________________
२४० ]
किट्टवेदनाद्वाधिकारः
[ गाथा- ११९
वर्षपृथक्त्वमात्रत्वात् । इदमुक्त' भवति - द्वितीयस्थितिनिषेकेषु प्रदेशाग्र विशेषहीनं तेन क्रमेण तिष्ठति, येन प्रथमनिषेकतः पल्योपमाऽसंख्येयभागे गते प्रदेशाग्र द्विगुणहीनं भवेत् । अत्र तु स्थितिसत्कर्मणो वर्षपृथक्त्वमात्रत्वाच्चरमनिषेकः पल्योपमाऽसंख्येयभागस्याऽसंख्येयभाग एव ग प्राप्यते, तेन द्वितीयस्थितिप्रथम निषेकगत प्रदेशाग्रतो द्वितीयस्थितिचरमनिषेकगतप्रदेशाय विशोधिते शेषोऽसंख्येयभागः प्राप्यते, स च वर्षपृथक्त्वसमयभाजितपल्योपमाऽसंख्येयभागप्रमाणनिषेकभागहारेण द्वितीयस्थितिप्रथमनिषेकं विभज्य यल्लभ्यते, तन्मात्रो भवति । यदुक्तं कषायप्राभूते
"विदियहिदिआदिपदा सुद्धं पुण होदि उत्तरपदं दु । सेसो असंखेज्जदिमो भागो तिस्से पदेसग्गे ॥ १ ॥” इति ।
तथैव तच्चूर्णावपि - "विदियाए द्विदीए उक्कस्सिगाए पदेसग्गं तिस्से चैव जहण्णिगादो ट्ठिदोदो सुद्धं सुद्ध सेसं पलिदोवमस्स असंखेजदिभागपडिभागियं ।” इति ॥ ११८ ॥
किट्टवेदनाद्वायाः प्रथमसमये स्थितिषु दलिकावस्थानं प्ररूप्य सम्प्रति वेद्यमानसंग्रह - किट्ट्यास्तदितरासां च प्रथमस्थितौ द्वितीयस्थितौ चाऽनुभागावस्थानं प्रतिपिपादयिपुराह - वेइज्जमाण किट्टीए सव्वठिईसु होन्ति सव्वा किट्टी | नवरं उदये खल मज्झिमाऽत्थि सव्वा पराण बिइयठिईए ॥ ११९ ॥
(आर्यागीतिः)
वेद्यमान कियाः सर्वस्थितिषु भवन्ति सर्वाः किट्टयः ।
नवरमुदये खलु मध्यमाः सन्ति सर्वाः परासां द्वितीयस्थितौ ॥ ११९ ॥ इति पदसंस्कारः ।
'वेइज्ज०' इत्यादि, 'वेद्यमानकिट्टयाः ' वेद्यमान संग्रह किट्टयाः 'सर्वस्थितिषु' सर्वेषु प्रथमस्थितिनिपेकेषु द्वितीयस्थितिनिषेकेषु च सर्वाः 'किट्टयो' अवान्तरकिट्टयो भवन्ति । सामान्येनाऽभिधायाऽपवादं दर्शयति- 'नवरं' इत्यादि, नवरम्' उदये' उदयनिषेके खलु 'मध्यमाः’असंख्येभागप्रमाणास्तत्रानुभागका मन्दानुभागकाच वर्जयित्वा शेषा अवान्तरकिट्टयः 'सन्ति' विद्यन्ते, असंख्येयभागप्रमाणाऽवान्तरकिड्डीनां मध्यमावान्तर किट्टिरूपेण परिणतत्वात् । इदमुक्तं भवतिवेद्यमानसंग्रह कियाः सर्वा अवान्तरकियो द्वितीयस्थितेरेकैकनिषेके भवन्ति, एकैकस्या अवान्तरकिट्ट्याः प्रदेशास्तस्मिंस्तिष्ठन्तीत्यर्थः । न च कश्चिद् द्वितीयस्थितिनिषेकस्तादृशोऽस्ति, यस्मिन् कस्याश्चिदवान्तरकिट्टयाः प्रदेशा न भवेयुः । प्रथमस्थितौ त्वयं विशेष:- द्वितीयस्थितिगतसर्वा - वान्तरकिट्टिभ्यः प्रदेशाग्रमुत्कीर्योदयसमयादारभ्य प्रथमस्थितिचर मनिषेकं यावदेकैकाऽवान्तर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org