________________
[२४५
किट्टीनामल्पबहुत्वम्]
किट्टिवेदनाद्धाधिकारः साम्प्रतमध उपरि च विमुच्यमानाऽवान्तरकिट्टीनां मध्यमाऽवान्तरकिट्टीनां चाऽल्पबहुत्वं वक्तुकाम आह
कोहपढमाअ हेट्ठिमणुभया थोवा तओ हविज्जन्ति अहिआ हेट्ठिमुदिण्णा तत्तो उवरिल्लअणुभया अहिआ॥१२२॥(गीतिः) तत्तो उवरिमुदिण्णा विसेसअहिया हवन्ति तत्तो वि । होन्ति असंखेज्जगुणा उभयाउ अवन्तरा किट्टी ॥१२३॥ क्रोधप्रथमाया अधस्तनानुभय्यः* स्तोकास्ततो भवन्ति । अधिका अधस्तनोदीर्णास्तत उपरितनानुभय्योऽधिकाः ॥१२२।। तत उपरितनोदी विशेषाधिका भवन्ति ततोऽपि । भवन्त्यसंख्येयगुणा उभय्यो-ऽवान्तराः किट्टयः ॥१२३।। इति पदसंस्कारः।
'कोह०' इत्यादि,इह खल्वधस्तनीरसंख्येयभागप्रमाणा अवान्तरकिट्टीरुपरितनीश्चाऽसंख्येयभागप्रमाणा अन्तरकिट्टीविमुच्य शेषा अवान्तरकिट्टयो बध्यन्ते, तथैवाऽधस्तनीरसंख्येयभागप्रमिता उपरितनीश्चा-ऽसंख्येयभागप्रमाणा अवान्तरकिट्टीः परित्यज्य शेषा अवान्तरकिट्टयो वेद्यन्ते । किन्तु बध्यमानावान्तरकिट्टितो वेद्यमानावान्तरकिट्टयो विशेषाधिका भवन्ति । तत्र या अवान्तरकिट्टयो न बध्यन्ते, नापि स्वरूपतो वेद्यन्ते, ता अनुभय्य उच्यन्ते । यद्यपि सर्वकिट्टिगतदलमाकृष्य प्रथमस्थितिं करोति, तथापि कियतीश्चिदुपरितन्योऽधस्तन्यश्चावान्तरकिट्टय उदयनिषेके मध्यमावान्तरकिट्टिस्वरूपेण परिणमन्ति । तत्र मध्यमावान्तरकिट्टिरूपेण परिणता मन्दानुभागका अधस्तनाऽनुभयो वान्तरकिट्टय उच्यन्ते, तीव्राऽनुभागकास्तूपरितनाऽनुभय्योऽवान्तरकिट्टयो निगद्यन्ते । अधस्तन्यो मन्दानुभागका या अवान्तरकिट्टयः केवलं वेद्यन्ते, न बध्यन्ते,ता अधस्तनोदीर्णा अवान्तरकिट्टयो व्यवह्नियन्ते । उपरितन्यस्तीत्रानुभागका या अवान्तरकिट्टयः केवलं वेद्यन्ते,न बध्यन्ते,ता उपरितनोदीर्णा अवान्तरकिट्टयो व्यपदिश्यन्ते । या मध्यमा अवान्तरकिट्टयो वध्यन्ते वेद्यन्ते च,ता उभय्योऽवान्तरकिय उच्यन्ते । अथ गाथोक्ताऽल्पबहुत्वं व्याख्यायते-'क्रोधप्रथमायाः' क्रोधप्रथमसंग्रहकिट्टया अधस्तनाऽनुभय्योऽवान्तराः किट्टयः 'स्तोकाः' अल्पा भवन्ति, ताश्च कोधप्रथमसंग्रहकिट्टिसर्वावान्तरकिट्टीनामसंख्येयभागप्रमाणा मन्दानुभागका न बध्यन्ते, नापि स्वस्वरूपेण वेद्यन्ते । 'ततः' अधस्तनानुभयावान्तरकिट्टितो अधिकाः' विशेषाधिका अधस्तनोदीर्णा अवान्तरकिट्टयो भवन्ति,ताश्चावान्तर्राकट्टयः केवलमनुभूयन्ते,न बध्यन्ते । 'ततः' अधस्तनोदीर्णावान्तरकिट्टित उपरितनानुभय्यो वान्तरकिट्टयो 'अधिकाः' विशेषाधिका भवन्ति, ताश्च तीव्रानुभागका अवान्तरकिट्टयो न बध्यन्ते, नापि स्वस्वरूपेण वेद्यन्ते । 'ततः' उपरितनानुभयावान्तरकिट्टित उपरितनोदीर्णा अवान्तरकिट्टयो
★ अयं प्रयोगः सिद्धहमव्याकरणाद्यनुसारेण नोयः। पाणिनीया हि उभयशब्दाद् दो प्रत्ययं नेच्छन्ति, ततस्तन्मतानुसारेणाऽधस्तनानुभया इति प्रयोगो भवेत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org