________________
२५० ]
खवगसेढी .
[ गाथा-१२७-१३० - लोभस्य प्रथमसंग्रहकिट्टयाः प्रदेशाग्रमपवर्तनासंक्रमेण लोभस्य द्वितीयसंग्रहकिट्टी तृतीयसंग्रहकिट्टौ च संक्रमयति । लोभस्य द्वितीयसंग्रहकिया दलमपवर्तनासंक्रमेण लोभस्य तृतीयसंग्रहकिट्टावेव संक्रमयति । लोभतृतीयसंग्रहकिट्टयाः प्रदेशाग्रमन्यत्र कुत्रचिदपि न संक्रमयति, आनुपूर्वीसंक्रमसद्भावात् किट्टि वेदकानां च मोहनीपस्योदर्तनाभावात् ॥१२६।। अथ संक्रम्यमाणप्रदेशनियमं दर्शयति
जं संगहकिट्टि अणुहवए तयणंतराअ इयरत्तो। संकामइ दलिअं संखगुणं अप्पबहुअं भणिमो ॥१२७॥ .
यां संग्रहकिट्टिमनुभवति तदनन्तरायामितरतः ।
संक्रमयति दलिकं संख्यगुणमल्पबहुत्वं भणामः ॥१२७।।इति पदसंस्कारः । . 'ज' इत्यादि, यां संग्रहकिट्टिमनुभवति, तदनन्तरायां संग्रहकिटौ 'इतरतः' इतरसंग्रहकिट्टी संक्रम्यमाणप्रदेशाग्रतः संख्यगुणं 'दलिकं' प्रदेशाग्र संक्रमयति । शेषासु संग्रहकिट्टिषु संक्रम्यमाणदलस्य प्रमाणं वक्ष्यमाणाऽल्पबहुत्वेन व्यक्तीभविष्यति । अथाऽल्पबहुत्वं प्रतिजानीते'अप्प०' इत्यादि, 'अल्पबहुत्वं' संक्रम्यमाणप्रदेशानां स्तोकबहुत्वं 'भणामः' निरूपयामः । क्रोधद्वितीयादिसंग्रहकिट्टीनां कति प्रदेशान् मानप्रथमादिसंग्रहकिट्टिषु संक्रमयतीति शङ्कासम्बन्धिनिर्णयप्रतिपादनपरमल्पबहुत्वं प्ररूपयाम इत्यर्थः ॥१२७।। ___साम्प्रतं प्रतिज्ञातमेव प्राहकोहबिइयतइयत्तो माणगपढमाअ माणगतिगत्तो । मायापढमाए माया तिगत्तो य लोहपढमाए ।।१२८।। (गीतिः) लोहपढमाउ तब्बिइयाए ताउ चिअ तइयाए । संकामेइ पअसा विसेसअहिअक्कमेण तत्तो वि ।।१२९।। (उद्गीतिः) कोहपढमाउ माणपढमाअ संखेज्जगुणिआ तो। तइयाअ विसेसहिआ तो संखगुणा च कोहबिइयाए ।।१३०॥(उद्गीतिः)
क्रोधद्वितीयतृतीयाभ्यां मानप्रथमायां मानत्रिकात् । मायाप्रथमायां मायायास्त्रिकाञ्च लोभप्रथमायाम् ॥१२॥ लोभप्रथमायास्तद्वितीयस्यां तस्या एव तृतीयस्याम् संक्रमयति प्रदेशान् विशेषाधिकक्रमेण ततोऽपि ॥१२९॥ क्रोधप्रथमाया मानप्रथमायां संख्येयगुणितांस्ततः । तृतीयस्यां विशेषाधिकांस्ततः संख्यगुणांश्च क्रोधद्वितीयस्याम् ॥१३०॥इति पदसंस्कारः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org