________________
संग्रहकिट्टिसंक्रमदलाल्पबहुत्वम् ] किट्टिवेदनाद्धाधिकारः ।
[२५१ 'कोहबिइयतइयत्तो' इत्यादि, 'क्रोधद्वितीयतृतीयाभ्यां' क्रोधस्य द्वितीयसंग्रहकिट्टितः तृतीयसंग्रहकिट्टितश्च 'मानप्रथमायां' मानस्य प्रथमसंग्रहकिट्टी, ततोऽपि 'मानत्रिकात्' मानस्य प्रथमसंग्रहकिट्टितो द्वितीयसंग्रहकिट्टितस्तृतीयसंग्रहकिट्टितश्च 'मायाप्रथमाया' मायाप्रथमसंग्रहकिट्टी, ततोऽपि 'मायायास्त्रिकाच्च' मायायाः प्रथमसंग्रहकिट्टितो द्वितीयसंग्रहकिट्टितस्तृतीयसंग्रहकिट्टितश्च'लोभप्रथमायां' लोभस्य प्रथमसंग्रहकिट्टी, ततोऽपि 'लोभप्रथमायाः' लोभस्य प्रथमसंग्रहकिट्टितः 'तद्वितीयस्यां' लोभद्वितीयसंग्रहकिट्टो 'तस्या एव' लोभप्रथमसंग्रहकिट्टित एव पञ्चम्यन्ततत्पदेन लोभप्रथमसंग्रहकिट्टयाः परामर्शात् , 'तृतीयस्यां' लोभस्य तृतीयसंग्रहकिट्टौ विशेषाधिकक्रमेण प्रदेशान् संक्रमयति । 'तत्तो वि' इत्यादि, 'ततोऽपि' लोभप्रथमसंग्रहकिट्टौ संक्रम्यमाणेभ्यः प्रदेशेभ्योऽपि 'क्रोवप्रथमायाः' क्रोधस्य प्रथमसंग्रहकिट्टितः 'मानप्रथमाया' मानस्य प्रथमसंग्रहकिट्टौ 'संख्येयगुणितान्' संख्येयगुणान् प्रदेशान् संक्रमयति । 'ततः क्रोधप्रथमसंग्रहकिट्टित एव 'तृतीयस्यां' क्रोधतृतीयसंग्रहकिट्टौ विशेषाधिकान् प्रदेशान् संक्रमयति । 'ततः' क्रोधप्रथमसंग्रहकिट्टित एव 'क्रोधद्वितीयस्यां' क्रोधस्य द्वितीयसंग्रहकिट्टौ संख्यगुणांश्च प्रदेशान् संक्रमयति ।
___इदमुक्तं भवति-किट्टिवेदकाद्धायाः प्रथमसमये क्रोधस्य द्वितीयसंग्रहकियाः प्रदेशाग्र यथाप्रवृत्तसंक्रमेण मानस्य प्रथमसंग्रहकिट्टौ सर्वस्तोकं संक्रमयति । ततो विशेषाधिक क्रोधस्य तृतीयसंग्रहकिट्टया दलं यथाप्रवृत्तसंक्रमेण मानस्य प्रथमसंग्रहकिट्टौ संक्रमयति, मन्दानुभागकायां संग्रहकिट्टी प्रदेशाग्रस्याधिकत्वेन पूर्वपदापेक्षया संक्रम्यमाणदलस्याधिक्यस्य न्याय्यत्वात् । ततोऽपि विशेषाधिकं मानस्य प्रथमसंग्रहकिझ्याः प्रदेशाग्रं यथाप्रवृत्तसंक्रमेण मायायाः प्रथमसंग्रहकिट्टौ संक्रमयति । ननु चतुर्नवतितमप्रभृतिगाथासु मानस्य प्रथमसंग्रहकिट्टौ प्रदेशाग्र स्तोकं भवति, ततो विशेषाधिक मानस्य द्वितीयसंग्रहकिट्टौ भवति । ततो विशेषाधिक मानस्य तृतीयसंग्रहकिट्टी प्रदेशाग्र भवति। ततो विशेषाधिक क्रोधस्य द्वितीयसंग्रहकिट्टौदलं भवति, ततोऽपि विशेषाधिकं दलं क्रोधस्य तृतीयसंग्रहकिट्टी भवतीति स्तोकबहुत्वमुक्तम् । अत्र पुनः प्रदेशसंक्रमप्ररूपणाऽवसरे मानतृतीयसंग्रहकिट्टितोऽपि विशेषाधिकप्रदेशकायाः क्रोधद्वितीयसंग्रहकियाः प्रदेशाग्रं यथाप्रवृत्तसंक्रमेण मानप्रथमसंग्रहकिट्टौ स्तोकं संक्रमयति । ततस्तत्रैव क्रोधतृतीयसंग्रहकिट्टया दलं विशेषाधिकं यथाप्रवृत्तसंक्रमेण संक्रम्य ततो विशेषाधिकं मानस्य प्रथमसंग्रहकिट्टया दलं यथाप्रवृत्तसंक्रमेण मायायाः प्रथमसंग्रहकिट्टो संक्रमयति । इदं च नोपपद्यते, अल्पतरप्रदेशसत्ताकमानप्रथमसंग्रहकिट्टया अधिकं दलं मायाप्रथमसंग्रहकिट्टौ संक्रमयति बहुप्रदेशसत्ताकक्रोधतृतीयसंग्रहकिट्टयाश्च दलं स्तोकं मानप्रथमसंग्रहकिट्टी संक्रमयतीति युक्तिविरोधाद्, इति चेत्, मैवम्, तथास्वाभाव्यात् कुत्रचित् प्रदेशसंक्रम आधारानुरूपो भवति, कुत्रचिदाधेयाऽनुरूपो भवति, क्वचित् पुनरुभयानुरूपो भवति । अत्राऽऽधारानुरूपः प्रदेशसंक्रमः प्रवर्तते । तेन क्रोधतृतीयसंग्रहकिट्टिसंक्रम्यमाणदलपतद्ग्रहरूपाऽऽधारमानप्रथमसंग्रहकिट्टिप्रदेशसत्कर्मापेक्षया मानप्रथमसंग्रहकिट्टिसंक्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org