमाध्वान्तरकिट्टी दलस्यैकचयेन हीनतयाऽवस्थानम् । किट्टिवेदनाद्धायाः प्रथमसमय उभयोः स्वस्थानपरस्थानगोपुच्छाकारयो शो जायते । तदेवं स्वस्थानगोपुच्छाकारः संक्रमतो व्ययदलेन विनश्यति, परस्थानगोपुच्छाकारश्चैकैकसंग्रहकिट्टयु परितनाऽसंख्येयभागमात्रीणामवान्तरकिट्टीनां घाततो प्रणश्यति । न च स्वस्थानगोपुच्छाकारः संक्रमतो व्ययदलेन नष्ट आयदलेन पुनः कुतो न विरच्यते ? इति वाच्यम्, आयव्ययदलयोः समानत्वाभावात् । तथाहि-कस्याञ्चित् संग्रहकिट्टयामायदलतो व्ययदलमधिकं भवति, कस्यांविद्धीनं भवति, परस्यां पुनरायदलमेष न भवति, तेनाऽऽयदलेन स्वस्थानगोपुच्छाकारः पुनने विरच्यते ।। __ अथ स्वस्थानगोपुच्छाकाररचना भण्यते
एकैकसंग्रहकिटेरुपरितना असंख्येयभागप्रमाणा या अवान्तरकिट्टयोऽनुसमयाऽपवर्तनया घात्यन्ते, तासां दलं घातदलमुच्यते । घात्यमानाचाऽवान्तरकिट्टयो घाताऽवान्तरकिट्टयो व्यवहियन्ते । अथ घातदलतो व्ययदलप्रमाणं दलं गृहीत्वा तत्तत्संग्रहकिट्टीनां घाताऽवान्तरकिट्टिरहितासु सर्वास्ववान्तरकिट्टिषु व्ययदले दत्ते तत्तत्संग्रहकिट्टिसर्वावान्तरकिट्टिष्वेकगोपुच्छाकारेण दलं दृश्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org