________________
२४६ ]
खवगसेढी
[गाथा-१२४ विशेषाधिका भवन्ति, ताश्चावान्तरकिट्टयः केवलं वेद्यन्ते, न बध्यन्ते । 'ततोऽपि' उपरितनोदीर्णावान्तरकिट्टितोऽपि, उभय्यः या अवान्तरकिट्टयो बध्यन्ते वेद्यन्ते च, ताः, असंख्येयगुणा भवन्ति , उपरितनोदीर्णाऽवान्तरकिट्टीनां क्रोधप्रथमसंग्रहकिट्टिगतसकलाऽवान्तरकिट्टयसंख्येयभागप्रमाणत्वात् , एतासां च क्रोधप्रथमसंग्रहकिट्टिगतसकलाऽवान्तरकिट्टिबह्वसंख्येयभागप्रमाणस्वात् । गुणकारश्चात्र पल्योपमाऽसंख्येयभागमात्रः । उक्तं च कषायप्राभृतौँ -"पढमाए संगहकिट्टीए हेहदो जाओ किट्टीओ ण बज्झंति, ण वेदिज्जंति, ताओ थोवाओ । जाओ किडीओ वेदिज्जति, ण बझंति, ताओ विसेसाहियाओ। तिस्से चेव पढमाए संगहकिट्टीए उरि जाओ किडीओ ण बज्झंति, ण वेदिज्जंति, ताओ विसेसाहियाओ । उवरि जाओ वेदिज्जति, ण बज्झंति, ताओ विसेसाहियाओ। मझे जाओ किटोओ बज्झंति च वेदिज्जति च , ताओ असंखेजगुणाओ।" इति ॥१२२-१२३॥
अथ किट्टिवेदनाद्धाप्रथमसमवान्प्रभृति मोहनीयस्याऽनभागाऽपवर्तनामुत्कृष्टानुभागबन्धोदयाल्पबहुत्वं च व्याजिहीपुराह
मोहस्सऽणुभागाण अणुसमयोवट्टणा गुरू किट्टी। गोमुत्तियाअ उदये बंधेऽणुखणं अणंतगुणहीणा ॥१२४॥ (गीतिः)
मोहस्याऽनुभागानामनुसमयाऽपवर्तना गुरुः किट्टिः।
गोमूत्रिक योदये बन्धेऽनुक्षणमनन्तगुणहीना ॥१२४॥ इति पदसंस्कारः । 'मोहस्स०' इत्यादि, 'मोहस्य' किट्टिवेदनाद्धाप्रथमसमयतः प्रभृति मोहनीयकर्मणोऽनुभागानामनुसमयापवर्तना भवतीत्युपस्कारः । निरूपितं च कषायप्राभतचूर्णी-"किट्टीणं पढमसमयवेदगप्पहुडि मोहणीयस्स अणुभागाणमणुसमयोवट्टणा ।" इति । अयम्भावः-पूर्व किट्टिकरणाद्वायां किट्टीः कुर्वतः क्षपकस्य रसघातोऽन्तमुहूर्तकालेन भवति स्म, इतः प्रभृति संग्रहकिट्टि भेदेन यो द्वादशविधः किट्टिस्वरूपोऽनुभागोऽस्ति,तस्य तनये समयेऽनन्तगुणहान्या घातो भवति, स घातोऽनुसमयापवर्तना व्यपदिश्यते । ज्ञानावरणादिकर्मणां तु पूर्ववदन्तमुहूर्त्तकालेनाऽनुभागघातो जापते । तथा सप्तानामपि स्थितिघातः पूर्ववत् प्रवर्तते ।
'गुरू' इत्यादि, 'गुरुः किष्टिः' किट्टिवेदनाद्धायाः प्रथमसमयतः प्रभृत्युत्कृष्टावान्तरकिंट्टिगोमूत्रिकयोदये बन्धे च 'अनुक्षणं'प्रतिसमयमनन्तगुणहीना भवति । इदमुक्तं भवति-किट्टिवेदनाद्धायाः प्रथमसमये क्रोधप्रथमसंग्रह किया या अनन्ता मध्यमा अवान्तरकिट्टय उदयन्ति, तासु या सर्योस्कृष्टाऽवान्तरकिट्टिः, सा प्रभूताऽनुभागका भवति । ततः किट्टिवेदनाद्धायाः प्रथम एव समये क्रोधप्रथमसंग्रहकिया या अनन्ता मध्यमा अान्तरकिट्टयो अध्यन्ते,तासु या सर्वोत्कृष्टाऽवान्तरकिट्टिः, साऽनन्तगुणहीना भवति । ततो द्वितीयसमय उदययुत्कृष्टाऽवान्तरकिट्टिरन्तगुणहीना भवति । ततो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org -