________________
२५२ ]
aarसेढी
[ गाथा - १२८-१३०
म्यमाणदलपतद्ग्रहलक्षणाधारमायाप्रथम संग्रहकिट्टि प्रदेशसत्कर्मणो विशेषाधिकत्वात् प्रदेशसंक्रमो विशेषाधिकः सिध्यति । किञ्च पूर्वमहर्षिवचनप्रामाण्यादध्यसावुपपद्यते, आगमोपपत्तिगम्यत्वात् तत्त्वस्य । यदुक्तमध्यात्मोपनिषदि -
"अनर्थायैव नार्थाय जातिप्रायाश्च युक्तयः । हस्ती हन्तीति वचने प्राप्ताप्राप्तविकल्पवत् ॥ १ ॥ ज्ञायेरन् हेतुवादेन पदार्था यद्यतीन्द्रियाः । कालेनैतावता प्राज्ञैः कृतः स्यात् तेषु निश्चयः ॥२॥ आगमोपपत्तिश्च सम्पूर्ण दृष्टिलक्षणम् । अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये || ३ || " इति
एवमग्र ेऽपि लोभप्रथमसंग्रहकिट्टिदलं लोभद्वितीयसंग्रह किट्टी संक्रम्यमाणदलतो लोभ तृतीयसंग्रहको विशेषाधिकं संक्रम्यते तथा क्रोधप्रथम संग्रह किट्टि प्रदेशाग्र मान प्रथम संग्रह किट्ट्यां संक्रम्यमाणदलतः क्रोधतृतीय संग्रहकट्टौ विशेषाधिकं संक्रम्यत इति वक्ष्यते, तत्राऽपीत्यमेव भावनीयम् ।
अथ मायायाः प्रथमसंग्रह किट्टी मानस्य प्रथमसंग्रह किट्टयाः संक्रम्यमाणप्रदेशतो मानस्य द्वितीय संग्रह किया दलं यथाप्रवृत्तसंक्रमेण मायायाः प्रथमसंग्रहको विशेषाधिकं संक्रमयति, तो मायाप्रथम संग्रहको संक्रम्यमाणमानद्वितीय संग्रह किट्टिप्रदेशाग्रतो मानस्य तृतीयसंग्रह किया दलं यथाप्रवृत्तसंक्रमेण मायायाः प्रथमसंग्रह किडौ विशेषाधिकं संक्रमयति । ततो मायायाः प्रथम संग्रह कट्टिदलं यथाप्रवृत्तसंक्रमेण लोभस्य प्रथमसंग्रहको विशेषाधिकं संक्रमयति । ततो मायाया द्वितीय संग्रह किट्टिप्रदेशाग्रं यथाप्रवृत्तसंक्रमेण लोभस्य प्रथम संग्रह किट्टो विशेषाधिक संक्रमयति । ततो विशेषाधिकं मायायास्तृतीयसंग्रह किट्टया दलिकं यथाप्रवृत्तसंक्रमेण लोभस्य प्रथमसंग्रहको संक्रमयति । ततो लोभस्य प्रथम संग्रह किया: प्रदेशाग्रमपवर्तनासंक्रमेण लोभस्य द्वितीय संग्रहको विशेाधिक संक्रमयति, सर्वत्र प्रदेशसत्कर्मणो विशेपाधिकत्वात् ।
ननु क्रोधद्वितीयादिसंग्रह किट्टीनां दलं मानादीनां प्रथमसंग्रहकट्टा यथाप्रवृत्तसंक्रमेण संक्रमयति, अत्र पुनर्लोभप्रथम संग्रह किट्टया दलं लोभद्वितीय संग्रहकट्टौ परप्रकृत्यभावादपवर्तनासंक्रमेण संक्रमयति, तर्हि यथाप्रवृत्तसंक्रमभागहारत उत्कर्षापकर्षणभागहारस्याऽसंख्येयगुणहीनत्वाद् यथाप्रवृत्तसंक्रमेण संक्रम्यमाणदलतोऽपवर्तन संक्रमेण संक्रम्यमाणदलमसंख्येयगुणं स्यात्, विशेषाधिकं कुत उच्यते ? इति चेत्, भग्यते एतत्समीचीनं भागहारविवक्षया, किन्तु नाsभागहारो विवक्षितः, अपि तु विशोविमाहात्म्याइ यथाप्रवृत्तसंक्रम भागहार उत्कर्षणापकर्षणभागहारानुसारेण प्रवर्तते । कथमेतदवसीयते ? इति चेत्, उच्यते - अनेनाऽल्पबहुत्वेनास्मिन्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org