________________
स्थितिष्ववान्तरकिट्टीनामवस्थानम् ] किट्टिवेदनाद्धाधिकारः
[२४१ किट्टिप्रदेशान् प्रक्षिपति, किन्तूदयसमयेऽसंख्येयभागप्रमाणानां तीव्रानुभागकानां मन्दानुभागकानां चावान्तरकिट्टीनां प्रदेशान् मध्यमावान्तरकिट्टिस्वरूपेण परिणमयति । एवं किट्टिवेदनाद्धाद्वितीयादिसमयेष्वप्युदये प्रविष्टानामसंख्येयभागप्रमाणानामवान्तरकिट्टीनां प्रदेशान् मध्यमावान्तरकिट्टिस्वरूपेण परिणमयति, तेनोदयनिषेके सर्वा अवान्तरकिट्टयो न भवन्ति, किन्तु बह्वसंख्येयभागप्रमाणा मध्यमा भवन्ति, शेषप्रथमस्थितिनिषकेषु तु वेद्यमानसंग्रहकिट्टिसर्वावान्तरकिट्टयो भवन्ति ।
न चोदयसमयेऽनुभागहासोऽसिद्ध इति वाच्यम् , कषायप्राभूतचूर्णिकारादीनां वचनप्रामाण्येन तस्य सिद्धत्वात् । उक्त च कषायप्राभृतचूर्णिकारैः-"तदो तिस्से उदयावलियाए उदयसमयं मोत्तण सेसेसु समएसु जा संगहकिट्टी वेदिजमाणिगा, तिस्से अंतरकिटोओ सव्वाओ ताव धरिज्जंति, जाव ण उदयं पविट्ठाओ त्ति । उदयं जाधे पविट्ठाओ, ताधे चेव तिस्से संगहकिट्टीए अग्गकिहिमादि कादूण उवरि असंखेज्जदिभागो जहणियं किहिमादि कादूण हेट्ठा असंखेज्जदिभागो च मज्झमकिट्टीसु परिणमति ।” इति ।
अथाऽवेद्यमानसंग्रह किट्टीनामनुभागावस्थानं प्ररुरूपयिषुराह-सव्वा' इत्यादि, तत्र 'परासां' वेद्यमानसंग्रहकिट्टितोऽन्यासामवेद्यमानसंग्रहकिट्टीनामित्यर्थः, द्वितीपस्थितौ' द्वितीयस्थितिगतसर्वनिषेकेषु 'सर्वाः' अवेद्यमानसंग्रहकिट्टिसर्वावान्तरकिट्टयो भवन्ति, एकैकावान्तरकिट्टयाः प्रदेशा द्वितीयस्थितिगतैकैकनिषेके तिष्ठन्तीत्यर्थः । प्रथमस्थितेरभावात् प्रथमस्थिताववेद्यमानसंग्रहकिट्टयवान्तरकिट्टयो न भवन्ति ।
___ इयं तु संग्रहगाथा । तेन प्रकृते क्रोधप्रथमसंग्रहकिट्टया वेद्यमानत्वात् क्रोधप्रथमसंग्रहकिट्टयाः सर्वाऽवान्तरकिट्टयः सर्वेषु द्वितीयस्थितिनिषेकेषूदयनिषेकं च वर्जयित्वा सर्वेषु प्रथमस्थितिनिषेकेषु भवन्ति, उदयनिषेके पुनर्बह्वसंख्येयभागप्रमाणा मध्यमा अवान्तरकिट्टयो भवन्ति । अवेद्यमानानां क्रोधद्वितीयादिसंग्रहकिट्टीनां द्वितीयस्थितिसर्वनिषेकेषु सर्वा अवान्तरकिट्टयो भवन्ति । एवं शेषसंग्रहकिट्टिवेदनप्ररूपणावसरेऽप्ययमर्थो भावनीयः । यदुक्तं कषायप्राभूतचूरें-“कोधस्स पढमसंगहकिहि वेदंतस्स तिस्से संगहकिट्टीए एकेका किट्टी विदियहिदीसु सव्वासु पढमहिदीसु च उदयवजासु एक्कका किट्टी सव्वासु हिदीसु । उदयट्टिदीए पुण वेदिजमाणियाए संगहकिटोए जाओ किट्टीओ, तासिमसंखेज्जा भागा। सेसाणमवेदिज्जमाणिगाणं संगहकिट्टीणमेकेका किट्टी सव्वासु विदियहिदीसु, पढमहिदीसु णत्थि ।” इति ॥११९॥
अथ किट्टिवेदनाद्धाप्रथमसमये मोहनीयस्य स्थितिसत्त्वमनुभागसचं चाभिधातुकामः प्राह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org