________________
२४२ ]
खवगसेढी
[गाथा-१२० ठिइसंतं मोहस्स वरिसट्टगं देसघाइ रससंतं । णवरं समयूणावलियाए कोहस्स सव्वघाइ भवे ॥१२०॥ (गीतिः)
स्थितिसत्त्वं मोहस्य वर्षाष्टकं देशघाति रससात्त्वम् ।।
नवरं समयोनाबलिकायां क्रोधस्य सर्वघाति भवेत् ॥१२०॥इति पदसंस्कारः । 'ठिइसंत' इत्यादि, तत्र 'मोहस्य' किट्टिवेदनाद्धाप्रथमसमये संज्वलनक्रोध-मान-मायालोभात्मकमोहनीयस्य स्थितिसचं वर्षाष्टकं भवति, प्राक्तनसमयेऽन्तमुहर्त्ताधिकान्यष्टौ वर्षाणि यत् स्थितिसच्चमासीत्, तत् किट्टिवेदनकालप्रथमसमयेऽष्टवार्षिकं जायत इत्यर्थः । शेषकर्मणां तु स्थितिसत्त्वं पूर्ववदवसेयम् । तथाहि-मोहनीयवर्जघातित्रयस्य स्थितिसचं संख्येयसहस्रवर्षप्रमाणमघातित्रयस्य चाऽसंख्येयानि वर्षाणि भवति । किन्तु पूर्वत एकस्थितिखण्डेन हीनं भवति । उक्त च कषायप्राभृतचूर्णी-"किटोकरणे णिहिदे किटीणं पढमसमयवेदगस्स णामागोदवेदणीयाणं विदिसंतकम्ममसंखेज्जाणि वस्साणि, मोहणीयस्स ठिदिसंतकम्ममह वस्साणि । तिण्हं घादिकम्माणं ठिदिसंतकम्मं संखेज्जाणि वस्ससहस्साणि।" इति।
अथ मोहनीयस्या-ऽनुभागसत्त्वं भणति-'देसघाइ' इत्यादि, तत्र संज्वलनक्रोध-मान-मायालोभात्मकमोहस्य 'रससचम्' अनुभागसत्त्वं देशघाति भवति । तत्रापि द्विसमयोनद्वथावलिकाबद्धनूतनाऽनुभागः सत्कर्मणि स्पर्धकरूपेण विद्यते, किट्टिकरणकाले किट्टिरूपेण बन्धाभावात् शेषः सर्वोऽनुभागः किट्टिस्वरूयो वर्तते । यदभ्यधायिकषायप्राभृतचूर्णी-"संजलणाणं जे दो आवलियबंधा दुसमयूणा, ते देसघादी, तं पुण फद्दयगदं । सेसं किटिगदं।" इति । क्रोधस्यानुभागसत्तायामपवादं दर्शयति-'णवरं' इत्यादि, नवरं 'समयोनावलिकायां' एकसमयन्यूनोदयावलिकायां 'क्रोधस्य' संज्वलनक्रोधस्य रससचं सर्वघाति भवति, तत्र पुरातनाऽनुभागसत्कर्मणो विद्यमानत्वेन सर्वघातित्वे विरोधाभावात् । यत् प्रत्यपादि कषायप्राभृतचूर्णी"अणुभागसंतकम्मं कोहसंजलणस्स जं संतकम्मं समयूणाए उदयावलियाए छट्टिदल्लिगाए तं सव्वघादि ।” इति । भावार्थः पुनरयम्-किट्टिकरणाद्धाया विचरमसमयं यावत् किट्टितया परिणतसकलप्रदेशाग्रतः स्पर्धकगतसकलप्रदेशाग्रमसंख्येयगुणं भवति, स्पर्धकगतगतसकलप्रदेशसत्कर्मणोऽसंख्येयभागमात्रस्य दलस्य किट्टितया परिणतत्वात् । किट्टिकरणाद्धाचरमसमये तु स्पर्धकगतं सर्व दलं फिट्टितया परिणमयति, नवरं क्रोवस्व विमुच्यमानप्रथमस्थितिचरमाऽऽवलिकामात्रस्थितिगतं संज्वलनचतुष्कस्य च समयोनाऽऽवलिकाद्वयेन बद्धनूतनदलगतमनुभागसत्कर्म किट्टितया न परिणमयति, उदयापलिकागतत्वाद् नूतनबद्धत्वाच्च ।
किट्टिवेदनाद्धायाः प्रथमसमये क्रोधस्य प्राङमुक्ताऽऽवलिकायाः प्रथमनिषेकगतं दलं संक्रमेण किट्टितया परिणम्यते । तेन फिट्टिवेदनाद्धायाः प्रथमसमये क्रोवस्य समयोन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org